अध्यायः 191
वसिष्ठोपाख्याने—विश्वामित्रस्य वसिष्ठाश्रमाभिगमनम् ॥ 1 ॥ वसिष्ठेन विश्वामित्रस्यातिथ्यकरणम् ॥ 2 ॥ विश्वामित्रेण वसिष्ठधेनुयाचनम् ॥ 3 ॥ वसिष्ठेनादत्ताया धेनोः विश्वामित्रेण बलात्कारेण हरणम् ॥ 4 ॥ कुपितया नन्दिन्या सृष्टैः म्लेच्छाद्यैः विश्वामित्रपराजयः ॥ 5 ॥ विश्वामित्रस्य तपसा ब्राह्मण्यप्राप्तिः ॥ 6 ॥
अर्जुन उवाच 001
किन्निमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः । 001a
वसतोराश्रमे दिव्ये शंस नः सर्वमेव तत् ॥ 001c
गन्धर्व उवाच 002
इदं वासिष्ठमाख्यानं पुराणं परिचक्षते । 002a
पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ॥ 002c
कान्यकुब्जे महानासीत्पार्थिवो भरतर्षभ । 003a
गाधीति विश्रुतो लोके कुशिकस्यात्मसम्भवः ॥ 003c
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः । 004a
विश्वामित्र इति ख्यतो बभूव रिपुमर्दनः ॥ 004c
स चचार सहामात्यो मृगयां गहने वने । 005a
मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ॥ 005c
व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः । 006a
आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति ॥ 006c
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः । 007a
विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया ॥ 007c
पाद्यार्घ्याचमनीयैस्तं स्वागतेन च भारत । 008a
तथैव परिजग्राह वन्येन हविषा तदा ॥ 008c
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः । 009a
उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः ॥ 009c
'बाष्पाढ्यस्योदनस्यैव राशयः पर्वतोपमाः । 010a
निष्ठानानि च सूपांश्च दधिकुल्यास्तथैव च ॥ 010c
कूपांश्च घृतसम्पूर्णान्गौड्यान्नानि सहस्रशः । 011a
इक्षून्मधूनि लाजांश्च मैरेयांश्च वरासवान् ॥' 011c
ग्राम्यारण्याश्चौषधीश्च दुदुहे पय एव च । 012a
षड्रसं चामृतनिभं रसायनमनुत्तमम् ॥ 012c
भोजनीयानि पेयानि भक्ष्याणि विविधानि च । 013a
लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुना ॥ 013c
रत्नानि च महार्हाणि वासांसि विविधानि च । 014a
तैः कामैः सर्वसम्पूर्णैः पूजितश्च महीपतिः ॥ 014c
सामात्यः सबलश्चैव तुतोष स भृशं तदा । 015a
षडुन्नतां सुपार्श्वोरुं पृथुपञ्चसमावृताम् ॥ 015c
मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् । 016a
सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् ॥ 016c
पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्यताम् । 017a
अभिनन्द्य स तां राजा नन्दिनीं गाधिनन्दनः ॥ 017c
अब्रवीच्च भृशं तुष्टः स राजा तमृषिं तदा । 018a
अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः ॥ 018c
नन्दिनीं सम्प्रयच्छस्व भुङ्क्ष्व राज्यं महामुने । 019a
वसिष्ठ उवाच 019
देवतातिथिपित्रर्थं याज्यार्थं च पयस्विनी ॥ 019c
अदेया नन्दिनीयं वै राज्येनापि तवानघ । 020a
विश्वामित्र उवाच 020
'रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः ।' 020c
क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः ॥ 020e
ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु । 021a
अर्बुदेन गवां यस्त्वं न ददासि ममेप्सितम् ॥ 021c
स्वधर्मं न प्रहास्यामि नेष्यामि च बलेन गाम् । 022a
वसिष्ठ उवाच 022
बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः ॥ 022c
यथेच्छसि तथा क्षिप्रं कुरु मा त्वं विचारय । 023a
गन्धर्व उवाच 023
एवमुक्तस्तथा पार्थ विश्वामित्रो बलादिव ॥ 023c
हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् । 024a
'सा तदा ह्रियमाणा च विश्वामित्रबलैर्बलात् ।' 024c
कशादण्डप्रणुदिता काल्यमाना इतस्ततः ॥ 024e
हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी । 025a
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी ॥ 025c
भृशं च ताड्यमाना वै न जगामाश्रमात्ततः । 026a
वसिष्ठ उवाच 026
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः ॥ 026c
ह्रियसे त्वं बलाद्भद्रे विश्वामित्रेण नन्दिनि । 027a
किं कर्तव्यं मया तत्र क्षमावान्ब्राह्मणो ह्यहम् । 027c
गन्धर्व उवाच 028
सा भयान्नन्दिनी तेषां बलानां भरतर्षभ । 028a
विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् ॥ 028c
गौरुवाच 029
कशाग्रदण्डाभिहतां क्रोशन्तीं मामनाथवत् । 029a
विश्वामित्रबलैर्घोरैर्भगवन् किमुपेक्षसे ॥ 029c
गन्धर्व उवाच 030
एवं तस्यां तदा पार्थ धर्षितायां महामुनिः । 030a
न चुक्षुभे तदा धैर्यान्न चचाल धृतव्रतः ॥ 030c
वसिष्ठ उवाच 031
क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् । 031a
क्षमा मां भजते यस्माद्गम्यतां यदि रोचते ॥ 031c
नन्दिन्युवाच 032
किं नु त्यक्ताऽस्मि भगवन्यदेवं त्वं प्रभाषसे । 032a
अत्यक्ताऽहं त्वया ब्रह्मन्नेतुं शक्या न वै बलात् ॥ 032c
वसिष्ठ उवाच 033
न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते । 033a
दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात् ॥ 033c
गन्धर्व उवाच 034
स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी । 034a
ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ रौद्रदर्शना ॥ 034c
क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना । 035a
विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः ॥ 035c
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः । 036a
क्रोधरक्तेक्षणा क्रोधं भूय एव समाददे ॥ 036c
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ । 037a
अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् ॥ 037c
असृजत्पह्लवान्पुच्छात्प्रस्रवाद्द्राविडाञ्छकान् । 038a
योनिदेशाच्च यवानाञ्शकृतः शबरान्बहून् ॥ 038c
मूत्रतश्चासृजत्कांश्चिच्छबरांश्चैव पार्श्वतः । 039a
पौण्ड्रान्किरातान्यवनान्सिंहलान्बर्बरान्खसान् ॥ 039c
चिबुकांश्च पुलिन्दांश्च चीनान्हूणान्सकेरलान् । 040a
ससर्ज फेनतः सा गौर्म्लेच्छान्बहुविधानपि ॥ 040c
तैर्विसृष्टैर्महासैन्यैर्नानाम्लेच्छगणैस्तदा । 041a
नानावरणसञ्छन्नैर्नानायुधधरैस्तथा ॥ 041c
अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः । 042a
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः ॥ 042c
अस्त्रवर्षेण महता वध्यमानं बलं तदा । 043a
प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ॥ 043c
'तस्य तच्चतुरङ्गं वै बलं परमदुःसहम् । 044a
प्रभग्नं सर्वतो घोरं पयस्विन्या विनिर्जितम् ॥' 044c
न च प्राणैर्वियुज्यन्ते केचित्तत्रास्य सैनिकाः । 045a
विश्वामित्रस्य सङ्क्रुद्धैर्वासिष्ठैर्भरतर्षभ ॥ 045c
सा गौस्तत्सकलं सैन्यं कालयामास दूरतः । 046a
विश्वामित्रस्य तत्सैन्यं काल्यमानं त्रियोजनम् ॥ 046c
क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत । 047a
'विश्वामित्रस्ततो दृष्ट्वा क्रोधाविष्टः स रोदसी ॥ 047c
ववर्ष शरवर्षाणि वसिष्ठे मुनिसत्तमे । 048a
घोररूपांश्च नाराचान्क्षुरान्भल्लान्महामुनिः ॥ 048c
विश्वामित्रप्रयुक्तांस्तान्वैणवेन व्यमोचयत् । 049a
वसिष्ठस्य तदा दृष्ट्वा कर्मकौशलमाहवे ॥ 049c
विश्वामित्रोऽपि कोपेन भूयः शत्रुनिपातनः । 050a
दिव्यास्त्रवर्षं तस्मै स प्राहिणोन्मुनये रुषा ॥ 050c
आग्नेयं वारुणं चैन्द्रं याम्यं वायव्यमेव च । 051a
विससर्ज महाभागे वसिष्ठे ब्रह्मणः सुते ॥ 051c
अस्त्राणि सर्वतो ज्वालां विसृजन्ति प्रपेदिरे । 052a
युगान्तसमये घोराः पतङ्गस्येव रश्मयः ॥ 052c
वसिष्ठोऽपि महातेजा ब्रह्मशक्तिप्रयुक्तया । 053a
यष्ट्या निवारयामास सर्वाण्यस्त्राणि स स्मयन् ॥ 053c
ततस्ते भस्मसाद्भूताः पतन्ति स्म महीतले । 054a
अपोह्य दिव्यान्यस्त्राणि वसिष्ठो वाक्यमब्रवीत् ॥ 054c
निर्जितोऽसि महाराज दुरात्मन्गाधिनन्दन । 055a
यदि तेऽस्ति परं शौर्यं तद्दर्शय मयि स्थिते ॥ 055c
गन्धर्व उवाच 056
विश्वामित्रस्तथा चोक्तो वसिष्ठेन नराधिपः । 056a
नोवाच किञ्चिद्व्रीडाढ्यो विद्रावितमहाबलः' ॥ 056c
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा । 057a
विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् । 057c
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् ॥ 057e
बलाबले विनिश्चित्य तप एव परं बलम् । 058a
गन्धर्व उवाच 058
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् ॥ 058c
भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे । 059a
स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा ॥ 059c
तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप्तवान् । 060a
अपिबच्च ततः सोममिन्द्रेण सह कौशिकः ॥ 060c
'एवंवीर्यस्तु राजर्षिर्विप्रर्षिः सम्बभूव ह' ॥ 061ac
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वमि एकनवत्यधिकशततमोऽध्यायः ॥ 191 ॥
1-191-5 मरुधन्वसु मरुसञ्ज्ञकेष्वल्पजलप्रदेशेषु ॥ 1-191-38 पह्लवादयो म्लेच्छविशेषाः ॥ एकनवत्यधिकशततमोऽध्यायः ॥ 191 ॥