अध्यायः 204
क्रोधाद्राजसु द्रुपदहननार्थमागतेषु राजसम्मुखे भीमार्जुनयोः सज्जीभूय स्थितयोः सतोः कृष्णबलरामयोः संवादः ॥ 1 ॥
वैशम्पायन उवाच । 0011
तस्मै दित्सति कन्यां तु ब्राह्मणाय तदा नृपे । 001a
कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् ॥ 001c
'ऊचुः सर्वे समागम्य परस्परहितैषिणः । 002a
वयं सर्वे समाहूता द्रुपदेन दुरात्मना । 002c
संहत्य चाभ्यगच्छाम स्वयंवरदिदृक्षया ॥' 002e
अस्मानयमतिक्रम्य तृणीकृत्य च सङ्गतान् । 003a
दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् ॥ 003c
अवरोप्येह वृक्षस्तु फलकाले निपात्यते । 004a
निहन्मैनं दुरात्मानं योयमस्मान्न मन्यते ॥ 004c
न ह्यर्हत्येष सम्मानं नापि वृद्धक्रमं गुणैः । 005a
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् ॥ 005c
अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् । 006a
गुणवद्भोजयित्वान्नं ततः पश्चान्न मन्यते ॥ 006c
अस्मिन्राजसमावाये देवानामिव सन्नये । 007a
किमयं सदृशं कञ्चिन्नृपतिं नैव दृष्टवान् ॥ 007c
न च विप्रेष्वधीकारो विद्यते वरणं प्रति । 008a
स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः ॥ 008c
अथवा यदि कन्येयं न च कञ्चिद्बुभूषति । 009a
अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः ॥ 009c
ब्राह्मणो यदि चापल्याल्लोभाद्वा कृतवानिदम् । 010a
विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथञ्चन ॥ 010c
ब्राह्मणार्थं हि नो राज्यं जीवितं हि वसूनि च । 011a
पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् ॥ 011c
अवमानभयाच्चैव स्वधर्मस्य च रक्षणात् । 012a
स्वयंवराणामन्येषां मा भूदेवंविधा गतिः ॥ 012c
इत्युक्त्वा राजशार्दूला रुष्टाः परिघबाहवः । 013a
द्रुपदं तु जिघांसन्तः सायुधाः समुपाद्रवन् ॥ 013c
तान्गृहीतशरावापान्क्रुद्धानापततो बहून् । 014a
द्रुपदो वीक्ष्य सन्त्रासाद्ब्राह्मणाञ्छरणं गतः ॥ 014c
'न भयान्नापि कार्पण्यान्न प्राणपरिरक्षणात् । 015a
जगाम द्रुपदो विप्राञ्शमार्थी प्रत्यपद्यत ॥' 015c
वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् । 016a
पाण्डुपुत्रौ महेष्वासौ प्रतियातावरिन्दमौ ॥ 016c
ततः समुत्पेतुरुदायुधास्ते महीक्षितो बद्धगोधाङ्गुलित्राः । 017a
जिघांसमानाः कुरुराजपुत्रावमर्षयन्तोऽर्जुनभीमसेनौ ॥ 017c
ततस्तु भीमोऽद्भुतभीमकर्मा महाबलो वज्रसमानसारः । 018a
उत्पाट्य दोर्भ्यां द्रुममेकवीरो निष्पत्रयामास यथा गजेन्द्रः ॥ 018c
तं वृक्षमादाय रिपुप्रमाथीदण्डीव दण्डं पितृराज उग्रम् । 019a
तस्थौ समीपे पुरुषर्षभस्यपार्थस्य पार्थः पृथुदीर्घबाहुः ॥ 019c
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धिर्जिष्णुः स हि भ्रातुरचिन्त्यकर्मा । 020a
विसिष्मिये चापि भयं विहायतस्थौ धनुर्गृह्य महेन्द्रकर्मा ॥ 020c
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धिर्जिष्णोः सहभ्रातुरचिन्त्यकर्मा । 021a
दामोदरो भ्रातरमुग्रवीर्यं हलायुधं वाक्यमिदं बभाषे ॥ 021c
य एष सिंहर्षभखेलगामी महद्धनुः कर्षति तालमात्रम् । 022a
एषोऽर्जुनो नात्र विचार्यमस्तियद्यस्मि सङ्कर्षण वासुदेवः ॥ 022c
यस्त्वेष वृक्षं तरसाऽवभज्यराज्ञां निकारे सहसा प्रवृत्तः । 023a
वृकोदरान्नान्य इहैतदद्य कर्तुं समर्थः समरे पृथिव्याम् ॥ 023c
योऽसौ पुरस्तात्कमलायताक्षो महातनुः सिंहगतिर्विनीतः । 024a
गौरः प्रलम्बोज्ज्वलचारुघोणो विनिःसृतः सोऽप्युत धर्मपुत्रः ॥ 024c
यौ तौ कुमाराविव कार्तिकेयौ द्वावाश्विनेयाविति मे वितर्कः । 025a
मुक्ता हि तस्माज्जतुवेश्मदाहान्मया श्रुताः पाण्डुसुताः पृथा च ॥ 025c
वैशम्पायन उवाच । 025
तमब्रवीन्निर्जलतोयदाभोहलायुधोऽनन्तरजं प्रतीतः । 026a
प्रीतोऽस्मि दृष्ट्वा हि पितृष्वसारं पृथां विमुक्तां सह कौरवाग्र्यैः ॥ ॥ 026c
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि चतुरधिकद्विशततमोऽध्यायः ॥ 204 ॥