अध्यायः 208
(अथ वैवाहिकपर्व ॥ 13 ॥)
धृष्टद्युम्नवार्तां श्रुतवता द्रुपदेन तत्वविवित्सया पाण्डवान्प्रति पुरोहितप्रेषणम् ॥ 1 ॥
वैशम्पायन उवाच । 001
ततस्तथोक्तः परिहृष्टरूपःपित्रे शशंसाथ स राजपुत्रः । 001a
धृष्टद्युम्नः सोमकानां प्रबर्होवृत्तं यथा येन हृता च कृष्णा ॥ 001c
धृष्टद्युम्न उवाच । 002
योऽसौ युवा व्यायतलोहिताक्षःकृष्णाजिनी देवसमानरूपः । 002a
यः कार्मुकाग्र्यं कृतवानधिज्यं लक्षं च यः पातितवान्पृथिव्याम् ॥ 002c
असज्जमानश्च ततस्तरस्वीवृतो द्विजाग्र्यैरभिपूज्यमानः । 003a
चक्राम वज्रीव दितेः सुतेषु सर्वैश्च देवैर्ऋषिभिश्च जुष्टः ॥ 003c
कृष्मा प्रगृह्याजिनमन्वयात्तं नागं यथा नागवधूः प्रहृष्टा । 004a
'श्यामो युवा वारणमत्तगामीकृत्वा महत्कर्म सुदुष्करं तत् ॥ 004c
यः सूतपुत्रेण चकार युद्धं शङ्केऽर्जुनं तं त्रिदशेशवीर्यम् ।' 005a
अमृष्यमाणेषु नराधिपेषु क्रुद्धेषु वै तत्र समापतत्सु ॥ 005c
ततोऽपरः पार्थिवसङ्घमध्येप्रवृद्धमारुज्य महीप्ररोहम् । 006a
प्राकालयत्तेन स पार्थिवौघान्भीमोऽन्तकः प्राणभृतो यथैव ॥ 006c
तौ पार्थिवानां मिषतां नरेन्द्रकृष्णामुपादाय गतौ नराग्र्यौ । 007a
'विक्षोभ्य विद्राव्य च पार्थिवांस्तान्स्वतेजसा दुष्प्रतिवीक्ष्यरूपौ । 007c
'विभ्राजमानाविव चन्द्रसूर्यौबाह्यां पुराद्भार्गवकर्मशालाम् ॥ 007e
तत्रोपविष्टार्चिरिवानलस्यतेषां जनित्रीति मम प्रतर्कः । 008a
तथाविधैरेव नरप्रवीरैरुपोपविष्टैस्त्रिभिरग्निकल्पैः ॥ 008c
तस्यास्ततस्तावभिवाद्य पादावुक्त्वा च कृष्णामभिवादयेति । 009a
स्थितौ च तत्रैव निवेद्य कृष्णां भिक्षाप्रचाराय गता नराग्र्याः ॥ 009c
तेषां तु भैक्षं प्रतिगृह्य कृष्णादत्वा बलिं ब्राह्मणसाच्च कृत्वा । 010a
तां चैव वृद्धां परिवेष्य तांश्चनरप्रवीरान्स्वयमप्यभुङ्क्त ॥ 010c
सुप्तास्तु ते पार्थिव सर्व एव कृष्णा च तेषां चरणोपधाने । 011a
आसीत्पृथिव्यां शयनं च तेषां दर्भाजिनाग्रास्तरणोपपन्नम् ॥ 011c
ते नर्दमाना इव कालमेघाः कथा विचित्राः कथयाम्बभूवुः । 012a
न वैश्यशूद्रौपयिकीः कथास्ता न च द्विजानां कथयन्ति वीराः ॥ 012c
निःसंशयं क्षत्रियपुङ्गवास्ते यथा हि युद्धं कथयन्ति राजन् । 013a
आशा हि नो व्यक्तमियं समृद्धामुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् ॥ 013c
यथा हि लक्ष्यं निहतं धनुश्चसज्यं कृतं तेन तथा प्रसह्य । 014a
यथा हि भाषन्ति परस्परं ते छन्ना ध्रुवं ते प्रचरन्ति पार्थाः ॥ 014c
वैशम्पायन उवाच । 015
ततः स राजा द्रुपदः प्रहृष्टःपुरोहितं प्रेषायामास तेषाम् । 015a
विद्याम युष्मानिति भाषमाणोमहात्मानः पाण्डुसुताः स्थ कच्चित् ॥ 015c
गृहीतवाक्यो नृपतेः पुरोधा गत्वा प्रशंसामभिधाय तेषाम् । 016a
वाक्यं समग्रं नृपतेर्यथावदुवाच चानुक्रमविक्रमेण ॥ 016c
विज्ञातुमिच्छत्यवनीश्वरो वः पाञ्चालराजो वरदो वरार्हाः । 017a
लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वाहर्षस्य नान्तं प्रतिपद्यते सः ॥ 017c
आख्यात च ज्ञातिकुलानुपूर्वीपदं शिरःसु द्विषतां कुरुध्वम् । 018a
प्रह्लादयध्वं हृदयं ममेदं पाञ्चालराजस्य च सानुगस्य ॥ 018c
पाण्डुर्हि राजा द्रुपदस्य राज्ञःप्रियः सखा चात्मसमो बभूव । 019a
तस्यैष कामो दुहिता ममेयं स्नुषा यदि स्यादिह कौरवस्य ॥ 019c
अयं हि कामो द्रुपदस्य राज्ञो हृदि स्थितो नित्यमनिन्दिताङ्गाः । 020a
यदर्जुनो वै पृथुदीर्घबाहुर्धर्मेण विन्देत सुतां ममैताम् ॥ 020c
कृतं हि तत्स्यात्सुकृतं ममेदं यशश्च पुण्यं च हितं तदेतत् । 021a
अथोक्तवाक्यं हि पुरोहितं स्थितं ततो विनीतं समुदीक्ष्य राजा ॥ 021c
समीपतो भीममिदं शशासप्रदीयतां पाद्यमर्ध्यं तथाऽस्मै । 022a
मान्यः पुरोधा द्रुपदस्य राज्ञस्तस्मै प्रयोज्याऽभ्यधिका हि पूजा ॥ 022c
वैशम्पायन उवाच । 023
भीमस्ततस्तत्कृतवान्नरेन्द्रतां चैव पूजां प्रतिगृह्य हर्षात् । 023a
सुखोपविष्टं तु पुरोहितं तदा युधिष्ठिरो ब्राह्मणमित्युवाच ॥ 023c
पाञ्चालराजेन सुता निसृष्टास्वधर्मदृष्टेन यथा न कामात् । 024a
प्रदिष्टशुंल्का द्रुपदेन राज्ञा सा तेन वीरेण तथाऽनुवृत्ता ॥ 024c
न तत्र वर्णेषु कृता विवक्षा न चापि शीले न कुले न गोत्रे । 025a
कृतेन सज्येन हि कार्मुकेण विद्धेन लक्ष्येण हि सा विसृष्टा ॥ 025c
सेयं तथाऽनेन महात्मनेह कृष्णा जिता पार्थिवसङ्घमध्ये । 026a
नैवं गते सौमकिरद्य राजा सन्तापमर्हत्यसुखाय कर्तुम् ॥ 026c
कामश्च योऽसौ द्रुपदस्य राज्ञः स चापि सम्पत्स्यति पार्थिवस्य । 027a
सम्प्राप्यरूपां हि नरेन्द्रकन्यामिमामहं ब्राह्मण साधु मन्ये ॥ 027c
न तद्धनुर्मन्दबलेन शक्यं मौर्व्या समायोजयितुं तथाहि । 028a
न चाकृतास्त्रेण न हीनजेन लक्ष्यं तथा पातयितुं हि शक्यम् ॥ 028c
तस्मान्न तापं दुहितुर्निमित्तं पाञ्चालराजोऽर्हति कर्तुमद्य । 029a
न चापि तत्पातनमन्यथेह कर्तुं हि शक्यं भुवि मानवेन ॥ 029c
एवं ब्रुवत्येव युधिष्ठिरे तु पाञ्चालराजस्य समीपतोऽन्यः । 030a
तत्राजगामाशु नरो द्वितीयो निवेदयिष्यन्निह सिद्धमन्नम् ॥ ॥ 030c
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि अष्टाधिकद्विशततमोऽध्यायः ॥ 208 ॥
1-208-27 सम्प्राप्यरूपामस्माकं योग्यरूपम् ॥ अष्टाधिकद्विशततमोऽध्यायः ॥ 208 ॥