अध्यायः 210
द्रुपदप्रश्नानन्तरं युधिष्ठिरेण स्वेषां पाण्डवत्वकथनम् ॥ 1 ॥ द्रौपद्याः पञ्चपत्नीत्वे द्रुपदस्य विवादः ॥ 2 ॥ व्यासागमनम् ॥ 3 ॥
वैशम्पायन उवाच । 001
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् । 001a
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ॥ 001c
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् । 002a
कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ॥ 002c
वैश्यान्वा गुणसम्पन्नानथ वा शूद्रयोनिजान् । 003a
मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् ॥ 003c
कृष्णाहेतोरनुप्राप्ता देवाः सन्दर्शनार्थिनः । 004a
ब्रवीतु नो भवान्सत्यं सन्देहो ह्यत्र नो महान् ॥ 004c
अपि नः संशयस्यान्ते मनः सन्तुष्टिमावहेत् । 005a
अपि नो भागधेयानि शुभानि स्युः परन्तप ॥ 005c
इच्छया ब्रूहि तत्सत्यं सत्यं राजसु शोभते । 006a
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ॥ 006c
श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिन्दम । 007a
ध्रुवं विवाहकरणमास्थास्यामि विधानतः ॥ 007c
युधिष्ठिर उवाच । 008
मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते । 008a
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् ॥ 008c
वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः । 009a
ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ ॥ 009c
आभ्यां तव सुता राजन्निर्जिता राजसंसदि । 010a
यमौ च तत्र कुन्ती च यत्र कृष्णा व्यवस्थिता ॥ 010c
व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ । 011a
पद्मिनीव सुतेयं ते ह्रदादन्यह्रदं गता ॥ 011c
इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते । 012a
भवान्हि गुरुरस्माकं परमं च परायणम् ॥ 012c
वैशम्पायन उवाच । 013
ततः स द्रुपदो राजा हर्षव्याकुललोचनः । 013a
प्रतिवक्तुं मुदा युक्तो नाशकत्तं युधिष्टिरम् ॥ 013c
यत्नेन तु स तं हर्षं सन्निगृह्य परम्तपः । 014a
अनुरूपं तदा वाचा प्रत्युवाच युधिष्ठिरम् ॥ 014c
पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरात् । 015a
स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ॥ 015c
तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् । 016a
विगर्हयामास तदा धृतराष्ट्रं नरेश्वरम् ॥ 016c
आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् । 017a
प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ॥ 017c
ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि । 018a
यमौ च राज्ञा सन्दिष्टं विविशुर्भवनं महत् ॥ 018c
तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः । 019a
प्रत्याश्वस्तस्ततो राजा सह पुत्रैरुवाच तम् ॥ 019c
गृह्णातु विधिवत्पाणिमद्यायं कुरुनन्दनः । 020a
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ॥ 020c
वैशम्पायन उवाच । 021
तमब्रवीत्ततो राजा धर्मात्मा च युधिष्ठिरः । 021a
'ममापि दारसम्बन्धः कार्यस्तावद्विशाम्पते ॥ 021c
तस्मात्पूर्वं मया कार्यं तद्भवाननुमन्यताम् ।' 022a
द्रुपद उवाच । 022
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम । 022c
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ॥ 022e
युधिष्ठिर उवाच । 023
सर्वेषां महिषी राजन्द्रौपदी नो भविष्यति । 023a
एवं प्रव्याहृतं पूर्वं मम मात्रा विशाम्पते ॥ 023c
अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः । 024a
पार्थेन विजिता चैषा रत्नभूता सुता तव ॥ 024c
एष नः समयो राजल्ँलब्धस्य सह भोजनम् । 025a
न च तं हातुमिच्छामः समयं राजसत्तम ॥ 025c
'अक्रमेण निवेशे च धर्मलोपो महान्भवेत् । 026a
'सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति । 026c
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करान् ॥ 026e
द्रुपद उवाच । 027
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन । 027a
नैकस्या बहवः पुंसः श्रूयन्ते पतयः क्वचित् ॥ 027c
'सोऽयं न लोके वेदे वा जातु धर्मः प्रशस्ते । 028a
'लोकवेदविरुद्धं त्वं नाधर्मं धर्मविच्छुचिः । 028c
कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ॥ 028e
युधिष्ठिर उवाच । 029
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् । 029a
पूर्वेषामानुपूर्व्येण यातं वर्त्माऽनुयामहे ॥ 029c
न मे वागनृतं प्राह नाधर्मे धीयते मतिः । 030a
एवं चैव वदत्यम्बा मम चैतन्मनोगतम् ॥ 030c
'आश्रमे रुद्रनिर्दिष्टाद्व्यासादेतन्मया श्रुतम् । 031a
'एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् । 031c
मा च शङ्का तत्र ते स्यात्कथञ्चिदपि पार्थिव ॥ 031e
द्रुपद उवाच । 032
त्वं च कुन्ती च कौन्तय धृष्टद्युम्नश्च मे सुतः । 032a
कथयन्त्विति कर्तव्यं श्वः काल्ये करवामहे ॥ 032c
वैशम्पायन उवाच । 033
ते समेत्य ततः सर्वे कथयन्ति स्म भारत । 033a
अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया ॥ ॥ 033c
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि दशाधिकद्विशततमोऽध्यायः ॥ 210 ॥
1-210-1 ब्राह्मेण ब्राह्मणार्थमुचितेनाभ्युत्थानादिना परिग्रहेण आतिथ्येन ॥ 1-210-6 इष्टापूर्तेन हेतुना । अनृतं न वक्तव्यमिति । अनृतभाषणे इष्टापूर्ते नश्येतामित्यर्थः ॥ 1-210-20 क्षणं देवपूजाद्युत्सवम् ॥ 1-210-24 अनिविष्टः अकृतविवाहः ॥ 1-210-25 समयो नियमः ॥ 1-210-26 ज्वलने ज्वलनसमीपे ॥ 1-210-27 पुंसः पुमां सः ॥ 1-210-29 यूयं च वयं च वयं । पूर्वेषां प्रचेतःप्रभृतीनाम् । तैर्यातं वर्त्म बहूनामेकपत्नीत्वमनुयामहे । तच्च आनुपूर्व्येणैव न त्वक्रमेण ॥ दशाधिकद्विशततमोऽध्यायः ॥ 210 ॥