अध्यायः 202

ब्राह्मणमध्यस्थान्पाण्डवान्विज्ञाय श्रीकृष्णेन बलरामाय कथनम् ॥ 1 ॥ धनुर्दर्शनेनैव केषाञ्चिद्राज्ञां धनुःपूरणे निराशता ॥ 2 ॥ शिशुपालादीनां धनुःपूरणे भङ्गः ॥ 3 ॥ अर्जुनस्य धनुःपूरणे एषणा ॥ 4 ॥ वैशम्पायन उवाच 001
तेऽलङ्कृताः कुण्डलिनो युवानः परस्परं स्पर्धमाना नरेन्द्राः । 001a
अस्त्रं बलं चात्मनि मन्यमानाः सर्वें समुत्पेतुरुदायुधास्ते ॥ 001c
रूपेण वीर्येण कुलेन चैव शीलेन वित्तेन च यौवनेन । 002a
समिद्धदर्पा मदवेगभिन्ना मत्ता यथा हैमवता गजेन्द्राः ॥ 002c
परस्परं स्पर्धया प्रेक्षमाणाः सङ्कल्पजेनाभिपरिप्लुताङ्गाः । 003a
कृष्णा ममैवेत्यभिभाषमाणा नृपाः समुत्पेतुरथासनेभ्यः ॥ 003c
ते क्षत्रिया रङ्गगताः समेता जिगीषमाणा द्रुपदात्मजां ताम् । 004a
चकाशिरे पर्वतराजकन्यामुमां यथा देवगणाः समेताः ॥ 004c
कन्दर्पबाणाभिनिपीडिताङ्गाः कृष्णागतैस्ते हृदयैर्नरेन्द्राः । 005a
रङ्गावतीर्णा द्रुपदात्मजार्थं द्वेषं प्रचक्रुः सुहृदोऽपि तत्र ॥ 005c
अथाययुर्देवगणाविमानै रुद्रादित्या वसवोऽथाश्विनौ च । 006a
साध्याश्च सर्वे मरुतस्तथैव यमं पुरस्कृत्य धनेश्वरं च ॥ 006c
दैत्याः सुपर्णाश्च महोरगाश्च देवर्षयो गुह्यकाश्चारणाश्च । 007a
विश्वावसुर्नारदपर्वतौ च गन्धर्वमुख्याः सहसाऽप्सरोभिः ॥ 007c
हलायुधस्तत्र जनार्दनश्च वृष्ण्यन्धकाश्चैव यथाप्रधानम् । 008a
प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते स्थिताश्च कृष्णस्य मते महान्तः ॥ 008c
दृष्ट्वा तु तान्मत्तगजेन्द्ररूपान्पञ्चाभिपद्मानिव वारणेन्द्रान् । 009a
भस्मावृताङ्गानिव हव्यवाहान्कृष्णः प्रदध्यौ यदुवीरमुख्यः ॥ 009c
शशंस रामाय युधिष्ठिरं स भीमं सजिष्णुं च यमौ च वीरौ । 010a
शनैःशनैस्तान्प्रसमीक्ष्य रामो जनार्दनं प्रीतमना ददर्श ह ॥ 010c
अन्ये तु वीरा नृपपुत्रपौत्राः कृष्णागतैर्नेत्रमनःस्वभावैः । 011a
व्यायच्छमाना ददृशुर्न तान्वै सन्दष्टदन्तच्छदताम्रनेत्राः ॥ 011c
तथैव पार्थाः पृथुबाहवस्ते वीरौ यमौ चैव महानुभावौ । 012a
तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे कन्दर्पबाणाभिहता बभूवुः ॥ 012c
देवर्षिगन्धर्वसमाकुलं तत्सुपर्णनागासुरसिद्धजुष्टम् । 013a
दिव्येन गन्धेन समाकुलं च दिव्यैश्च पुष्पैरवकीर्यमाणम् ॥ 013c
महास्वनैर्दुन्दुभिनादितैश्च बभूव तत्सङ्कुलमन्तरिक्षम् । 014a
विमानसम्बाधमभूत्समन्तात्सवेणुवीणापणवानुनादम् ॥ 014c
'समाजवाटोपरि संस्थितानां मेघैः समन्तादिव गर्जमानैः ।' 015a
ततस्तु ते राजगणाः क्रमेण कृष्णानिमित्तं कृतविक्रमाश्च । 015c
सकर्णदुर्योधनशाल्वशल्यद्रौणायनिक्राथसुनीथवक्राः ॥ 015e
कलिङ्गवङ्गाधिपपाण्ड्यपौण्ड्रा विदेहराजो यवनाधिपश्च । 016a
अन्ये च नानानृपपुत्रपौत्रा राष्ट्राधिपाः पङ्कजपत्रनेत्राः ॥ 016c
किरीटहाराङ्गदचक्रवालैर्विभूषिताङ्गाः पृथुबाहवस्ते । 017a
अनुक्रमं विक्रमसत्वयुक्ता बलेन वीर्येण च नर्दमानाः ॥ 017c
तत्कार्मुकं संहननोपपन्नं सज्यं न शेकुर्मनसाऽपि कर्तुम् । 018a
ते विक्रमन्तः स्फुरता दृढेन विक्षिप्यमाणा धनुषा नरेन्द्राः ॥ 018c
विचेष्टमाना धरणीतलस्था यथाबलं शैक्ष्यगुणक्रमाश्च । 019a
गतौजसः स्रस्तकिरीटहारा विनिःश्वसन्तः शमयाम्बभूवुः ॥ 019c
हाहाकृतं तद्धनुषा दृढेन विस्रस्तहाराङ्गदचक्रवालम् । 020a
कृष्णानिमित्तं विनिवृत्तकामं राज्ञां तदा मण्डलमार्तमासीत् ॥ 020c
'एवं तेषु निवृत्तेषु क्षत्रियेषु समन्ततः । 021a
चेदीनामधिपो वीरो बलवानन्तकोपमः ॥ 021c
दमघोषात्मजो धीमाञ्शिशुपालो महाद्युतिः । 022a
धनुषोऽभ्याशमागम्य तस्थौ राज्ञां समक्षतः ॥ 022c
तदप्यारोप्यमाणं तु माषमात्रेऽभ्यताडयत् । 023a
धनुषा पीड्यमानस्तु जानुभ्यामगमन्महीम् ॥ 023c
तत उत्थाय राजा स स्वराष्ट्राण्यभिजग्मिवान् । 024a
ततो राजा जरासन्धो महावीर्यो महाबलः ॥ 024c
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः । 025a
मत्तवारणताम्राक्षो मत्तवारणवेगवान् ॥ 025c
धनुषोऽभ्याशमागत्य तस्थौ गिरिरिवाचलः । 026a
धनुरारोप्यमाणं तु सर्षमात्रेऽभ्यताडयत् ॥ 026c
ततः शल्यो महावीर्यो मद्रराजो महाबलः । 027a
धनुरारोप्यमाणं तु मुद्गमात्रेऽभ्यताडयत् ॥ 027c
तदैवागात्स्वयं राज्यं पश्चादनवलोकयन् । 028a
इदं धनुर्वरं कोऽद्य सज्यं कुर्वीत पार्थिवः ॥ 028c
इति निश्चित्य मनसा भूय एव स्थितस्तदा । 029a
ततो दुर्योधनो राजा धार्तराष्ट्रः परन्तपः ॥ 029c
मानी दृढास्त्रसम्पन्नः सर्वैश्च नृपलक्षणैः । 030a
उत्थितः सहसा तत्र भ्रातृमध्ये महाबलः ॥ 030c
विलोक्य द्रौपदीं हृष्टो धनुषोऽभ्याशमागमत् । 031a
स बभौ धनुरादाय शक्रश्चापधरो यथा ॥ 031c
धनुरारोपयामास तिलमात्रेऽभ्यताडयत् । 032a
आरोप्यमाणं तद्राजा धनुषा बलिना तदा ॥ 032c
उत्तानशय्यमपतदङ्गुल्यन्तरताडितः । 033a
स ययौ ताडितस्तेन व्रीडन्निव नराधिपः ॥ 033c
ततो वैकर्तनः कर्णो वृषा वै सूतनन्दनः । 034a
धनुरभ्याशमागम्य तोलयामास तद्धनुः ॥ 034c
तं चाप्यारोप्यमाणं तद्रोममात्रेऽभ्यताडयत् । 035a
त्रैलोक्यविजयी कर्णः सत्वे त्रैलोक्यविश्रुतः ॥ 035c
धनुषा सोऽपि निर्धूत इति सर्वे भयाकुलाः । 036a
एवं कर्णे विनिर्धूते धनुषा च नृपोत्तमाः ॥ 036c
चक्षुर्भिरपि नापश्यन्विनम्रमुखपङ्कजाः । 037a
दृष्ट्वा कर्णं विनिर्धूतं लोके वीरा नृपोत्तमाः ॥ 037c
निराशा धनुरुद्धारे द्रौपदीसङ्गमेऽपि च ॥ 038ac
तस्मिंस्तु सम्भ्रान्तजने समाजे निक्षिप्तवादेषु जनाधिपेषु । 039a
कुन्तीसुतो जिष्णुरियेष कर्तुं सज्यं धनुस्तत्सशरं च वीरः ॥ 039c
ततो वरिष्ठः सुरदानवानामुदारधीर्वृष्णिकुलप्रवीरः । 040a
जहर्ष रामेण स पीड्य हस्तं हस्तङ्गतां पाण्डुसुतस्य मत्वा ॥ 040c
न जज्ञिरेऽन्ये नृपविप्रमुख्याः सञ्छन्नरूपानथ पाण्डुपुत्रान् । 041a
विना हि लोके च यदुप्रवीरौ धौम्यं हि धर्मं सह सोदरांश्च ॥ ॥ 041c

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥ 1-202-3 सङ्कल्पजेन कामेन ॥ 1-202-9 अभितः पद्मा लक्ष्मीर्येषां तान्सर्वाङ्गसुन्दरानित्यर्थः ॥ द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥