अध्यायः 198
सौदासभार्यायां वसिष्ठेन पुत्रोत्पादनकारणं पृष्टवन्तमर्जुनम्प्रति पुनः कल्माषपादकथाकथनम् ॥ 1 ॥ मैथुनधर्मस्थं ब्राह्मणं भक्षितवतः सौदासस्य ब्राह्मण्या शापः ॥ 2 ॥
'गन्धर्व उवाच 001
पुनश्चैव महातेजा विश्वामित्रजिघांसया । 001a
अग्निं सम्भृतवान्घोरं शाक्तेयः सुमहातपाः ॥ 001c
वासिष्ठसम्भृतश्चाग्निर्विश्वामित्रहितैषिणा । 002a
तेजसा वह्नितुल्येन ग्रस्तः स्कन्देन धीमता ॥' 002c
अर्जुन उवाच 003
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे । 003a
कारणं किं पुरस्कृत्य भार्या वै सन्नियोजिता ॥ 003c
जानता वै परं धर्मं वसिष्ठेन महात्मना । 004a
अगम्यागमनं कस्मात्कृतं तेन महर्षिणा ॥ 004c
अधर्मिष्ठं वसिष्ठेन कृतं चापि पुरा सखे । 005a
एतन्मे संशयं सर्वं छेत्तुमर्हसि पृच्छतः ॥ 005c
गन्धर्व उवाच 006
धनञ्जय निबोधेयं यन्मां त्वं परिपृच्छसि । 006a
वसिष्ठं प्रति दुर्धर्ष तथा मित्रसहं नृपम् ॥ 006c
कथितं ते मया सर्वं यथा शप्तः स पार्थिवः । 007a
शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना ॥ 007c
स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः । 008a
निर्जगाम पुराद्राजा सहदारः परन्तपः ॥ 008c
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे । 009a
नानामृगगणाकीर्णं नानासत्वसमाकुलम् ॥ 009c
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् । 010a
अरण्यं घोरसन्नादं शापग्रस्तः परिभ्रमन् ॥ 010c
स कदाचित्क्षुधाविष्टो मृगयन्भक्ष्यमात्मनः । 011a
ददर्श सुपरिक्लिष्टः कस्मिंश्चिन्निर्जने वने ॥ 011c
ब्राह्मणं ब्राह्मणीं चैव मिथुनायोपसङ्गतौ । 012a
तौ तं वीक्ष्य सुवित्रस्तावकृतार्थौ प्रधावितौ ॥ 012c
तयोः प्रद्रवतोर्विप्रं जग्राह नृपतिर्बलात् । 013a
दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत ॥ 013c
शृणु राजन्मम वचो यत्त्वां वक्ष्यामि सुव्रत । 014a
आदित्यवंशप्रभवस्त्वं हि लोके परिश्रुतः ॥ 014c
अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः । 015a
शापोपहत दुर्धर्ष न पापं कर्तुमर्हसि ॥ 015c
ऋतुकाले तु सम्प्राप्ते भर्तृव्यसनकर्शिता । 016a
अकृतार्था ह्यहं भर्त्रा प्रसवार्थं समागता ॥ 016c
प्रसीद नृपतिश्रेष्ठ भर्ताऽयं मे विसृज्यताम् । 017a
एवं विक्रोशमानायास्तस्यास्तु न नृशंसवत् ॥ 017c
भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् । 018a
तस्याः क्रोधाभिभूताया यान्यश्रूण्यपतन्भुवि ॥ 018c
सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् । 019a
ततः सा शोकसन्तप्ता भर्तृव्यसनकर्शिता ॥ 019c
कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा । 020a
यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत् ॥ 020c
प्रेक्षन्त्या भक्षितो मेऽद्य प्रियो भर्ता महायशाः । 021a
तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः ॥ 021c
पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् । 022a
'तेन प्रसाद्यमाना सा प्रसादमकरोत्तदा ।' 022c
यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः ॥ 022e
तेन सङ्गम्य ते भार्या तनयं जनयिष्यति । 023a
सते वंशकरः पुत्रो भविष्यति नृपाधम ॥ 023c
एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा । 024a
तस्यैव सन्निधौ दीप्तं प्रविवेश हुताशनम् ॥ 024c
वसिष्ठश्च महाभागः सर्वमेतदवैक्षत । 025a
ज्ञानयोगेन महता तपसा च परन्तप ॥ 025c
मुक्तशापश्च राजर्षिः कालेन महता ततः । 026a
ऋतुकालेऽभिपतितो मदयन्त्या निवारितः ॥ 026c
न हि सस्मार स नृपस्तं शापं काममोहितः । 027a
देव्याः सोऽथ वचः श्रुत्वा सम्भ्रान्तो नृपसत्तमः ॥ 027c
तं शापमनुसंस्मृत्य पर्यतप्यद्भृशं तदा । 028a
एतस्मात्कारणाद्राजा वसिष्ठं सन्ययोजयत् । 028c
स्वदारेषु नरश्रेष्ठ शापदोषसमन्वितः ॥ 028e
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि अष्टनवत्यधिकशततमोऽध्यायः ॥ 198 ॥