अध्यायः 190
गन्धर्वेण वसिष्ठमाहात्म्यकथनपूर्वकं पाण्डवानां पुरोहितसङ्ग्रहणोपदेशः ॥ 1 ॥
वैशम्पायन उवाच 001
स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ । 001a
अर्जुनः परया भक्त्या पूर्णचन्द्र इवाबभौ ॥ 001c
उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः । 002a
जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् ॥ 002c
वसिष्ठ इति तस्यैतदृषेर्नाम त्वयेरितम् । 003a
एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे ॥ 003c
य एष गन्धर्वपते पूर्वेषां नः पुरोहितः । 004a
आसीदेतन्ममाचक्ष्व क एष भगवानृषिः ॥ 004c
गन्धर्व उवाच 005
ब्रह्मणो मानसः पुत्रो वसिष्ठोऽरुन्धतीपतिः । 005a
तपसा निर्जितौ शश्वदजेयावमरैरपि ॥ 005c
कामक्रोधावुभौ यस्य चरणौ समुवाहतुः । 006a
इन्द्रियाणां वशकरो वशिष्ठ इति चोच्यते ॥ 006c
'यथा कामश्च क्रोधश्च निर्जितावजितौ नरैः 007a
जितारयो जिता लोकाः पन्थानश्च जिता दिशः ॥' 007c
यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः । 008a
विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् ॥ 008c
पुत्रव्यसनसन्तप्तः शक्तिमानप्यशक्तवत् । 009a
विश्वामित्रविनाशाय न चक्रे कर्म दारुणम् ॥ 009c
मृतांश्च पुनराहर्तुं शक्तः पुत्रान्यमक्षयात् । 010a
कृतान्तं नातिचक्राम वेलामिव महोदधिः ॥ 010c
यं प्राप्य विजितात्मानं महात्मानं नराधिपाः । 011a
इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् ॥ 011c
पुरोहितमिमं प्राप्य वसिष्ठमृषिसत्तमम् । 012a
ईजिरे क्रतुभिश्चैव नृपास्ते कुरुनन्दन ॥ 012c
स हि तान्याजयामास सर्वान्नृपतिसत्तमान् । 013a
ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान् ॥ 013c
तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः । 014a
ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रतिदृश्यताम् ॥ 014c
क्षत्रियेणाभिजातेन पृथिवीं जेतुमिच्छता । 015a
पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये ॥ 015c
महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरस्कृतम् । 016a
तस्मात्पुरोहितः कश्चिद्गुणवान्विजितेन्द्रियः । 016c
विद्वान्भवतु वो विप्रो धर्मकामार्थतत्त्ववित् ॥ ॥ 016e
इति श्रीमन्महाभारते आदिपर्वमि चैत्ररथपर्वणि नवत्यधिकशततमोऽध्यायः ॥ 190 ॥
1-190-2 तपोबलात् तपोबलं श्रुत्वा ॥ 1-190-7 जितारयः जिता अस्य इति च्छेदः ॥ 1-190-8 अपराधेन पुत्रशतवधरूपेण ॥ नवत्यधिकशततमोऽध्यायः ॥ 190 ॥