अध्यायः 207

पाण्डवावासे धृष्टद्युम्नस्य निलीयावस्थानम् ॥ 1 ॥ भीमाद्यानीतस्य भैक्षस्य कुन्त्याज्ञया द्रौपद्या परिवेषणम् ॥ 2 ॥ सर्वं पाण्डववृत्तान्तं ज्ञात्वा धृष्टद्युम्नस्य प्रतिनिवर्तनम् ॥ 3 ॥

वैशम्पायन उवाच । 001

धृष्टद्युमनस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ । 001a
अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशने ॥ 001c
सोज्ञायमानः पुरुषानवधाय समन्ततः । 002a
स्वयमारान्निलीनोऽभूद्भार्गवस्य निवेशने ॥ 002c
सायं च भीमस्तु रिपुप्रमाथीजिष्णुर्यमौ चापि महानुभावौ । 003a
भैक्षं चरित्वा तु युधिष्ठिरायनिवेदयाञ्चक्रुरदीनसत्वाः ॥ 003c
ततस्तु कुन्ती द्रुपदात्मजां तामुवाच काले वचनं वदान्या । 004a
ततोऽग्रमादाय कुरुष्व भद्रे बलिं च विप्राय च देहि भिक्षाम् ॥ 004c
ये चान्नमिच्छन्ति ददस्व तेभ्यःपरिश्रिता ये परितो मनुष्याः । 005a
ततश्च शेषं प्रविभज्य शीघ्रमर्धं चतुर्णां मम चात्मनश्च ॥ 005c
अर्धं तु भीमाय च देहि भद्रे य एष नागर्षभतुल्यरूपः । 006a
गौरो युवा संहननोपपन्न एषो हि वीरो बहुभुक् सदैव ॥ 006c
सा हृष्टरूपैव तु राजपुत्रीतस्या वचः साध्वविशङ्कमाना । 007a
यथावदुक्तं प्रचकार साध्वी ते चापि सर्वे बुभुजुस्तदन्नम् ॥ 007c
कुशैस्तु भूमौ शयनं चकारमाद्रीपुत्रः सहदेवस्तपस्वी । 008a
अथात्मकीयान्यजिनानि सर्वेसंस्तीर्य वीराः सुषुपुर्धरण्याम् ॥ 008c
अगस्त्यकान्तामभितो दिशं तु शिरांसि तेषां कुरुसत्तमानाम् । 009a
कुन्ती पुरस्तात्तु बभूव तेषां पादान्तरे चाथ बभूव कृष्णा ॥ 009c
अशेत भूमौ सह पाण्डुपुत्रैःपादोपधानीव कृता कुशेषु । 010a
न तत्र दुःखं मनसापि तस्या न चावमेने कुरुपुङ्गवांस्तान् ॥ 010c
ते तत्र शूराः कथयाम्बभूवुः कथा विचित्राः पृतनाधिकाराः । 011a
अस्त्राणि दिव्यानि रथांश्च नागान्खड्गान्गदाश्चापि परश्वधांश्च ॥ 011c
तेषां कथास्ताः परिकीर्त्यमानाःपाञ्चालराजस्य सुतस्तदानीम् । 012a
सुश्राव कृष्णां च तदा निषण्णां ते चापि सर्वे ददृशुर्मनुष्याः ॥ 012c
धृष्टद्युम्नो राजपुत्रस्तु सर्वं वृत्तं तेषां कथितं चैव रात्रौ । 013a
सर्वं राज्ञे द्रुपदायाखिलेननिवेदयिष्यंस्त्वरितो जगाम ॥ 013c
पाञ्चालराजस्तु विषण्णरूपस्तान्पाण्डवानप्रतिविन्दमानः । 014a
धृष्टद्युम्नं पर्यपृच्छन्महात्मा क्व सा गता केन नीता च कृष्णा ॥ 014c
कच्चिन्न शूद्रेण न हीनजेन वैश्येन वा करदेनोपपन्ना । 015a
कच्चित्पदं मूर्ध्नि न पङ्कदिग्धं कच्चिन्न माला पतिता श्मशाने ॥ 015c
कच्चित्स वर्णप्रवरो मनुष्य उद्रिक्तवर्णोऽप्युत एव कच्चित् । 016a
कच्चिन्न वामो मम मूर्ध्नि पादःकृष्णाभिमर्शेन कृतोऽद्य पुत्र ॥ 016c
कच्चिन्न तप्स्ये परमप्रतीतः संयुज्य पार्थेन नरर्षभेण । 017a
वदस्व तत्त्वेन महानुभावकोऽसौ विजेता दुहितुर्ममाद्य ॥ 017c
विचित्रवीर्यस्य सुतस्य कच्चित्कुरुप्रवीरस्य ध्रियन्ति पुत्राः । 018a
कच्चित्तु पार्थेन यवीयसाऽध्यधनुर्गृहीतं निहतं च लक्ष्यम् ॥ ॥ 018c

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि सप्ताधिकद्विशततमोऽध्यायः ॥ 207 ॥ ॥ समाप्तं स्वयंवरपर्व ॥

1-207-4 अग्रं प्रथममादाय बलिं कुरुष्व भिक्षां च देहि ॥ 1-207-18 ध्रियन्ति जीवन्ति ॥ सप्ताधिकद्विशततमोऽध्यायः ॥ 207 ॥