अध्यायः 211
एकस्याः बहुभार्यात्वे शङ्कमानान्द्रुपदादीन्प्रति व्यासेन स्वस्वाभिप्रायकथनानुज्ञा ॥ 1 ॥ द्रुपदादिभिः स्वस्वमते कथिते व्यासेनास्य विवाहस्य धर्म्यत्वकथनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः । 001a
प्रत्युथाय महात्मानं कृष्णं सर्वेऽभ्यवादयन् ॥ 001c
प्रतिनन्द्य स तां पूजां पृष्ट्वा कुशलमन्ततः । 002a
आसने काञ्चने शुद्धे निषसाद महामनाः ॥ 002c
अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा । 003a
आसनेषु महार्हेषु निषेदुर्द्विपदां वराः ॥ 003c
ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः । 004a
पप्रच्छ तं महात्मानं द्रौपद्यर्थं विशाम्पते ॥ 004c
कथमेका बहूनां स्यान्न च स्याद्धर्मसङ्करः । 005a
एतन्मे भगवान्सर्वं प्रब्रवीतु यथातथम् ॥ 005c
व्यास उवाच । 006
अस्मिन्धर्मे विप्रलब्धे लोकवेदविरोधके । 006a
यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् ॥ 006c
द्रुपद उवाच । 007
अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः । 007a
न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम ॥ 007c
न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः । 008a
न चाप्यधर्मो विद्वद्भिश्चरितव्यः कथञ्चन ॥ 008c
ततोऽहं न करोम्येनं व्यवसायं क्रियां प्रति । 009a
धर्मः सदैव सन्दिग्धः प्रतिभाति हि मे त्वयम् ॥ 009c
धृष्टद्युम्न उवाच । 010
यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ । 010a
ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन ॥ 010c
न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथञ्चन । 011a
अधर्मो धर्म इति वा व्यवसायो न शक्यते ॥ 011c
कर्तुमस्मद्विधैर्ब्रह्मंस्ततोऽयं न व्यवस्यते । 012a
पञ्चानां महिषी कृष्णा भवत्विति कथञ्चन ॥ 012c
युधिष्ठिर उवाच । 013
न मे वागनृतं प्राह नाधर्मे धीयते मतिः । 013a
वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथञ्चन ॥ 013c
श्रूयते हि पुराणेऽपि जटिला नाम गौतमी । 014a
ऋषीनध्यासितवती सप्त धर्मभृतां वरा ॥ 014c
तथैव मुनिजा वार्क्षी तपोभिर्भावितात्मनः । 015a
सङ्गताभूद्दश भ्रातॄनकेन्म्नः प्रचेतसः ॥ 015c
गुरोर्हि वचनं प्राहुर्धर्म्यं धर्मज्ञसत्तम । 016a
गुरूणां चैव सर्वेषां माता परमको गुरुः ॥ 016c
सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति । 017a
तस्मादेतदहं मन्ये परं धर्मं द्विजोत्तम ॥ 017c
कुन्त्युवाच । 018
एतमेतद्यथा प्राह धर्मचारी युधिष्ठिरः । 018a
भुज्यतां भ्रातृभिः सार्धमित्यर्जुनमचोदयम् । 018c
अनृतान्मे भयं तीव्रं मुच्येऽहमनृतात्कथम् ॥ 018e
व्यास उवाच । 019
अनृतान्मोक्ष्यसे भद्रे धर्मश्चैव सनातनः । 019a
ननु वक्ष्यामि सर्वेषां पाञ्चाल शृमु मे स्वयम् ॥ 019c
यथाऽयं विहितो धर्मो यतश्चायं सनातनः । 020a
यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः ॥ 020c
वैशम्पायन उवाच । 021
तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः । 021a
करे गृहीत्वा राजानं राजवेश्म समाविशत् ॥ 021c
पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः । 022a
विविशुस्तेऽपि तत्रैव प्रतीक्षन्ते स्म तावुभौ ॥ 022c
ततो द्वैपायनस्त्समै नरेन्द्राय महात्मने । 023a
आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता ॥ 023c
'यथा च ते ददुश्चैव राजपुत्र्याः पुरा वरम् । 024a
धर्माद्यास्तपसा तुष्टाः पञ्चपत्नीत्वमीश्वराः ॥' ॥ 024c
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि एकादशाधिकद्विशततमोऽध्यायः ॥ 211 ॥