अध्यायः 189

पुनरन्तर्हितायां तपत्यां मोहितस्य संवरणस्य समीपे अमात्यादीनामागमनम् ॥ 1 ॥ अमात्येनाश्वासितस्य राज्ञः सूर्योपासनसमये वसिष्ठस्यागमनम् ॥ 2 ॥ सूर्यसमीपं गत्वा वसिष्ठेनादित्यस्तुतिकरणम् ॥ 3 ॥ स्तुत्या तुष्टेन सूर्येण संवरणार्थं वसिष्ठाय तपतीदानम् ॥ 4 ॥ तस्मिन्नेव तपतीसंवरणयोर्विवाहः ॥ 5 ॥ तया सह तत्रैव रममाणस्य संवरणस्य राज्ये द्वादशवार्षिक्यनावृष्टिः ॥ 6 ॥ वसिष्ठेनानावृष्टिनिवर्तनम् ॥ 7 ॥ तपत्युपाख्यानोपसंहारः ॥ 8 ॥ गन्धर्व उवाच 001
एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता । 001a
'तपतीतपतीत्येव विललापातुरो नृपः ॥ 001c
प्रास्स्वलच्चासकृद्राजा पुनरुत्थाय धावति । 002a
धावमानस्तु तपतीमदृष्ट्वैव महीपतिः ।' 002c
स तु राजा पुनर्भूमौ तत्रैव निपपात ह ॥ 002e
अन्वेषमाणः सबलस्तं राजानं नृपोत्तमम् । 003a
अमात्यः सानुयात्रश्च तं ददर्श महावने ॥ 003c
क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् । 004a
त हि दृष्ट्वा महेष्वासं निरस्तं पतितं भुवि ॥ 004c
बभूव सोऽस्य सचिवः सम्प्रदीप्त इवाग्निना । 005a
त्वरया चोपसङ्गम्य स्नेहादागतसम्भ्रमः ॥ 005c
तं समुत्थापयामास नृपतिं काममोहितम् । 006a
भूतलाद्भूमिपालेशं पितेव पतितं सुतम् ॥ 006c
प्रज्ञया वयसा चैव वृद्धः कीर्त्या नयेन च । 007a
अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः ॥ 007c
उवाच चैनं कल्याण्या वाचा मधुरयोत्थिम् । 008a
मा भैर्मनुजशार्दूल भद्रमस्तु तवानघ ॥ 008c
क्षुत्पिपासापरिश्रान्तं तर्कयामास वै नृपम् । 009a
पतितं पातनं सङ्ख्ये शात्रवाणां महीतले ॥ 009c
वारिणा च सुशीतेन शिरस्तस्याभ्यषेचयत् । 010a
अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना ॥ 010c
ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः । 011a
सर्वं विसर्जयामास तमेकं सचिवं विना ॥ 011c
ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम् । 012a
स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् ॥ 012c
ततस्तस्मिन् गिरिवरे शुचिर्भूत्वा कृताञ्जलिः । 013a
आरिराधयिषुः सूर्यं तस्थावूर्ध्वमुखः क्षितौ ॥ 013c
जगाम मनसा चैव वसिष्ठमृषिसत्तमम् । 014a
पुरोहितममित्रघ्नं तदा संवरणो नृपः ॥ 014c
नक्तन्दिनमथैकत्र स्थिते तस्मिञ्जनाधिपे । 015a
अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि ॥ 015c
स विदित्वैव नृपतिं तपत्या हृतमानसम् । 016a
दिव्येन विधिना ज्ञात्वा भावितात्मा महानृपिः ॥ 016c
तथा तु नियतात्मानं तं नृपं मुनिसत्तमः । 017a
आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया ॥ 017c
स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः । 018a
ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः ॥ 018c
'योजनानां तु नियुतं क्षणाद्गत्वा तपोधनः ।' 019a
'सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः ।' 019c
वसिष्ठोहमिति प्रीत्या स चात्मानं न्यवेदयत् ॥ 019e
तमुवाच महातेजा विवस्वान्मुनिसत्तमम् । 020a
महर्षे स्वागतं तेऽस्तु कथयस्व यथेप्सितम् ॥ 020c
यदिच्छसि महाभाग मत्तः प्रवदतां वर । 021a
तत्ते दद्यामभिप्रेतं यद्यपि स्यात्सुदुर्लभम् ॥ 021c
एवमुक्तः स तेनर्षिर्वसिष्ठः संस्तुवन्गिरा । 022a
प्रणिपत्य विवस्वन्तं भानुमन्तमथाब्रवीत् ॥ 022c
'योजनानां चतुष्षष्टिं निमेषात्त्रिशतं तथा । 023a
अश्वैर्गच्छति नित्यं यस्तत्पार्श्वस्थोऽब्रवीदिदम् ॥ 023c
वसिष्ठ उवाच 024
अजाय लोकत्रयपावनाय भूतात्मने गोपतये वृषाय । 024a
सूर्याय सर्गप्रलयालयाय नमो महाकारुणिकोत्तमाय ॥ 024c
विवस्वते ज्ञानभृतेऽन्तरात्मने जगत्प्रदीपाय जगद्धितैषिणे । 025a
स्वयम्भुवे दीप्तसहस्रचक्षुषे सुरोत्तमायामिततेजसे नमः ॥ 025c
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे । 026a
त्रयीमयाय त्रिगुणात्मधारिणे विरिञ्चनारायणशङ्करात्मने ॥ 026c
सूर्य उवाच 027
संस्तुतो वरदः सोऽहं वरं वरय सुव्रत । 027a
स्तुतिस्त्वयोक्ता भक्तानां जप्येयं वरदोस्म्यहम्' ॥ 027c
वसिष्ठ उवाच 028
यैषा ते तपती नाम सावित्र्यवरजा सुता । 028a
तां त्वां संवरणस्यार्थे वरयामि विभावसो ॥ 028c
स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः । 029a
युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम ॥ 029c
गन्धर्व उवाच 030
इत्युक्तः स तदा तेन ददानीत्येव निश्चितः । 030a
प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः ॥ 030c
वरः संवरणो राज्ञां त्वमृषीणां वरो मुने । 031a
तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् ॥ 031c
ततः सर्वानवद्याङ्गीं तपतीं तपनः स्वयम् । 032a
ददौ संवरणस्यार्थे वसिष्ठाय महात्मने ॥ 032c
प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा । 033a
वसिष्ठोऽथ विसृष्टस्तु पुनरेवाजगाम ह ॥ 033c
यत्र विख्यातकीर्तिः स कुरूणामृषभोऽभवत् । 034a
स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना ॥ 034c
दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् । 035a
वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ ॥ 035c
रुरुचे साऽधिकं सुभ्रूरापतन्ती नभस्तलात् । 036a
सौदामनीव विभ्रष्टा द्योतयन्ती दिशस्त्विषा ॥ 036c
कृच्छ्राद्द्वादशरात्रे तु तस्य राज्ञः समाहिते । 037a
आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः ॥ 037c
तपसाऽऽराध्य वरदं देवं गोपतिमीश्वरम् । 038a
लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा ॥ 038c
ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते । 039a
जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः ॥ 039c
वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे । 040a
सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया ॥ 040c
ततः पुरे च राष्ट्रे च वनेषूपवनेषु च । 041a
आदिदेश महीपालस्तमेव सचिवं तदा ॥ 041c
नृपतिं त्वभ्यनुज्ञाप्य वसिष्ठोऽथापचक्रमे । 042a
सोऽथ राजा गिरौ तस्मिन्विजहारामरो यथा ॥ 042c
ततो द्वादशवर्षाणि काननेषु वनेषु च । 043a
रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया ॥ 043c
तस्य राज्ञः पुरे तस्मिन्समा द्वादश सत्तम । 044a
न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य भारत ॥ 044c
ततस्तस्यामनावृष्ट्यां प्रवृत्तायामरिन्दम । 045a
प्रजाः क्षयमुपाजग्मुः सर्वाः सस्थाणुजङ्गमाः ॥ 045c
तस्मिंस्तथाविधे काले वर्तमाने सुदारुणे । 046a
नावश्यायः पपातोर्व्यां ततः सस्यानि नाऽरुहन् ॥ 046c
ततो विभ्रान्तमनसो जनाः क्षुद्भयपीडिताः । 047a
गृहाणि सम्परित्यज्य बभ्रमुः प्रदिशो दिशः ॥ 047c
ततस्तस्मिन्पुरे राष्ट्रे त्यक्तदारपरिग्रहाः । 048a
परस्परममर्यादाः क्षुधार्ता जघ्निरे जनाः ॥ 048c
तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तथा नरैः । 049a
अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् ॥ 049c
ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः । 050a
अभ्याद्रवत धर्मात्मा वसिष्ठो मुनिसत्तमः ॥ 050c
तं च पार्थिवशार्दूलमानयामास तत्पुरम् । 051a
तपत्या सहितं राजन्वर्षे द्वादशमे गते । 051c
ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा ॥ 051e
तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः । 052a
प्रववर्ष सहस्राक्षः सस्यानि जनयन्प्रभुः ॥ 052c
ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा । 053a
तेन पार्थिवमुख्येन भावितं भावितात्मना ॥ 053c
ततो द्वादश वर्षाणि पुनरीजे नराधिपः । 054a
तपत्या सहितः पत्न्या यथा शच्या मरुत्पतिः ॥ 054c
गन्धर्व उवाच 055
एवमासीन्महाभागा तपती नाम पौर्विकी । 055a
तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः ॥ 055c
तस्यां सञ्जनयामास कुरुं संवरणो नृपः । 056a
तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन ॥ ॥ 056c

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि एकोननवत्यधिकशततमोऽध्यायः ॥ 189 ॥

1-189-10 मुकुटं तत्स्थानं ललाटम् ॥ 1-189-15 द्वादशमे द्वादशसङ्ख्यया मिते ॥ 1-189-16 दिव्येन विधिना योगबलेन ॥ एकोननवत्यधिकशततमोऽध्यायः ॥ 189 ॥