अध्यायः 197

वसिष्ठवाक्येन लोकविनाशान्निवृत्तेन पराशरेण राक्षसनाशार्थं यज्ञारम्भः ॥ 1 ॥ पुलस्त्यप्रार्थनया पराशरेण यज्ञसमापनम् ॥ 2 ॥ गन्धर्व उवाच 001
एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना । 001a
न्ययच्छदात्मनः क्रोधं सर्वलोकपराभवात् ॥ 001c
ईजे च स महातेजाः सर्ववेदविदां वरः । 002a
ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः ॥ 002c
ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः । 003a
ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् ॥ 003c
न हि तं वारयामास वसिष्ठो रक्षसां वधात् । 004a
द्वितीयामस्य मां भाङ्क्षं प्रतिज्ञामिति निश्चयात् ॥ 004c
त्रयाणां पावकानां च सत्रे तस्मिन्महामुनिः । 005a
आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः ॥ 005c
तेन यज्ञेन शुभ्रेण हूयमानेन शक्तितः । 006a
तद्विदीपितमाकाशं सूर्येणेव घनात्यये ॥ 006c
तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे । 007a
तेजसा दीप्यमानं वै द्वितीयमिव भास्करम् ॥ 007c
ततः परमदुष्प्रापमन्यैर्ऋषिरुधारधीः । 008a
समापिपयिषुः सत्रं तमत्रिः समुपागमत् ॥ 008c
तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुः । 009a
तत्राजग्मुरमित्रघ्न रक्षसां जीवितेप्सया ॥ 009c
पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ । 010a
उवाचेदं वचः पार्थ पराशरमरिन्दमम् ॥ 010c
कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक । 011a
अजानतामदोषाणां सर्वेषां रक्षसां वधात् ॥ 011c
प्रजोच्छेदमिमं मह्यं न हि कर्तु त्वमर्हसि । 012a
नैष तात द्विजातीनां धर्मो दृष्टस्तपस्विनाम् ॥ 012c
शम एव परो धर्मस्तमाचर पराशर । 013a
अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर ॥ 013c
शक्तिं चापि हि धर्मज्ञं नातिक्रान्तुमिहार्हसि । 014a
प्रजायाश्च ममोच्छेदं न चैवं कर्तुमर्हसि ॥ 014c
शापाद्धि शक्तेर्वासिष्ठ तदा तदुपपादितम् । 015a
आत्मजेन स दोषेण शक्तिर्नीत इतो दिवम् ॥ 015c
न हि तं राक्षसः कश्चिच्छक्तो भक्षयितुं मुने । 016a
'वासिष्ठो भक्षितश्चासीत्कौशिकोत्सृष्टरक्षसा । 016c
शापं न कुर्वन्ति तदा न च त्राणपरायणाः ॥ 016e
क्षमावन्तोऽदहन्देहं देहमन्यद्भवत्विति । 017a
'आत्मनैवात्मनस्तेन दृष्टो मृत्युस्तदाऽभवत् ॥ 017c
निमित्तभूतस्तत्रासीद्विश्वामित्रः पराशर । 018a
राजा कल्माषपादश्च दिवमारुह्य मोदते ॥ 018c
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुने । 019a
ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः ॥ 019c
सर्वमेतद्वसिष्ठस्य विदितं वै महामुने । 020a
रक्षसां च समुच्छेद एष तात तपस्विनाम् ॥ 020c
निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन । 021a
तत्सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते ॥ 021c
गन्धर्व उवाच 022
एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता । 022a
तदा समापयामास सत्रं शाक्तो महामुनिः ॥ 022c
सर्वराक्षससत्राय सम्भृतं पावकं तदा । 023a
उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने ॥ 023c
स तत्राद्यापि रक्षांसि वृक्षानश्मन एव च । 024a
भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि ॥ 024c

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि सप्तनवत्यधिकशततमोऽध्यायः ॥ 197 ॥

1-197-4 माभाङ्क्षं न नाशयेयम् ॥ 1-197-12 मह्यं मम ॥ सप्तनवत्यधिकशततमोऽध्यायः ॥ 197 ॥