अध्यायः 195

ब्राह्मणीवाक्येन और्वम्प्रति शरणागतानां क्षत्रियाणां चक्षुःप्राप्तिः ॥ 1 ॥ लोकविनाशार्थं तपस्यत और्वस्य तत्पितृकृततपोनिवारणम् ॥ 2 ॥ ब्राह्मण्युवाच 001
नाहं गृह्णामि वस्ताता दृष्टीर्नास्मि रुषान्विता । 001a
अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः ॥ 001c
तेन चक्षूंषि वस्ताता व्यक्तं कोपान्महात्मना । 002a
स्मरता निहतान्बन्धूनादत्तानि न संशयः ॥ 002c
गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः । 003a
तदायमूरुणा गर्भो मया वर्षशतं धृतः ॥ 003c
षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव ह । 004a
विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया ॥ 004c
सोऽयं पितृवधाद्व्यक्तं क्रोधाद्वो हन्तुमिच्छति । 005a
तेजसा तस्य दिव्येन चक्षूंषि मुषितानि वः ॥ 005c
तमेव यूयं याचध्वमौर्वं मम सुतोत्तमम् । 006a
अयं वः प्रणिपातेन तुष्टो दृष्टीः प्रदास्यति ॥ 006c
वसिष्ठ उवाच 007
एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम् । 007a
ऊचुः प्रसीदेति तदा प्रसादं च चकार सः ॥ 007c
अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः । 008a
स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत ॥ 008c
चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः । 009a
भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् ॥ 009c
स चक्रे तात लोकानां विनाशाय मतिं तदा । 010a
सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः ॥ 010c
इच्छन्नपचितिं कर्तुं भृगूणां भृगुनन्दनः । 011a
सर्वलोकविनाशाय तपसा महतैधितः ॥ 011c
तापयामास ताल्ँलोकान्सदेवासुरमानुषान् । 012a
तपसोग्रेण महता नन्दयिष्यन्पितामहान् ॥ 012c
ततस्तं पितरस्तात विज्ञाय कुलनन्दनम् । 013a
पितृलोकादुपागम्य सर्व ऊचुरिदं वचः ॥ 013c
और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक । 014a
प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः ॥ 014c
नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः । 015a
वधो ह्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् ॥ 015c
आयुषा विप्रकृष्टेन यदा नः खेद आविशत् । 016a
तदाऽस्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम् ॥ 016c
निखातं यच्च वै वित्तं केनचिद्भृगुवेश्मनि । 017a
वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः ॥ 017c
किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजोत्तम । 018a
यदस्माकं धनाध्यक्षः प्रभूतं धनमाहरत् ॥ 018c
यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः । 019a
तदाऽस्माभिरयं दृष्ट उपायस्तात सम्मतः ॥ 019c
आत्महा च पुमांस्तात न लोकाल्ँलभते शुभान् । 020a
ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा निपातितः ॥ 020c
न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि । 021a
नियच्छेदं मनः पापात्सर्वलोकपराभवात् ॥ 021c
मा वधीः क्षत्रियांस्तात न लोकान्सप्त पुत्रक । 022a
दूषयन्तं तपस्तेजः क्रोधमुत्पतितं जहि ॥ ॥ 022c

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि पञ्चनवत्यधिकशततमोऽध्यायः ॥ 195 ॥

1-195-20 आत्महेति एतेन भृगुपतनादिना मरणं ब्राह्मणेतरविषयं दर्शितम् ॥ 1-195-22 मावधीरिति क्षत्रियान् तदनियन्तृत्वेनानपराधिनः । सप्तलोकान् भूरादींश्च मावधीः किन्तु तपःसम्भृतं तेजो दूषयन्तं क्रोधं जहि ॥ पञ्चनवत्यधिकशततमोऽध्यायः ॥ 195 ॥