अध्यायः 192

कल्माषपादराजोपाख्याने—वसिष्ठपुत्रेण शक्तिना कल्माषपादं प्रति शापदानम् ॥ 1 ॥ पुनरन्येन ब्राह्मणेन च कल्माषपादम्प्रति शापदानम् ॥ 2 ॥ राक्षसाविष्टेन कल्माषपादेन वसिष्ठपुत्राणां भक्षणम् ॥ 3 ॥ पुत्रशोकाभिसन्तप्तेन वसिष्ठेन प्राणत्यागार्थं अनेकधा प्रयतनम् ॥ 4 ॥ 'अर्जुन उवाच 001
ऋष्योस्तु यत्कृते वैरं विश्वामित्रवसिष्ठयोः । 001a
बभूव गन्धर्वपते शंस तत्सर्वमेव मे ॥ 001c
माहात्म्यं च वसिष्ठस्य ब्राह्मण्यं ब्रह्मतेजसः । 002a
विश्वामित्रस्य च तथा क्षत्रस्य च महात्मनः ॥ 002c
न शृण्वानस्त्वहं तृप्तिमुपगच्छामि खेचर । 003a
आख्याहि गन्धर्वपते शंस तत्सर्वमेव मे ॥ 003c
माहात्म्यं च वसिष्ठस्य विश्वामित्रस्य भाषते ॥ 004ac
गन्धर्व उवाच 005
इदं वासिष्ठमाख्यानं पुराणं पुण्यमुत्तमम् । 005a
पार्थ सर्वेषु लोकेषु विश्रुतं तन्निबोध मे ॥' 005c
कल्माषपाद इत्येवं लोके राजा बभूव ह । 006a
इक्ष्वाकुवंशजः पार्थ तेजसाऽसदृशो भुवि ॥ 006c
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् । 007a
मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः ॥ 007c
तस्मिन्वने महाघोरे खङ्गांश्च बहुशोऽहनत् । 008a
हत्वा च सुचिरं श्रान्तो राजा निववृते ततः ॥ 008c
अकामयत्तं याज्यार्थे विश्वामित्रः प्रतापवान् । 009a
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् ॥ 009c
तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि । 010a
अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम् ॥ 010c
शक्तिं नाम महाभागं वसिष्ठकुलवर्धनम् । 011a
ज्येष्ठं पुत्रं पुत्रशताद्वसिष्ठस्य महात्मनः ॥ 011c
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् । 012a
तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ॥ 012c
मम पन्था महाराज धर्म एष सनातनः । 013a
'वृद्धभीरुनृपस्नातस्त्रीरोगिवरचक्रिणाम् ॥ 013c
पन्था देयो नृपैस्तेषामन्यैस्तैस्तस्य भूपतेः । 014a
'राज्ञा सर्वेषा धर्मेषु देयः पन्था द्विजातये ॥ 014c
एवं परस्परं तौ तु पथोऽर्थं वाक्यमूचतुः । 015a
अपसर्पापसर्पेति वागुत्तरमकुर्वताम् ॥ 015c
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः ।' 016a
अपि राजा मुनेर्मार्गात्क्रोधान्नापजगाम ह ॥' 016c
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः । 017a
जगाम कशया मोहात्तदा राक्षसन्मुनिम् ॥ 017c
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः । 018a
तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ॥ 018c
हंसि राक्षसवद्यस्माद्राजापशद तापसम् । 019a
तस्मात्त्वमद्यप्रभृति पुरुषादो भविष्यसि ॥ 019c
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् । 020a
गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ॥ 020c
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः । 021a
वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ॥ 021c
तयोर्विवदतोरेवं समीपमुपचक्रमे । 022a
ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ॥ 022c
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः । 023a
ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ॥ 023c
अन्तर्धाय ततोऽत्मानं विश्वामित्रोऽपि भारत । 024a
तावुभावतिचक्राम चिकीर्षन्नात्मनः प्रियम् ॥ 024c
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः । 025a
जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ॥ 025c
तस्य भावं विदित्वा स नृपतेः कुरुसत्तम । 026a
विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ॥ 026c
शापात्तस्य तु विप्रर्षेर्विश्वामित्रस्य चाज्ञया । 027a
राक्षसः किङ्करो नाम विवेश नृपतिं तदा ॥ 027c
रक्षसा तं गृहीतं तु विदित्वा मुनिसत्तमः । 028a
विश्वामित्रोऽप्यपाक्रामत्तस्माद्देशादरिन्दम ॥ 028c
ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना । 029a
बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ॥ 029c
ददर्शाथ द्विजः कश्चिद्राजानं प्रस्थितं वनम् । 030a
अयाचत क्षुधापन्नः समांसं भोजनं तदा ॥ 030c
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा । 031a
आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तं प्रतिपालयन् ॥ 031c
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् । 032a
इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥ 032c
ततो राजा परिक्रम्य यथाकामं यथासुखम् । 033a
निवृत्तोऽन्तःपुरं पार्थ प्रविवेश महामनाः ॥ 033c
'अन्तर्गतस्तदा राजा श्रुत्वा ब्राह्मणभाषितम् । 034a
सोऽन्तःपुरं प्रविश्याथ न सस्मार नराधिपः ॥' 034c
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् । 035a
उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥ 035c
गच्छामुष्मिन्वनोद्देशे ब्राह्मणो मां प्रतीक्षते । 036a
अन्नार्थी तं त्वमन्नेन समांसेनोपपादय ॥ 036c
गन्धर्व उवाच 037
एवमुक्तस्ततः सूदः सोऽनासाद्यामिषं क्वचित् । 037a
निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ॥ 037c
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः । 038a
अप्येनं नरमांसेन भोजयेति पुनः पुनः ॥ 038c
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् । 039a
गत्वाऽऽजहार त्वरितो नरमांसमपेतभीः ॥ 039c
एतत्संस्कृत्य विधिवदन्नोपहितमाशु वै । 040a
तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ॥ 040c
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः । 041a
अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः ॥ 041c
ब्राह्मण उवाच 042
यस्मादभोज्यमन्नं मे ददाति स नृपाधमः ॥ 042ac
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा । 043a
उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् ॥ 043c
गन्धर्व उवाच 044
द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् । 044a
रक्षोबलसमाविष्टो विसञ्ज्ञश्चाभवन्नृपः ॥ 044c
ततः स नृपतिश्रेष्ठो रक्षसापहृतेन्द्रियः । 045a
उवाच शक्तिं तं दृष्ट्वा न चिरादिव भारत ॥ 045c
यस्मादसदृशः शापः प्रयुक्तोऽयं मयि त्वया । 046a
तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं पुरुषानहम् ॥ 046c
एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयोज्य च । 047a
शक्तिं तं भक्षयामास व्याघ्रः पशुमिवेप्सितम् ॥ 047c
शक्तिनं तु मृतं दृष्ट्वा विश्वामित्रः पुनःपुनः । 048a
वसिष्ठस्यैव पुत्रेषु तद्रक्षः सन्दिदेश ह ॥ 048c
स ताञ्शक्त्यवरान्पुत्रान्वसिष्ठस्य महात्मनः । 049a
भक्षयामास सङ्क्रुद्धः सिंहः क्षुद्रमृगानिव ॥ 049c
वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् । 050a
धारयामास तं शोकं महाद्रिरिव मेदिनीम् ॥ 050c
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः । 051a
न त्वेव कौशिकोच्छेदं मेने मतिमतां वरः ॥ 051c
स मेरुकूटादात्मानं मुमोच भगवानृषिः । 052a
गिरेस्तस्य शिलायां तु तूलराशाविवापतत् ॥ 052c
न ममार च पातेन स यदा तेन पाण्डव । 053a
तदाग्निमिद्धं भगवान्संविवेश महावने ॥ 053c
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः । 054a
दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः ॥ 054c
स समुद्रमभिप्रेक्ष्य शोकाविष्टो महामुनिः । 055a
बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदाम्भसि ॥ 055c
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः । 056a
न ममार यदा विप्रः कथञ्चित्संशितव्रतः । 056c
जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति ॥ ॥ 056e

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि द्विनवत्यधिकशततमोऽध्यायः ॥ 192 ॥

1-192-9 याज्यार्थे अयं मम याज्यो भवत्वित्येतदर्थम् ॥ 1-192-10 एकायनगतः अतिसङ्कुचितमार्गे गतः ॥ 1-192-52 मुमोच पातयामास । आत्मानं देहम् ॥ द्विनवत्यधिकशततमोऽध्यायः ॥ 192 ॥