अध्यायः 199

अर्जुनेन अनुरूपपुरोहितसम्पादनं पृष्टेन गन्धर्वेण धौम्यवरणाभ्यनुज्ञा ॥ 1 ॥ गन्धर्वाय आग्नेयास्त्रदानम् ॥ 2 ॥ उत्कोचतीर्थे पाण्डवैः धौम्यस्य पौरोहित्ये वरणम् ॥ 3 ॥ अर्जुन उवाच 001
अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् । 001a
पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव ॥ 001c
गन्धर्व उवाच 002
यवीयान्देवलस्यैष वने भ्राता तपस्यति । 002a
धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ ॥ 002c
वैशम्पायन उवाच 003
ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि । 003a
गन्धर्वाय 'स च प्रीतो वचनं चेदमब्रवीत् ॥ 003c
मयि सन्ति हयश्रेष्ठास्तव दास्यामि वै सखे । 004a
उपकारकृतं मित्रं प्रतिकारेण योजये ॥ 004c
गृह्णीष्व चाक्षुषीं विद्यामिमां भरतसत्तम । 005a
एवमुक्तोऽर्जुनः' प्रीतो वचनं चेदमब्रवीत् ॥ 005c
त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम । 006a
कार्यकाले ग्रहीष्यामः स्वस्ति तेऽस्त्विति चाब्रवीत् ॥ 006c
तेऽन्योन्यमभिसम्पूज्य गन्धर्वः पाण्डवाश्च ह । 007a
रम्याद्भागीरथीतीराद्यथाकामं प्रतस्थिरे ॥ 007c
तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते । 008a
तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत ॥ 008c
तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः । 009a
वन्येन फलमूलेन पौरोहित्येन चैव ह ॥ 009c
ते समाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः । 010a
ब्राह्मणं तं पुरस्कृत्य पाञ्चालीं च स्वयंवरे ॥ 010c
पुरोहितेन तेनाथ गुरुणा सङ्गतास्तदा । 011a
नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः ॥ 011c
स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः । 012a
वेदविच्चैव वाग्मी च धौम्यः श्रीमान्द्विजोत्तमः ॥ 012c
तेजसा चैव बुद्ध्या च रूपेण यशसा श्रिया । 013a
मन्त्रैश्च विविधैर्धौम्यस्तुल्य आसीद्बृहस्पतेः ॥ 013c
स चापि विप्रस्तान्मेने स्वभावाभ्यधिकान्भुवि । 014a
तेन धर्मविदा पार्था योज्या सर्वविदा वृताः ॥ 014c
मेनिरे सहिता वीराः प्राप्तं राज्यं च पाण्डवाः । 015a
बुद्धिवीर्यबलोत्साहैर्युक्ता देवा इवापरे ॥ 015c
कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः । 016a
मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् ॥ 016c

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि एकोनद्विशततमोऽध्यायः ॥ 199 ॥ ॥ समाप्तं चैत्ररथपर्व ॥सस