अध्यायः 194
पराशरोत्पत्तिः ॥ 1 ॥ पितरं कल्माषपादभक्षितं ज्ञात्वा क्रुद्धेन पराशरेण लोकविनाशाय यतनम् ॥ 2 ॥ कर्तवीर्यार्जुन वंश्यैः क्षत्रियैः धनार्थं भृगुवंश्यानां ब्राह्मणानां हननम् ॥ 3 ॥ क्षत्रियभीत्या कयाचिद्ब्राह्मण्या ऊरौ गर्भं धृतं हन्तुं क्षत्रियाणामुद्यमः ॥ 4 ॥ ऊरुं भित्वा निर्गतस्य बालकस्य तेजसान्धीभूतानां क्षत्रियाणां ब्राह्मणीम्प्रति शरणगमनम् ॥ 5 ॥
गन्धर्व उवाच 001
आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत । 001a
शक्तेः कुलकरं राजन् द्वितीयमिव शक्तिनम् ॥ 001c
जातकर्मादिकास्तस्य क्रियाः स मुनिसत्तमः । 002a
पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् ॥ 002c
परासुः स यतस्तेन वसिष्ठः स्थापितो मुनिः । 003a
गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥ 003c
अमन्यत स धर्मात्मा वसिष्ठं पितरं मुनिः । 004a
जन्मप्रभृति तस्मिंस्तु पितरीवान्ववर्तत ॥ 004c
स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत । 005a
मातुः समक्षं कौन्तेय अदृश्यन्त्याः परन्तप ॥ 005c
तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः । 006a
अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वती तमुवाच ह ॥ 006c
मा तात ताततातेति ब्रूह्येनं पितरं पितुः । 007a
रक्षसा भक्षितस्तात तव तातो वनान्तरे ॥ 007c
मन्यसे यं तु तातेति नैष तातस्तवानघ । 008a
आर्य एष पिता तस्य पितुस्तव यशस्विनः ॥ 008c
स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः । 009a
सर्वलोकविनाशाय मतिं चक्रे महामनाः ॥ 009c
तं तथा निश्चितात्मानं स महात्मा महातपाः । 010a
ऋषिर्ब्रह्मविदां श्रष्ठो मैत्रावरुणिरन्त्यधीः ॥ 010c
वसिष्ठो वारयामास हेतुना येन तच्छृणु । 011a
वसिष्ठ उवाच 011
कृतवीर्य इति ख्यातो बभूव पृथिवीपतिः ॥ 011c
याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः । 012a
स तानग्रभुजस्तात धान्येन च धनेन च ॥ 012c
सोमान्ते तर्पयामास विपुलेन विशाम्पतिः । 013a
तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कथञ्चन ॥ 013c
बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् । 014a
भृगूणां तु धनं ज्ञात्वा राजानः सर्व एव ते ॥ 014c
याचिष्णवोऽभिजग्मुस्तांस्ततो भार्गवसत्तमान् । 015a
भूमौ तु निददुः केचिद्भृगवो धनमक्षयम् ॥ 015c
ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् । 016a
भृगवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम् ॥ 016c
क्षत्रियाणां तदा तात कारणान्तरदर्शनात् । 017a
ततो महीतलं तात क्षत्रियेण यदृच्छया ॥ 017c
खनताऽधिगतं वित्तं केनच्चिद्भृगुवेश्मनि । 018a
तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः ॥ 018c
अवमन्य ततः क्रोधाद्भृगूंस्ताञ्छरणागतान् । 019a
निजघ्नुः परमेष्वासाः सर्वांस्तान्निशितैः शरैः ॥ 019c
आगर्भादवकृन्तन्तश्चेरुः सर्वां वसुन्धराम् । 020a
तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा ॥ 020c
भृगुपत्न्यो गिरिं दुर्गं हिमवन्तं प्रपेदिरे । 021a
तासामन्यतमा गर्भं भयाद्दध्रे महौजसम् ॥ 021c
ऊरुणैकेन वामोरूर्भर्तुः कुलविवृद्धये । 022a
तं गर्भमुपलभ्याशु ब्राह्मण्येका भयार्दिता ॥ 022c
गत्वा वै कथयामास क्षत्रियाणामुपह्वरे । 023a
ततस्ते क्षत्रिया जग्मुस्तं गर्भं हन्तुमुद्यताः ॥ 023c
ददृशुर्ब्राह्मणीं तेऽथ दीप्यमानां स्वतेजसा । 024a
अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह ॥ 024c
मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः । 025a
ततश्चक्षुर्विहीनास्ते गिरिदुर्गेषु बभ्रमुः ॥ 025c
ततस्ते मोघसङ्कल्पा भयार्ताः क्षत्रियाः पुनः । 026a
ब्राह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् ॥ 026c
ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः । 027a
ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः ॥ 027c
भगवत्याः प्रसादेन गच्छेत्क्षत्रमनामयम् । 028a
उपारम्य च गच्छेम सहिताः पापकर्मणः ॥ 028c
सपुत्रा त्वं प्रसादं नः कर्तुमर्हसि शोभने । 029a
पुनर्दृष्टिप्रदानेन राज्ञः सन्त्रातुमर्हसि ॥ ॥ 029c
इति श्रीमन्महाभारते आदिप्रवणि चैत्ररथपर्वणि चतुर्नवत्यधिकशततमोऽध्यायः ॥ 194 ॥
1-194-10 अन्त्यधीः अन्ते सिद्धान्ते साध्वी अन्त्या धीर्यस्य सोन्त्यधीः ॥ चतुर्नवत्यधिकशततमोऽध्यायः ॥ 194 ॥