अध्यायः 200
(अथ स्वयंवरपर्व ॥ 12 ॥)
मध्येमार्गं आगतस्य व्यासस्य आज्ञया पाण्डवानां द्रुपदपुरप्रवेशः ॥ 1 ॥ तेषां कुम्भकारगृहे वासः, भैक्षवृत्तिश्च ॥ 2 ॥ द्रौपद्याः स्वयंवरनिर्माणकारणकथनम् ॥ 3 ॥ द्रुपदेन कृतां स्वयंवरघोषणां श्रुतवतां क्षत्रियादीनाम् आगमनम् ॥ 4 ॥ सर्वेषाम् उचिते स्थाने उपवेशनं पाण्डवानां ब्राह्मणमध्ये उपवेशनम् ॥ 5 ॥ मङ्गलस्नातायाः स्वलङ्कृताया द्रौपद्या रङ्गमध्ये आगमनम् ॥ 6 ॥ धृष्टद्युम्नेन लक्ष्यवेधपणकथनम् ॥ 7 ॥
वैशम्पायन उवाच 01
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः । 01a
तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् । 01c
प्रययुर्द्रौपदीं द्रष्टुं तं च देशं महोत्सवम् ॥ 01e
ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् । 02a
ददृशुः पाण्डवा वीराः पथि द्वैपायनं तदा ॥ 02c
तस्मै यथावत्सत्कारं कृत्वा तेन च सत्कृताः । 03a
कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् ॥ 03c
पश्यन्तो रमणीयानि वनानि च सरांसि च । 04a
तत्रतत्र वसन्तश्च शनैर्जग्मुर्महराथाः ॥ 04c
स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः । 05a
आनुपूर्व्येण सम्प्राप्ताः पाञ्चालान्पाण्डुनन्दनाः ॥ 05c
ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः । 06a
कुम्भकारस्य शालायां निवासं चक्रिरे तदा ॥ 06c
तत्र भैक्षं समाजह्रुर्ब्राह्मणीं वृत्तिमाश्रिताः । 07a
तान्सम्प्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित् ॥ 07c
'यज्ञसेनस्तु पाञ्चालो भीष्मद्रोणकृतागसम् । 08a
ज्ञात्वाऽऽत्मानं तदारेभे त्राणायात्मक्रियां क्षमाम् ॥ 08c
अवाप्य धृष्टद्युम्नं हि न स द्रोणमचिन्तयत् । 09a
स तु वैरप्रसङ्गाच्च भीष्माद्भयमचिन्तयत् ॥ 09c
कन्यादानात्तु शरणं सोऽमन्यत महीपतिः । 10a
'यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने ॥ 10c
दास्यामि कृष्मामिति वै न चैनं विवृणोति सः ।' 11a
जामातृबलसंयोगं मेने हि बलवत्तरम् ॥' 11c
सोऽन्वेषमाणः कौन्तेयान्पाञ्चालो जनमेजय । 12a
दृढं धनुरथानम्यं कारयामास भारत ॥ 12c
'वैयाघ्रपद्यस्योग्रं वै सृञ्जयस्य महीपतिः । 13a
तद्धनुः किन्धुरं नाम देवदत्तमुपानयत् ॥ 13c
आयसी तस्य च ज्याऽऽसीत्प्रतिबद्धा महाबला । 14a
न तु ज्यां प्रसहेदन्यस्तद्धनुःप्रवरं महत् ॥ 14c
शङ्करेण वरं दत्तं प्रीतेन च महात्मना । 15a
तन्निष्फलं स्यान्न तु मे इति प्रामाण्यमागतः ॥ 15c
मया कर्तव्यमधुना दुष्करं लक्ष्यवेधनम् । 16a
इति निश्चित्य मनसा कारितं लक्ष्यमुत्तमम् ॥' 16c
यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् । 17a
तेन यन्त्रेण सहितं राजल्ँलक्ष्यं च काञ्चनम् ॥ 17c
द्रुपद उवाच 18
इदं सज्यं धनुः कृत्वा सज्जैरेभिश्च सायकैः । 18a
अतीत्य लक्ष्य यो वेद्धा स लब्धा मत्सुतामिति ॥ 18c
वैशम्पायन उवाच 19
इति स द्रुपदो राजा स्वयंवरमघोषयत् । 19a
तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत ॥ 19c
ऋषयश्च महात्मानः स्वयंवरदिदृक्षवः । 20a
दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप ॥ 20c
यादवा वासुदेवेन सार्धमन्धकवृष्णयः । 'KK01120021a
'ततोऽर्चिता राजगुणा द्रुपदेन महात्मना ॥ 21c
उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम् । 22a
'ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् ॥ 22c
ब्राह्मणैरेव सहिताः पाण्डवाः समुपाविशन् । 23a
त्रयस्त्रिंशत्सुराः सर्वे विमानैर्व्योम्न्यवस्थिताः ॥ 23c
ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः । 24a
शिंशुमारशिरः प्राप्य न्यविशंस्ते स्म पार्थिवाः ॥ 24c
प्रागुत्तरेण नगराद्भूमिभागे समे शुभे । 25a
समाजवाटः शुशुभे भवनैः सर्वतो वृतः ॥ 25c
प्राकारपरिखोपेतो द्वारतोरणमण्डितः । 26a
वितानेन विचित्रेण सर्वतः समलङ्कृतः ॥ 26c
तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः । 27a
चन्दनोदकसिक्तश्च माल्यदामोपशोभितः ॥ 27c
कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः । 28a
सर्वतः संवृतः शुभ्रैः प्रासादैः सुकृतोच्छ्रयैः ॥ 28c
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषणैः । 29a
सुखारोहणसोपानैर्महासनपरिच्छदैः ॥ 29c
स्रग्दामसमवच्छन्नैरगुरूत्तमवासितैः । 30a
हंसांशुवर्णैर्बहुभिरायोजनसुगन्धिभिः ॥ 30c
असम्बाधशतद्वारैः शयनासनशोभितैः । 31a
बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव ॥ 31c
तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः । 32a
स्पर्धमानास्तदाऽन्योन्यं निषेदुः सर्वपार्थिवाः ॥ 32c
तत्रोपविष्टान्ददृशुर्महासत्वान्पृथग्जनाः । 33a
राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् ॥ 33c
महाप्रसादान्ब्राह्मण्यान्स्वराष्ट्रपरिरक्षिणः । 34a
प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः ॥ 34c
मञ्चेषु च परार्द्ध्येषु पौरजानपदा जनाः । 35a
कृष्णादर्शनसिद्ध्यर्थं सर्वतः समुपाविशन् ॥ 35c
ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् । 36a
ऋद्धिं पञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् ॥ 36c
ततः समाजो ववृधे स राजन्दिवसान्बहून् । 37a
रत्नप्रदानबहुलः शोभितो नटनर्तकैः ॥ 37c
वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे ।' 38a
मैत्रे मुहूर्ते तस्याश्च राजदाराः पुराविदः । 38c
पुत्रवत्यः सुवसनाः प्रतिकर्मोपचक्रमुः ॥ 38e
वैडूर्यमयपीठे तु निविष्टां द्रौपदीं तदा । 39a
सतूर्यं स्नापयाञ्चक्रुः स्वर्णकुम्भस्थितैर्जलैः ॥ 39c
तां निवृत्ताभिषेकां च दुकूलद्वयधारिणीम् । 40a
निन्युर्मणिस्तम्भवतीं वेदिं वै सुपरिष्कृताम् ॥ 40c
निवेश्य प्राङ्मुखीं हृष्टां विस्मिताक्ष्यः प्रसाधिकाः । 41a
केनालङ्करणेनेमामित्यन्योन्यं व्यलोकयन् ॥ 41c
धूपोष्मणा च केशानामार्द्रभावं व्यपोहयन् । 42a
बबन्धुरस्या धम्मिल्लं माल्यैः सुरभिगन्धिभिः ॥ 42c
दूर्वामधूकरचितं माल्यं तस्या ददुः करे । 43a
चक्रुश्च कृष्णागरुणा पत्रसङ्गं कुचद्वये ॥ 43c
रेजे सा चक्रवाकाङ्का स्वर्णदीर्घा सरिद्वरा । 44a
अलकैः कुटिलैस्तस्या मुखं विकसितं बभौ ॥ 44c
आसक्तभृङ्गं कुसुमं शशिबिम्बं जिगाय तत् । 45a
कालाञ्जनं नयनयोराचारार्थं समादधुः ॥ 45c
भूषणं रत्नखचितैरलञ्चक्रुर्यथोचितम् । 46a
माता च तस्याः पृषती हरितालमनश्शिलाम् ॥ 46c
अङ्गुलीभ्यामुपादाय तिलकं विदधे मुखे । 47a
अलङ्कृतां वधूं दृष्ट्वा योषितो मुदमाययुः ॥ 47c
माता न मुमुदे तस्याः पतिः कीदृग्भविष्यति । 48a
सौविदल्लाः समागम्य द्रुपदस्याज्ञया ततः ॥ 48c
एनामारोपयामासुः करिणीं कुचभूषिताम् । 49a
ततोऽवाद्यन्त वाद्यानि मङ्गलानि दिवि स्पृशन् ॥ 49c
विलासिनीजनाश्चापि प्रवरं करिणीशतम् । 50a
माङ्गल्यगीतं गायन्त्यः पार्श्वयोरुभयोर्ययुः ॥ 50c
जनापसरणे व्यग्राः प्रतिहार्यः पुरा ययुः । 51a
कोलाहलो महानासीत्तस्मिन्पुरवरे तदा ॥ 51c
धृष्टद्युम्नो ययावग्रे हयमारुह्य भारत । 52a
द्रुपदो रङ्गदेशे तु बलेन महता युतः ॥ 52c
तस्थौ व्यूह्य महानीकं पालितं दृढधन्विभिः । 53a
'आप्लुताङ्गीं सुवसनां सर्वाभरणभूषिताम् ॥ 53c
मालां च समुपादाय काञ्चनीं समलङ्कृताम् । 54a
'आगतां ददृशुः सर्वे रङ्गभूमिमलङ्कृताम् ॥' 54c
अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ ।' 55a
तस्थौ प्रमुदितान्सर्वान्नृपतीन्रङ्गमण्डले । 55c
प्रेक्षन्ती व्रीडितापाङ्गी द्रष्टृणां सुमनोहरा ॥' 55e
पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः । 56a
परिस्तीर्य जुहावाग्निमाज्येन विधिवत्तदा ॥ 56c
सन्तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च । 57a
वारयामास सर्वाणि वादित्राणि समन्ततः ॥ 57c
निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशाम्पते । 58a
कृष्णामादाय विधिवन्मेघदुन्दुभिनिःस्वनः ॥ 58c
रङ्गमध्यं गतस्तत्र मेघगम्भीरया गिरा । 59a
वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् ॥ 59c
इदं धनुर्लक्ष्यमिमे च बाणाःशृण्वन्तु मे भूपतयः समेताः । 60a
छिद्रेण यन्त्रस्य समर्पयध्वं शरैः शितैर्व्योमचरैर्दशार्धैः ॥ 60c
एतन्महत्कर्म करोति यो वै कुलेन रूपेण बलेन युक्तः । 61a
तस्याद्य भार्या भगिनी ममेयं कृष्णा भवित्री न मृषा ब्रवीमि ॥ 61c
तानेवमुक्त्वा द्रुपदस्य पुत्रः पश्चादिदं तां भगिनीमुवाच । 62a
नाम्ना च गोत्रेण च कर्मणा च सङ्कीर्तयन्भूमिपतीन्समेतान् ॥ 62c
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि द्विशततमोऽध्यायः ॥ 200 ॥
1-200-7 जज्ञिरे ज्ञातवन्तः ॥ 1-200-17 वैहायसमन्तरिक्षगतम् ॥ 1-200-24 शिंशुमारो जलजन्तुस्तदाकारस्तारासमूहात्मको विष्णुस्तस्य शिरःप्रदेशे ऐशान्यां दिशि । अतएव सा अपराजितादिक् तां दिशं प्राप्य न्यविशन् ॥ 1-200-25 तामेव दिशमात्र प्रागिति ॥ द्विशततमोऽध्यायः ॥ 200 ॥