अध्यायः 205

अर्जुनेन कर्णपराजयः ॥ 1 ॥ भीमेन कर्णपराजयः ॥ 2 ॥ युधिष्ठिरादिभिर्दुर्योधनादिपराजयः ॥ 3 ॥ पुनर्युद्धाय कृतनिश्चयानां राज्ञां श्रीकृष्णवाक्येन युद्धोद्योगाद्विरम्य स्वस्वालयगमनम् ॥ 4 ॥ द्रौपद्या सह भीमार्जुनयोः कुलालगृहप्रवेशः ॥ 5 ॥

वैशम्पायन उवाच । 001

अजिनानि विधुन्वन्तः करकाश्च द्विजर्षभाः । 001a
ऊचुस्ते भीर्न कर्तव्या वयं योत्स्यामहे परान् ॥ 001c
तानेवं वदतो विप्रानर्जुनः प्रहसन्निव । 002a
उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ॥ 002c
अहमेनानजिह्माग्रैः शतशो विकिरञ्छरैः । 003a
वारयिष्यामि सङ्क्रुद्धान्मन्त्रैराशीविषानिव ॥ 003c
इति तद्धनुरानम्य शुल्कावाप्तं महाबलः । 004a
भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ॥ 004c
ततः कर्णमुखान्दृष्ट्वा क्षत्रियान्युद्धदुर्मदान् । 005a
सम्पेततुरभीतौ तौ गजौ प्रतिगजानिव ॥ 005c
ऊचुश्च वाचः परुषास्ते राजानो युयुत्सवः । 006a
आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः ॥ 006c
इत्येवमुक्त्वा राजानः सहसा दुद्रुवुर्द्विजान् । 007a
ततः कर्णो महातेजा जिष्णुं प्रति ययौ रणे ॥ 007c
युद्धार्थी वासिताहेतोर्गजः प्रतिगजं यथा । 008a
भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली ॥ 008c
दुर्योधनादयः सर्वे ब्राह्मणैः सह सङ्गताः । 009a
मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाऽऽहवे ॥ 009c
ततोऽर्जुनः प्रत्यविध्यदापतन्तं शितैः शरैः । 010a
कर्णं वैकर्तनं श्रीमान्विकृष्य बलवद्धनुः ॥ 010c
तेषां शराणां वेगेन शितानां तिग्मतेजसाम् । 011a
विमुह्यमानो राधेयो यत्नात्तमनुधावति ॥ 011c
तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ । 012a
अयुध्येतां सुसंरब्धावन्योन्यविजिगीषिणौ ॥ 012c
कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे । 013a
इति शूरार्थवचनैरभाषेतां परस्परम् ॥ 013c
ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि । 014a
ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् ॥ 014c
अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा । 015a
प्रतिहत्य ननादोच्चैः सैन्यानि तदपूजयन् ॥ 015c
कर्ण उवाच । 016
तुष्यामि ते विप्रमुख्य भुजवीयर्स्य संयुगे । 016a
अविषादस्य चैवास्य शस्त्रास्त्रविजयस्य च ॥ 016c
किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम । 017a
अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः ॥ 017c
आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः । 018a
विप्ररूपं विधायेदं मन्ये मां प्रतियुध्यसे ॥ 018c
न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः । 019a
पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः ॥ 019c
'दग्धा जतुगृहे सर्वे पाण्डवाः सार्जुनास्तदा । 020a
विनार्जुनं वा समरे मां निहन्तुमशक्नुवन् ॥' 020c
तमेवंवादिनं तत्र फाल्गुनः प्रत्यभाषत । 021a
नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् ॥ 021c
ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः । 022a
ब्राह्मे पौरन्दरे चास्त्रे निष्ठितोगुरुशासनात् ॥ 022c
स्थितोऽस्म्यद्य रणे जेतुं त्वां वै वीर स्थिरो भव । 023a
'निर्जितोऽस्मीति वा ब्रूहि ततो व्रज यथासुखम् ॥ 023c
वैशम्पायन उवाच । 024
एवमुक्त्वाऽथ कर्णस्य धनुश्चिच्छेद पाण्डवः । 024a
ततोऽन्यद्धनुरादाय संयोद्धुं सन्दधे शरम् ॥ 024c
दृष्ट्वा तच्चापि कौन्तेयश्छित्वा तद्धनुराशुगैः । 025a
तथा वैकर्तनं कर्णं बिभेद समरेऽर्जुनः ॥ 025c
ततः कर्णस्तु राधेयः छिन्नछन्वा महाबलः । 026a
शरैरतीव विद्धाङ्गः पलायनमथाकरोत् ॥ 026c
पुनरायान्मुहूर्तेन गृहीत्वा सशरं धनुः । 027a
ववर्ष शरवर्षाणि पार्थं वैकर्तनस्तथा ॥ 027c
तानि वै शरजालानि कौन्तेयोऽभ्यहनच्छरैः । 028a
ज्ञात्वा सर्वाञ्शरान्घोरान्कर्णोऽधावद्द्रुतं बहिः ॥' 028c
ब्राह्मं तेजस्तदाऽजय्यं मन्यमानो महारथः । 029a
अपरस्मिन्वनोद्देशे वीरौ शल्यवृकोदरौ ॥ 029c
बलिनौ युद्धसम्पन्नौ विद्यया च बलेन च । 030a
अन्योन्यमाह्वयन्तौ तु मत्ताविव महागजौ ॥ 030c
मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् । 031a
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः ॥ 031c
आचकर्षतुरन्योन्यं मुष्टिभिश्चापि जघ्नतुः । 032a
ततश्चटचटाशब्दः सुघोरो ह्यभवत्तयोः ॥ 032c
पाषाणसम्पातनिभैः प्रहारैरभिजघ्नतुः । 033a
मुहूर्तं तौ तदाऽन्योन्यं समरे पर्यकर्षताम् ॥ 033c
ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे । 034a
अपातयत्कुरुश्रेष्ठो ब्राह्मणा जहसुस्तदा ॥ 034c
तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः । 035a
यच्छल्यं पातितं भूमौ नावधीद्बलिनं बली ॥ 035c
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते । 036a
'विस्मयः परमो जज्ञे सर्वेषां पश्यतां नृणाम् ॥ 036c
ततो राजसमूहस्य पश्यतो वृक्षमारुजत् । 037a
ततस्तु भीमं सञ्ज्ञाभिर्वारयामास धर्मराट् ॥ 037c
आकारज्ञस्तथा भ्रातुः पाण्डवोऽपि न्यवर्तत । 038a
धर्मराजश्च कौरव्य दुर्योधनममर्षणम् ॥ 038c
अयोधयत्सभामध्ये पश्यतां वै महीक्षिताम् । 039a
ततो दुर्योधनस्तं तु ह्यवज्ञाय युधिष्ठिरम् ॥ 039c
नायोधयत्तदा तेन बलवान्वै सुयोधनः । 040a
एतस्मिन्नन्तरेऽविध्यद्बाणेनानतपर्वणा ॥ 040c
दुर्योधनममित्रघ्नं धर्मराजो युधिष्ठिरः । 041a
ततो दुर्योधनः क्रुद्धो दण्डाहत इवोरगः ॥ 041c
प्रत्ययुध्यत राजानं यत्नं परममास्थितः । 042a
छित्त्वा राजा धनुः सज्यं धार्तराष्ट्रस्य संयुगे ॥ 042c
अभ्यवर्षच्छरौघैस्तं स हित्वा प्राद्रवद्रणम् । 043a
दुःशासनस्तु सङ्क्रुद्धः सहदेवेन पार्थिव ॥ 043c
युद्ध्वा च सुचिरं कालं सहदेवेन निर्जितः । 044a
उत्सृज्य च धनुः सङ्ख्ये जानुभ्यामवनीं गतः । 044c
उत्थाय सोऽभिदुद्राव सोसिं जग्राह चर्म च ॥ 044e
विकर्णचित्रसेनाभ्यां निगृहीतश्च कौरवः । 045a
मा युद्धमिति कौरव्य ब्राह्मणेनाबलेन वै ॥ 045c
दुःसहो नकुलश्चोभौ युद्धं कर्तुं समुद्यतै । 046a
तौ दृष्ट्वा कौरवा युद्धं वाक्यमूचुर्महाबलौ ॥ 046c
निवर्तन्तां भवन्तो वै कुतो विप्रेषु क्रूरता । 047a
दुर्बला ब्राह्मणाश्चेमे भवन्तो वै महाबलाः ॥ 047c
द्वावत्र ब्राह्मणौ क्रूरौ वाय्विन्द्रसदृशौ बले । 048a
ये वा के वा नमस्तेभ्यो गच्छामः स्वपुरं वयम् ॥ 048c
एवं सम्भाषमाणास्ते न्यवर्तन्ताथ कौरवाः । 049a
जहृषुर्ब्राह्मणास्तत्र समेतास्तत्र सङ्घशः ॥ 049c
बहुशस्ते ततस्तत्र क्षत्रिया रणमूर्धनि । 050a
प्रेक्षमाणास्तथाऽतिष्ठन्ब्राह्मणांश्च समन्ततः ॥ 050c
ब्राह्मणाश्च जयं प्राप्ताः कन्यामादाय निर्ययुः । 051a
विजिते भीमसेनेन शल्ये कर्णे च निर्जिते ॥ 051c
दुर्योधने चापयाते तथा दुःशासने रणात् । 052a
'शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् ॥ 052c
ऊचुश्च सहितास्तत्र साध्विमौ ब्राह्मणर्षभौ । 053a
विज्ञायेतां क्वजन्मानौ क्वनिवासौ तथैव च ॥ 053c
को हि राधासुतं कर्णं शक्तो योधयितुं रणे । 054a
अन्यत्र रामाद्द्रोणाद्वा पाण्डवाद्वा किरीटिनः ॥ 054c
कृष्णाद्वा देवकीपुत्रात्कृपाद्वापि शरद्वतः । 055a
को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे ॥ 055c
तथैव मद्राधिपतिं शल्यं बलवतांवरम् । 056a
बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् ॥ 056c
वीराद्दुर्योधनाद्वाऽन्यः शक्तः पातयितुं रणे । 057a
क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंवृतात् ॥ 057c
ब्राह्मणा हि सदा रक्ष्याः सापराधाऽपिनित्यदा । 058a
अथैनानुपलभ्येह पुनर्योत्स्याम हृष्टवत् ॥ 058c
वैशम्पायन उवाच । 059
तांस्तथावादिनः सर्वान्प्रसमीक्ष्य क्षितीश्वरान् । 059a
अथान्यान्पुरुषांश्चापि कृत्वा तत्कर्म संयुगे ॥ 059c
तत्कर्म भीमस्य समीक्ष्य कृष्णःकुन्तीसुतौ तौ परिशङ्कमानः । 060a
निवारयामास महीपतींस्तान्धर्मेण लब्धेत्यनुनीय सर्वान् ॥ 060c
एवं ते विनिवृत्तास्तु युद्धाद्युद्धविशारदाः । 061a
यथावासं ययुः सर्वे विस्मिता राजसत्तमाः ॥ 061c
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता । 062a
इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः ॥ 062c
ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः । 063a
कृच्छ्रेण जग्मतुस्तौ तु भीमसेनधनञ्जयौ ॥ 063c
विमुक्तौ जनसम्बाधाच्छत्रुभिः परिविक्षतौ । 064a
कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः ॥ 064c
पौर्णमास्यां घनैर्मुक्तौ चन्द्रसूर्याविवोदितौ । 065a
तेषां माता बहुविधं विनाशं पर्यचिन्तयत् ॥ 065c
अनागच्छत्सु पुत्रेषु भैक्षकाले च लिङ्घिते । 066a
धार्तराष्ट्रैर्हताश्च स्युर्विज्ञाय कुरुपुङ्गवाः ॥ 066c
मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः । 067a
विपरीतं मतं जातं व्यासस्यापि महात्मनः ॥ 067c
इत्येवं चिन्तयामासं सुतस्नेहावृता पृथा । 068a
ततः सुप्तजनप्राये दुर्दिने मेघसम्प्लुते ॥ 068c
महत्यथापराह्णे तु घनैः सूर्य इवावृतः । 069a
ब्राह्मणैः प्राविशत्तत्र जिष्णुर्भार्गववेश्म तत् ॥ ॥ 069c

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि पञ्चाधिकद्विशततमोऽध्यायः ॥ 205 ॥

1-205-12 विजिगीषिणौ विजिगीषावन्तौ ॥ 1-205-29 वनोद्देशे रङ्गदृशां निवासस्थाने ॥ 1-205-34 समुत्क्षिप्य कूष्माण्डफलवदपातयत् ॥ 1-205-57 अवहारो युद्धान्निवर्तनं ॥ 1-205-59 संयुगे तत्कर्म कृत्वा तूष्णीम्भूताविति शेषः ॥ 1-205-62 ब्रह्म ब्राह्मणजातिः उत्तरं उत्कृष्टं यस्मिन्स ब्रह्मोत्तरः ॥ 1-205-69 भार्गववेश्म कुलालगृहं ॥ पाञ्चाधिकद्विशततमोऽध्यायः ॥ 205 ॥