अध्यायः 196

पितॄणां निदेशेन और्वस्य समुद्रे क्रोधत्यागः ॥ 1 ॥ और्व उवाच 001
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा । 001a
सर्वलोकविनाशाय न सा मे वितथा भवेत् ॥ 001c
वृथारोषप्रतिज्ञो वै नाहं जीवितुमुत्सहे । 002a
अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ॥ 002c
यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति । 003a
नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम् ॥ 003c
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षिता । 004a
स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्वजिगीषुभिः ॥ 004c
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा । 005a
आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे ॥ 005c
सामरैर्हि यदा लोके भृगूणां क्षत्रियाधमैः । 006a
आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविशत् ॥ 006c
प्रकीर्णकेशाः किल मे मातरः पितरस्तथा । 007a
भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् ॥ 007c
तान्भृगूणां यदा दारान्कश्चिन्नाभ्युपपद्यत । 008a
माता तदा दधारेयमूरुणैकेन मां शुभा ॥ 008c
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते । 009a
तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ॥ 009c
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् । 010a
तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्मसु ॥ 010c
जानन्नपि च यः पापं शक्तिमान्न नियच्छति । 011a
ईशः सन्सोऽपि तेनैव कर्मणा सम्प्रयुज्यते ॥ 011c
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम । 012a
शक्तैर्न शकितास्त्रातुमिष्टं मत्वेह जीवितम् ॥ 012c
अत एषामहं क्रुद्धो लोकानामीश्वरो ह्यहम् । 013a
भवतां च वचो नालमहं समभिवर्तितुम् ॥ 013c
ममापि चेद्भवेदेवमीश्वरस्य सतो महत् । 014a
उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् ॥ 014c
यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति । 015a
दहेदेष च मामेव निगृहीतः स्वतेजसा ॥ 015c
भवतां च विजानामि सर्वलोकहितेप्सुताम् । 016a
तस्माद्विधद्ध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥ 016c
पितर ऊचुः 017
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति । 017a
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः ॥ 017c
आपोमयाः सर्वरसाः सर्वमापोमयं जगत् । 018a
तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥ 018c
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ । 019a
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ॥ 019c
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति । 020a
न चैवं सामरा लोका गमिष्यन्ति पराभवम् ॥ 020c
वसिष्ठ उवाच 021
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये । 021a
उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ॥ 021c
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः । 022a
तमग्निमुद्गिरद्वक्त्रात्पिबत्यापो महोदधौ ॥ 022c
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि । 023a
पराशर पराल्ँलोकाञ्जानञ्ज्ञानवतां वर ॥ ॥ 023c

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि षण्णवत्यधिकशततमोऽध्यायः ॥ 196 ॥

1-196-2 अनिस्तीर्णोऽकृतकार्यः ॥ 1-196-8 तद्भृगूणां राजा कश्चिन्नाभ्युपपद्यते इति ङ. पाठः ॥ 1-196-21 उपयुङ्क्ते भक्षयति ॥ 1-196-22 हयशिरः वडवामुखम् ॥ षण्णवत्यधिकशततमोऽध्यायः ॥ 196 ॥