अध्यायः 203
धनुरारोपणार्थमुत्थितमर्जुनं प्रति ब्राह्मणानां शुभाशंसनम् ॥ 1 ॥ अर्जुनेन धनुरारोपणपूर्वकं लक्ष्यवेधः ॥ 2 ॥ द्रौपद्या अर्जुनकण्ठे मालाप्रक्षेपः ॥ 3 ॥
वैशम्पायन उवाच 001
यदा निवृत्ता राजानो धनुषः सज्यकर्मणः । 001a
अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः ॥ 001c
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च । 002a
दृष्ट्वा सम्प्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ॥ 002c
केचिदासन्विमनसः केचिदासन्मुदान्विताः । 003a
आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः ॥ 003c
यत्कर्णशल्यप्रमुखैः क्षत्रियैर्लोकविश्रुतैः । 004a
नानतं बलवद्भिर्हि धनुर्वेदपरायणैः ॥ 004c
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा । 005a
वटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ॥ 005c
अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु । 006a
कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ॥ 006c
यद्येष दर्पाद्धर्षाद्वाप्यथ ब्राह्मणचापलात् । 007a
प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् ॥ 007c
नावहास्या भविष्यामो न च लाघवमास्थिताः । 008a
न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् ॥ 008c
केचिदाहुर्युवा श्रीमान्नागराजकरोपमः । 009a
पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव ॥ 009c
सिंहखेलगतिः श्रीमान्मत्तनागेन्द्रविक्रमः । 010a
सम्भाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते ॥ 010c
शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् । 011a
न च तद्विद्यते किञ्चित्कर्म लोकेषु यद्भवेत् ॥ 011c
ब्राह्मणानामसाध्यं च नृषु संस्थानचारिषु । 012a
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः ॥ 012c
दुर्बला अपि विप्रा हि बलीयांसः स्वेतजसा । 013a
ब्राह्मणो नावमन्तव्यः सदसद्वा समाचरन् ॥ 013c
सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् । 014a
जामदग्न्येन रामेण निर्जिताः क्षत्रिया युधि ॥ 014c
पीतः समुद्रोऽगस्त्येन अगाधो ब्रह्मतेजसा । 015a
तस्माद्ब्रुवन्तु सर्वेऽत्र वटुरेष धनुर्महान् ॥ 015c
आरोपयतु शीघ्रं वै तथेत्यूचुर्द्विजर्षभाः । 016a
वैशम्पायन उवाच । 016
एवं तेषां विलपतां विप्राणां विविधा गिरः ॥ 016c
अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः । 017a
'अर्जुनः पाण्डवश्रेष्ठो धृष्टद्युम्नमथाब्रवीत् ॥ 017c
एतद्धनुर्ब्राह्मणानां सज्यं कर्तुमलं तु किम् । 018a
वैशम्पायन उवाच । 018
तस्य तद्वचनं श्रुत्वा धृष्टद्युम्नोऽब्रवीद्वचः ॥ 018c
ब्राह्मणो वाथ राजन्यो वैश्यो वा शूद्र एव वा । 019a
एतेषां यो धनुःश्रेष्ठं सज्यं कुर्याद्द्विजोत्तम ॥ 019c
तस्मै प्रदेया भगिनी सत्यमुक्तं मया वचः ॥ 020ac
वैशम्पायन उवाच । 020
ततः पश्चान्महातेजाः पाण्डवो रणदुर्जयः । 021a
'स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् ॥ 021c
प्रणम्य शिरसा देवमीशानं वरदं प्रभुम् । 022a
कृष्णं च मनसा कृत्वा जगृहे चार्जुनो धनुः ॥ 022c
यत्पार्थिवै रुक्मसुनीथवक्रैराधेयदुर्योधनशल्यसाल्वैः । 023a
तदा धनुर्वेदपरैर्नृसिंहैः कृतं न सज्यं महतोऽपि यत्नात् ॥ 023c
तदर्जुनो वीर्यवतां सदर्पस्तदैन्द्रिरिन्द्रावरजप्रभावः । 024a
सज्यं च चक्रे निमिषान्तरेण शरांश्च जग्राह दशार्धसङ्ख्यान् ॥ 024c
विव्याध लक्ष्यं निपपात तच्च छिद्रेण भूमौ सहसातिविद्धम् । 025a
ततोऽन्तरिक्षे च बभूव नादः समाजमध्ये च महान्निनादः ॥ 025c
पुष्पाणि दिव्यानि ववर्ष देवः पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ॥ 026a
चेलानि विव्यधुस्तत्र ब्राह्मणाश्च सहस्रशः । 026c
विलक्षितास्ततश्चक्रुर्हाहाकारांश्च सर्वशः । 027a
न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः ॥ 027c
शताङ्गानि च तूर्याणि वादकाः समवादयन् । 028a
सूतमागधसङ्घाश्चाप्यस्तुवंस्तत्र सुस्वराः ॥ 028c
तं दृष्ट्वा द्रुपदः प्रीतो बभूव रिपुसूदनः । 029a
सह सैन्यैश्च पार्थस्य साहाय्यार्थमियेष सः ॥ 029c
तस्मिंस्तु शब्दे महति प्रवृद्धे युधिष्ठिरो धर्मभृतां वरिष्ठः । 030a
आवासमेवोपजगाम शीघ्रं सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ॥ 030c
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा पार्थं च शक्रप्रतिमं निरीक्ष्य । 031a
'स्वभ्यस्तरूपापि नवेव नित्यं विनापि हासं हसतीव कन्या ॥ 031c
मदादृतेऽपि स्खलतीव भावैर्वाचा विना व्याहरतीव दृष्ट्या । 032a
आदाय शुक्लं वरमाल्यदाम जगाम कुन्तीसुतमुत्स्मयन्ती ॥ 032c
गत्वा च पश्चात्प्रसमीक्ष्य कृष्णा पार्थस्य वक्षस्यविशङ्कमाना । 033a
क्षिप्त्वा स्रजं पार्थिववीरमध्ये वराय वव्रे द्विजसङ्घमध्ये ॥ 033c
शचीव देवेन्द्रमथाग्निदेवं स्वाहेव लक्ष्मीश्च यथा मुकुन्दम् । 034a
उषेव सूर्यं मदनं रतीव महेश्वरं पर्वतराजपुत्री ॥' 034c
स तामुपादाय विजित्य रङ्गे द्विजातिभिस्तैरभिपूज्यमानः । 035a
रङ्गान्निरक्रामदचिन्त्यकर्मा पत्न्या तया चाप्यनुगम्यमानः ॥ ॥ 035c
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि त्र्यधिकद्विशततमोऽध्यायः ॥ 203 ॥
1-203-29 साहाय्यार्थं द्रौपद्यलाभात् क्षुब्धैर्नृपान्तरैर्युद्धप्रसक्तौ सत्याम् ॥ त्र्यधिकद्विशततमोऽध्यायः ॥ 203 ॥