अध्यायः 201

रङ्गे आगतानां राज्ञां नामकथनम् ॥ 1 ॥ धृष्टद्युम्न उवाच 001
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः । 001a
विविंशतिर्विकर्णश्च सहो दुःशासनस्तथा ॥ 001c
युयुत्सुर्वायुवेगश्च भीमवेगरवस्तथा । 002a
उग्रायुधो बलाकी च करकायुर्विरोचनः ॥ 002c
कुण्डकश्चित्रसेनश्च सुवर्चाः कनकध्वजः । 003a
नन्दको बाहुशाली च तुहुण्डो विकटस्तथा ॥ 003c
एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः । 004a
कर्णेन सहिता वीरास्त्वदर्थं समुपागताः ॥ 004c
असङ्ख्याता महात्मानः पार्थिवाः क्षत्रियर्षभाः । 005a
शकुनिः सौबलश्चैव वृषकोऽथ बृहद्बलः ॥ 005c
एते गान्धारराजस्य सुताः सर्वे समागताः । 006a
अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ ॥ 006c
समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ । 007a
बृहन्तो मणिमांश्चैव दण्डधारश्च पार्थिवः ॥ 007c
सहदेवजयत्सेनौ मेघसन्धिश्च पार्थिवः । 008a
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च ॥ 008c
वार्धक्षेमिः सुशर्मा च सेनाबिन्दुश्च पार्थिवः । 009a
सुकेतुः सह पुत्रेण सुनाम्ना च सुवर्चसा ॥ 009c
सुचित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा । 010a
सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा ॥ 010c
अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः । 011a
समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान् ॥ 011c
जलसन्धः पितापुत्रौ विदण्डो दण्ड एव च । 012a
पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् ॥ 012c
कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा । 013a
मद्रराजस्तथा शल्यः सहपुत्रो महारथः ॥ 013c
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च । 014a
कौरव्यः सोमदत्तश्च पुत्रश्चास्य महारथः ॥ 014c
समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः । 015a
सुदक्षिणश्च काम्भोजो दृढधन्वा च पौरवः ॥ 015c
बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा । 016a
पटच्चरनिहन्ता च कारूषाधिपतिस्तथा ॥ 016c
सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् । 017a
साम्बश्च चारुदेष्णश्च प्राद्युम्निः सगदस्तथा ॥ 017c
अक्रूरः सात्यकिश्चैव उद्धवश्च महामतिः । 018a
कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च ॥ 018c
विदूरथश्च कङ्कश्च शङ्कुश्च सगवेषणः । 019a
आशावहोऽनिरुद्धश्च समीकः सारिमेजयः ॥ 019c
वीरो वातपतिश्चैव झिल्लीपिण्डारकस्तथा । 020a
उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः ॥ 020c
भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः । 021a
बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः ॥ 021c
उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ । 022a
वत्सराजश्च मतिमान्कोसलाधिपतिस्तथा ॥ 022c
शिशुपालश्च विक्रान्तो जरासन्धस्तथैव च । 023a
एते चान्ये च बहवो नानाजनपदेश्वराः ॥ 023c
त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि | 024a
एते भेत्स्यन्ति विक्रान्तास्त्वदर्थे लक्ष्यमुत्तमम् | 024c
विध्यते य इदं लक्ष्यं वरयेथाः शभेऽद्य तम् || 024e
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि एकाधिकद्विशततमोऽध्यायः ॥ 201 ॥