अध्यायः 209
कुन्त्या सह पाण्डवानां द्रुपदगृहगमनम् ॥ 1 ॥ परीक्षणार्थं द्रुपदेन अनेकविधवस्तूपहरणम् ॥ 2 ॥ द्रौपद्या सह कुन्त्या अन्तःपुरप्रवेशः ॥ 3 ॥ भोजनानन्तरं पाण्डवानां साङ्ग्रामिकवस्तुपूर्णप्रदेशे प्रवेशः ॥ 4 ॥
दूत उवाच । 001
जन्यार्थमन्नं द्रुपदेन राज्ञाविवाहहेतोरुपसंस्कृतं च । 001a
तदाप्नुवध्वं कृतसर्वकार्याःकृष्णा च तत्रैतु चिरं न कार्यम् ॥ 001a
इमे रथाः काञ्चनपद्मचित्राःसदश्वयुक्ता वसुधाधिपार्हाः । 002c
एतान्समारुह्य परैत सर्वेपाञ्चालराजस्य निवेशनं तत् ॥ 002c
वैशम्पायन उवाच । 003
ततः प्रयाताः कुरुपुङ्गवास्ते पुरोहितं तं परियाप्य सर्वे । 003a
आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सहैकयाने ॥ 003c
'स्त्रीभिः सुगन्धाम्बरमाल्यदानैर्विभूषिता आभरणैर्विचित्रैः । 004a
माङ्गल्यगीतध्वनिवाद्यघोषैर्मनोहरैः पुण्यकृतां वरिष्ठैः ॥ 004c
सङ्गीयमानाः प्रययुः प्रहृष्टादीपैर्ज्वलद्भिः सहिताश्च विप्रैः ॥ 005ac
स वै तथोक्तस्तु युधिष्ठिरेण पाञ्चालराजस्य पुरोहितोऽग्र्यः । 006a
सर्वं यथोक्तं कुरुनन्दनेन निवेदयामास नृपाय गत्वा ॥' 006c
श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान्भारत धर्मराजः । 007a
जिज्ञासयैवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसञ्जहार ॥ 007c
फलानि माल्यानि च संस्कृतानि वर्माणि चर्माणि तथाऽऽसनानि । 008a
गाश्चैव राजन्नथ चैव रज्जूर्बीजानि चान्यानि कृषीनिमित्तम् ॥ 008c
अन्येषु शिल्पेषु च यान्यपि स्युः सर्वाणि कृत्यान्यखिलेन तत्र । 009a
क्रीडानिमित्तान्यपि यानि तत्र सर्वाणि तत्रोपजहार राजा ॥ 009c
वर्माणि चर्माणि च भानुमन्ति खड्गा महान्तोऽश्वरथाश्च चित्राः । 010a
धनूंषि चाग्र्याणि शराश्च चित्राः शक्त्यृष्टयः काञ्चनभूषणाश्च ॥ 010c
प्रासा भुशुण्ड्यश्च परश्वधाश्च साङ्ग्रामिकं चैव तथैव सर्वम् । 011a
शय्यासनान्युत्तमवस्तुवन्ति तथैव वासो विविधं च तत्र ॥ 011c
कुन्ती तु कृष्णां परिगृह्य साध्वीमन्तःपुरं द्रुपदस्याविवेश । 012a
स्त्रियश्च तां कौरवराजपत्नीं प्रत्यर्चयामासुरदीनसत्वाः ॥ 012c
तान्सिंहविक्रान्तगतीन्निरीक्ष्यमहर्षभाक्षानजिनोत्तरीयान् । 013a
गूढोत्तरांसान्भुजगेन्द्रभोगप्रलम्बबाहून्पुरुषप्रवीरान् ॥ 013c
राजा च राज्ञः सचिवाश्च सर्वेपुत्राश्च राज्ञः सुहृदस्तथैव । 014a
प्रेष्याश्च सर्वे निखिलेन राजन्हर्षं समापेतुरतीव तत्र ॥ 014c
ते तत्र वीराः परमासनेषु सपादपीठेष्वविशङ्कमानाः । 015a
यथानुपूर्व्याद्विविशुर्नराग्र्यास्तथा महार्हेषु न विस्मयन्तः ॥ 015c
उच्चावचं पार्थिवभोजनीयं पात्रीषु जाम्बूनदराजतीषु । 016a
दासाश्च दास्यश्च सुमृष्टवेषाः सम्भोजकाश्चाप्युपजह्रुरन्नम् ॥ 016c
ते तत्र भुक्त्वा पुरुषप्रवीरा यथात्मकामं सुभृशं प्रतीताः । 017a
उत्क्रम्य सर्वाणि वसूनि राजन्साङ्ग्रामिकं ते विविशुर्नृवीराः ॥ 017c
तल्लक्षयित्वा द्रुपदस्य पुत्राराजा च सर्वैः सह मन्त्रिमुख्यैः । 018a
समर्थयामासुरुपेत्य हृष्टाः कुन्तीसुतान्पार्थिवराजपुत्रान् ॥ ॥ 018c
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि नवाधिकद्विशततमोऽध्यायः ॥ 209 ॥
1-209-1 जन्यार्थं वरपक्षीयजतार्थं ॥ 1-209-3 परियाप्य प्रस्थाप्य ॥ 1-209-9 कृन्तन्तीति कृत्यानि वास्यादीनि ॥ 1-209-11 वस्तुवन्ति मतोर्मस्य वत्वमार्षम् ॥ 1-209-13 गूढोत्तरांसान्गूढजत्रून् | गूढोन्नतांसान् इति ङ. पाठः ॥ नवाधिकद्विशततमोऽध्यायः ॥ 209 ॥