अध्यायः 206
भीमार्जुनाश्यां द्रौपद्याः भिक्षेत्यावेदने कुन्त्या पञ्चानां सह भोजनानुज्ञा ॥ 1 ॥ पश्चात् द्रौपदीदर्शनेन चिन्तान्वितायां कुन्त्यां युधिष्ठिरार्जुनयोः संवादः ॥ 2 ॥ द्वैपायनवचःस्मरणेन सर्वेषां द्रौपदी भार्येति युधिष्ठिरनिश्चयः ॥ 3 ॥ जनमेजयेन कृष्णस्य कार्मुकानारोपणे कारणप्रश्ने पाण्डवार्थमिति वैशम्पायनस्योत्तरम् ॥ 4 ॥ कुलालशालाम्प्रति श्रीकृष्णस्यागमनम् ॥ 5 ॥
वैशम्पायन उवाच । 001
गत्वा तु तां भार्गवकर्मशालाम्पार्थौ पृथां प्राप्य महानुभावौ । 001a
तां याज्ञसेनीं परमप्रतीतौभिक्षेत्यथावेदयतां नराग्र्यौ ॥ 001c
कुटीगता सा त्वनवेक्ष्य पुत्रौ प्रोवाच भुङ्क्तेति समेत्य सर्वे । 002a
पश्चाच्च कुन्ती प्रसमीक्ष्य कृष्णां कष्टं मया भाषितमित्युवाच ॥ 002c
साऽधर्मभीता परिचिन्तयन्ती तां याज्ञसेनीं परमप्रतीताम् । 003a
पाणौ गृहीत्वोपजगाम कुन्ती युधिष्ठिरं वाक्यमुवाच चेदम् ॥ 003c
कुन्त्युवाच । 004
इयं तु कन्या द्रुपदस्य राज्ञस्तवानुजाभ्यां मयि सन्निसृष्टा । 004a
यथोचितं पुत्र मयाऽपि चोक्तंसमेत्य भुङ्क्तेति नृप प्रमादात् ॥ 004c
मया कथं नानृतमुक्तमद्य भवेत्कुरूणामृषभ ब्रवीहि । 005a
पञ्चालराजस्य सुतामधर्मो न चोपवर्तेत न विभ्रमेच्च ॥ 005c
वैशम्पायन उवाच । 006
स एवमुक्तो मतिमान्नृवीरोमात्रा मुहूर्तं तु विचिन्त्य राजा । 006a
कुन्तीं समाश्वास्य कुरुप्रवीरोधनञ्जयं वाक्यमिदं बभाषे ॥ 006c
त्वया जिता फाल्गुन याज्ञसेनीत्वयैव शोभिष्यति राजपुत्री । 007a
प्रज्वाल्यतामग्निरमित्रसाहगृहाण पाणिं विधिवत्त्वमस्याः ॥ 007c
अर्जुन उवाच । 008
मा मां नरेन्द्र त्वमधर्मभाजं कृथा न धर्मोऽयमशिष्टदृष्टः । 008a
भवान्निवेश्यः प्रथमं ततोऽयं भीमो महाबाहुरचिन्त्यकर्मा ॥ 008c
अहं ततो नकुलोऽनन्तरं मे पश्चादयं सहदेवस्तरस्वी । 009a
वृकोदरोऽहं च यमौ च राजन्नियं च कन्या भवतो नियोज्याः ॥ 009c
एवं गते यत्करणीयमत्र धर्म्यं यशस्यं कुरु तद्विचिन्त्य । 010a
पाञ्चालराजस्य हितं च यत्स्यात्प्रशाधि सर्वे स्म वशे स्थितास्ते ॥ 010c
वैशम्पायन उवाच । 011
जिष्णोर्वचनमाज्ञाय भक्तिस्नेहसमन्वितम् । 011a
दृष्टिं निवेशयामासुः पाञ्चाल्यां पाण्डुनन्दनाः ॥ 011c
दृष्ट्वा ते तत्र पश्यन्तीं सर्वे कृष्णां यशस्विनीम् । 012a
सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् ॥ 012c
तेषां तु द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् । 013a
सम्प्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः ॥ 013c
काम्यं हि रूपं पाञ्चाल्या विधात्रा विहितं स्वयम् । 014a
बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम् ॥ 014c
तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः । 015a
द्वैपायनवचः कृत्स्नं सस्मार मनुजर्षभः ॥ 015c
अब्रवीत्सहितान्भ्रातॄन्मिथो भेदभयान्नृपः । 016a
सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा ॥ 016c
'जनमेजय उवाच । 017
सताऽपि शक्तेन च केशवेन सज्यं धनुस्तन्न कृतं किमर्थम् । 017a
विद्धं च लक्ष्यं न च कस्य हेतोराचक्ष्व तन्मे द्विपदां वरिष्ठ ॥ 017c
वैशम्पायन उवाच । 018
शक्तेन कृष्णेन च कार्मुकं तन्नारोपितं ज्ञातुकामेन पार्थान् । 018a
परिश्रवादेव बभूव लोके जीवन्ति पार्था इति निश्चयोऽस्य ॥ 018c
अन्यानशक्तान्नृपतीन्समीक्ष्यस्वयंवरे कार्मुकेणोत्तमेन । 019a
धनञ्जयस्तद्धनुरेकवीरःसज्यं करोतीत्यभिवीक्ष्य कृष्णः ॥ 019c
इति स्वयं वासुदेवो विचिन्त्यपार्थान्विवित्सन्विविधैरुपायैः । 020a
न तद्धनुः सज्यमियेष कर्तुम्बभूवुरस्येष्टतमा हि पार्थाः ॥' 020c
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वेज्येष्ठस्य पाण्डोस्तनयास्तदानीम् । 021a
तमेवार्थं ध्यायमाना मनोभिःसर्वे च ते तस्थुरदीनसत्वाः ॥ 021c
वृष्णिप्रवीरस्तु कुरुप्रवीरानाशंसमानः सहरौहिणेयः । 022a
जगाम तां भार्गवकर्मशालांयत्रासते ते पुरुषप्रवीराः ॥ 022c
तत्रोपविष्टं पृथुदीर्घबाहुम्ददर्श कृष्णः सहरौहिणेयः । 023a
अजातशत्रुं परिवार्य तांश्चाप्युपोपविष्टाञ्ज्वलनप्रकाशान् ॥ 023c
ततोऽब्रवीद्वासुदेवोऽभिगम्यकुन्तीसुतं धर्मभृतां वरिष्ठम् । 024a
कृष्णोऽहमस्मीति निपीड्य पादौयुधिष्ठिरस्याजमीढस्य राज्ञः ॥ 024c
तथैव तस्याप्यनु रौहिणेयस्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन । 025a
पितृष्वसुश्चापि यदुप्रवीरावगृह्णतां भारतमुख्य पादौ ॥ 025c
अजातशत्रुश्च कुरुप्रवीरःपप्रच्छ कृष्णं कुशलं विलोक्य । 026a
कथं वयं वासुदेव त्वयेहगूढा वसन्तो विदिताश्च सर्वे ॥ 026c
तमब्रवीद्वासुदेवः प्रहस्यगूढोऽप्यग्निर्ज्ञायत एव राजन् । 027a
तं विक्रमं पाण्डवेयानतीत्यकोऽन्यः कर्ता विद्यते मानुषेषु ॥ 027c
दिष्ट्या सर्वे पावकाद्विप्रमुक्तायूयं घोरात्पाण्डवाः शत्रुसाहाः । 028a
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रःसहामात्यो न सकामोऽभविष्यत् ॥ 028c
भद्रं वोऽस्तु निहितं यद्गुहायांविवर्धध्वं ज्वलना इवैधमानाः । 029a
मा वो विद्युः पार्थिवाः केचिदेवयास्यावहे शिबिरायैव तावत् । 029c
सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः प्रायाच्छीघ्रं बलदेवेन सार्धम् ॥ ॥ 029e
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि षडधिकद्विशततमोऽध्यायः ॥ 206 ॥
1-206-12 दृष्ट्वा ते तत्र तिष्ठन्ती इति ङ. पाठः ॥ 1-206-29 यद्भद्रं गुहायां बुद्धौ वो निहितं तद्वोस्तु ॥ षडधिकद्विशततमोऽध्यायः ॥ 206 ॥