अध्यायः 193

पूर्वोपायैरपि दुस्त्यजप्राणस्य वसिष्ठस्य पुनर्गङ्गापतनादिनापि प्राणत्यागासम्भवे आश्रमं प्रत्यागमनम् ॥ 1 ॥ तत्र शक्तिभार्यामदृश्यन्तीनाम्नी गर्भवतीं ज्ञात्वा आत्मघातान्निवर्तनम् ॥ 2 ॥ अदृश्यन्त्या सह गच्छन्तं वसिष्ठं भक्षयितुमागतस्य कल्माषपादस्य वसिष्ठेन शापान्मोक्षणम् ॥ 3 ॥ सौदासपत्न्या वसिष्ठाद्गर्भसम्भवः ॥ 4 ॥ अश्मकनामकपुत्रोत्पत्तिः ॥ 5 ॥ गन्धर्व उवाच 001
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः । 001a
निर्जगाम सुदुःखार्तः पुनरप्याश्रमात्ततः ॥ 001c
सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा । 002a
वृक्षान्बहुविधान्पार्थ हरन्तीं तीरजान्बहून् ॥ 002c
अथ चिन्तां समापेदे पुनः कौरवनन्दन । 003a
अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः ॥ 003c
ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः । 004a
तस्या जले महानद्या निममज्ज सुदुःखितः ॥ 004c
अथ च्छित्त्वा नदी पाशांस्तस्यारिबलसूदन । 005a
स्थलस्थं तमृषिं कृत्वा विपाशं समवासृजत् ॥ 005c
उत्ततार ततः पाशैर्विमुक्तः स महानृषिः । 006a
विपाशेति च नामास्या नद्याश्चक्रे महानृषिः ॥ 006c
'सा विपाशेति विख्याता नदी लोकेषु भारत । 007a
ऋषेस्तस्य नरव्याघ्र वचनात्सत्यवादिनः । 007c
उत्तीर्य च तदा राजन्दुःखितो भगवानृषिः ॥' 007e
शोके बुद्धिं तदा चक्रे न चैकत्र व्यतिष्ठत । 008a
सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च ॥ 008c
दृष्ट्वा स पुनरेवर्षिर्नदीं हैमवतीं तदा । 009a
चण्डग्राहवतीं भीमां तस्याः स्रोतस्यपातयत् ॥ 009c
सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा । 010a
शतधा विद्रुता तस्माच्छतद्रुरिति विश्रुता ॥ 010c
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना । 011a
मर्तुं न शक्यमित्युक्त्वा पुवरेवाश्रमं ययौ ॥ 011c
स गत्वा विविधाञ्शैलान्देशान्बहुविधांस्तथा । 012a
अदृशन्त्याख्यया वध्वाथाश्रमेऽनुसृतोऽभवत् ॥ 012c
अथ शुश्राव सङ्गत्या वेदाध्ययननिःस्वनम् । 013a
पृष्ठतः परिपूर्णार्थं षड्भिरङ्गैरलङ्कृतम् ॥ 013c
अनुव्रजति कोन्वेष मामित्येवाथ सोऽब्रवीत् । 014a
अदृश्यन्त्येवमुक्ता वै तं स्नुषा प्रत्यभाषत ॥ 014c
शक्तेभार्या महाभाग तपोयुक्ता तपस्विनम् । 015a
अहमेकाकिनी चापि त्वया गच्छामि नापरः ॥ 015c
वसिष्ठ उवाच 016
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः । 016a
पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः ॥ 016c
अदृश्यन्त्युवाच 017
अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते । 017a
समा द्वादश तस्येह वेदानभ्यस्यतो मुने ॥ 017c
गन्धर्व उवाच 018
एवमुक्तस्तया हृष्टो वसिष्ठः श्रेष्ठभागृषिः । 018a
अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ॥ 018c
ततः प्रतिनिवृत्तः स तया वध्वा सहानघ । 019a
कल्माषपादमासीनं ददर्श विजने वने ॥ 019c
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत । 020a
आविष्टो रक्षसोग्रेण इयेषात्तुं तदा मुनिम् ॥ 020c
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः । 021a
भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् ॥ 021c
असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः । 022a
प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति दारुणः ॥ 022c
तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन । 023a
त्वदृतेऽद्य महाभाग सर्ववेदविदां वर ॥ 023c
पाहि मां भगवन्पापादस्माद्दारुणदर्शनात् । 024a
राक्षसोऽयमिहात्तुं वै नूनमावां समीहते ॥ 024c
वसिष्ठ उवाच 025
माभैः पुत्रि न भेतव्यं राक्षसात्तु कथञ्चन । 025a
नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम् ॥ 025c
राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि । 026a
स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः ॥ 026c
गन्धर्व उवाच 027
तमापतन्तं सम्प्रेक्ष्य वसिष्ठो भगवानृषिः । 027a
वारयामास तेजस्वी हुङ्कारेणैव भारत ॥ 027c
मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा । 028a
मोक्षयामास वै शापात्तस्माद्योगान्नराधिपम् ॥ 028c
स हि द्वादश वर्षाणि वासिष्ठस्यैव तेजसा । 029a
ग्रस्त आसीद्ग्रहेणेव पर्वकाले दिवाकरः ॥ 029c
रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् । 030a
तेजसा रञ्जयामास सन्ध्याभ्रमिव भास्करः ॥ 030c
प्रतिलभ्य ततः सञ्ज्ञामभिवाद्य कृताञ्जलिः । 031a
उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् ॥ 031c
सौदासोऽहं महाभाग याज्यस्ते मुनिसत्तम । 032a
अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते ॥ 032c
वसिष्ठ उवाच 033
वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि वै । 033a
ब्राह्मणं तु मनुष्येन्द्र माऽवमंस्थाः कदाचन ॥ 033c
राजोवाच 034
नावमंस्ये महाभाग कदाचिद्ब्राह्मणर्षभान् । 034a
त्वन्निदेशे स्थितः सम्यक् पूजयिष्याम्यहं द्विजान् ॥ 034c
इक्ष्वाकूणां च येनाहमनृणः स्यां द्विजोत्तम । 035a
तत्त्वत्तः प्राप्तुमिच्छामि सर्ववेदविदां वर ॥ 035c
अपत्यायेप्सिताय त्वं महिषीं गन्तुमर्हसि । 036a
शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये ॥ 036c
गन्धर्व उवाच 037
ददानीत्येव तं तत्र राजानं प्रत्युवाच ह । 037a
वसिष्ठः परमेष्वासं सत्यसन्धो द्विजोत्तमः ॥ 037c
ततः प्रतिययौ काले वसिष्ठः सह तेन वै । 038a
ख्यातां पुरीमिमां लोकेष्वयोध्यां मनुजेश्वर ॥ 038c
तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्गतास्तदा । 039a
विपाप्मानं महात्मानं दिवौकस इवेश्वरम् ॥ 039c
सुचिराय मनुष्येन्द्रो नगरीं पुण्यलक्षणाम् । 040a
विवेश सहितस्तेन वसिष्ठेन महर्षिणा ॥ 040c
ददृशुस्तं महीपालमयोध्यावासिनो जनाः । 041a
पुरोहितेन सहितं दिवाकरमिवोदितम् ॥ 041c
स च तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः । 042a
अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः ॥ 042c
संसक्तिमृष्टपन्थानं पताकाध्वजशोभितम् । 043a
मनः प्रह्लादयामास तस्य तत्पुरमुत्तमम् ॥ 043c
तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन । 044a
अशोभत तदा तेन शक्रेणेवामरावती ॥ 044c
ततः प्रविष्टे राजर्षौ तस्मिंस्तत्पुरमुत्तमम् । 045a
राज्ञस्तस्याज्ञया देवी वसिष्ठमुपचक्रमे ॥ 045c
ऋतावथ महर्षिस्तु सम्बभूव तया सह । 046a
देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः ॥ 046c
ततस्तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः । 047a
राज्ञाभिवादितस्तेन जगाम मुनिराश्रमम् ॥ 047c
दीर्घकालेन सा गर्भं सुषुवे न तु तं यदा । 048a
तदा देव्यश्मना कुक्षिं निर्बिभेद यशस्विनी ॥ 048c
ततो द्वादशमे वर्षे स जज्ञे पुरषर्षभः । 049a
अश्मको नाम राजर्षिः पौदन्यं यो न्यवेशयत् ॥ 049c

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि त्रिनवत्यधिकशततमोऽध्यायः ॥ 193 ॥

1-193-12 वध्वा स्नुषया ॥ 1-193-48 निष्पिपेष मनस्विनीति ङ. पाठः ॥ त्रिनवत्यधिकशततमोऽध्यायः ॥ 193 ॥