अध्यायः 187

सूर्यकन्यायाः तपत्या उपाख्यानम्–स्वभक्ताय संवरणाय स्वकन्यां दातुं सवितुर्निश्चयः ॥ 1 ॥ मृगयार्थं गतस्य संवरणस्य गिरौ तपतीदर्शनेन कामोत्पत्तिः ॥ 2 ॥ राजनि तया सह भाषितुं प्रवृत्ते तप्त्या अन्तर्धानम् ॥ 3 ॥ अर्जुन उवाच 001
तापत्य इति यद्वाक्यमुक्तवानसि मामिह । 001a
तदहं ज्ञातुमिच्छामि तापत्यार्थं विनिश्चितम् ॥ 001c
तपती नाम का चैषा तापत्या यत्कृते वयम् । 002a
कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम् ॥ 002c
वैशम्पायन उवाच 003
एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम् । 003a
विश्रुतं त्रिषु लोकेषु श्रावयामास वै कथाम् ॥ 003c
हन्त ते कथयिष्यामि कथामेतां मनोरमाम् । 004a
यथावदखिलां पार्थ सर्वबुद्धिमतां वर ॥ 004c
उक्तवानस्मि येन त्वां तापत्य इति यद्वचः । 005a
तत्तेऽहं कथयिष्यामि शृणुष्वैकमना भव ॥ 005c
य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा । 006a
एतस्य तपती नाम बभूव सदृशी सुता ॥ 006c
विवस्वतो वै देवस्य सावित्र्यवरजा विभो । 007a
विश्रुता त्रिषु लोकेषु तपती तपसा युता ॥ 007c
न देवी नासुरी चैव न यक्षी न च राक्षसी । 008a
नाप्सरा न च गन्धर्वी तथा रूपेण काचन ॥ 008c
सुविभक्तानवद्याङ्गी स्वसितायतलोचना । 009a
स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी ॥ 009c
त तस्याः सदृशं कञ्चित्त्रिषु लोकेषु भारत । 010a
भर्तारं सविता मेने रूपशीलगुणश्रुतैः ॥ 010c
सम्प्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् । 011a
'द्व्यष्टवर्षां तु तां श्यामां सविता रूपशालिनीम् ।' 011c
नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन् ॥ 011e
अथर्क्षपुत्रः कौन्तेय कुरूणामृषभो बली । 012a
सूर्यमाराधयामास नृपः संवरणस्तदा ॥ 012c
अर्घ्यमाल्योपहाराद्यैर्गन्धैश्च नियतः शुचिः । 013a
नियमैरुपवासैश्च तपोभिर्विविधैरपि ॥ 013c
सुश्रूषुरनहंवादी शुचिः पौरवनन्दन । 014a
अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् ॥ 014c
ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि । 015a
तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् ॥ 015c
दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् । 016a
नृपोत्तमाय कौरव्य विश्रुताभिजनाय च ॥ 016c
यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा । 017a
तथा भुवि महिपालो दीप्त्या संवरणोऽभवत् ॥ 017c
यथाऽर्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः । 018a
तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः ॥ 018c
स सोममति कान्तत्वादादित्यमति तेजसा । 019a
बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि ॥ 019c
एवङ्गुणस्य नृपतेस्तथावृत्तस्य कौरव । 020a
तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् ॥ 020c
स कदाचिदथो राजा श्रीमानमितविक्रमः । 021a
चचार मृगयां पार्थ पर्वतोपवने किल ॥ 021c
चरतो मृगयां तस्य क्षुत्पिपासासमन्वितः । 022a
ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः ॥ 022c
स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः । 023a
ददर्शासदृशीं लोके कन्यामायतलोचनाम् ॥ 023c
स एव एकामासाद्य कन्यां परबलार्दनः । 024a
तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः ॥ 024c
स हि तां तर्कयामास रूपतो नृपतिः श्रियम् । 025a
पुनः सन्तर्कयामास रवेर्भ्रष्टामिव प्रभाम् ॥ 025c
वपुषा वर्चसा चैव शिखामिव विभावसोः । 026a
प्रसन्नत्वेन कान्त्या च चन्द्ररेखामिवामलाम् ॥ 026c
गिरिपृष्ठे तु सा यस्मिन्स्थिता स्वसितलोचना । 027a
विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयी ॥ 027c
तस्या रूपेण स गिरिर्वेषेण च विशेषतः । 028a
ससवृक्षक्षुपलतो हिरण्मय इवाभवत् ॥ 028c
अवमेने च तां दृष्ट्वा सर्वलोकेषु योषितः । 029a
अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् ॥ 029c
जन्मप्रभृति यत्किचिन्द्दृष्टवान्स महीपतिः । 030a
रूपं न सदृशं तस्यास्तर्कयामास किञ्चन ॥ 030c
तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा । 031a
न चचाल ततो देशाद्बुबुधे न च किञ्चन ॥ 031c
अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् । 032a
लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् ॥ 032c
एवं सन्तर्कयामास रूपद्रविणसम्पदा । 033a
कन्यामसदृशीं लोके नृपः संवरणस्तदा ॥ 033c
तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः । 034a
जगाम मनसा चिन्तां कामबाणेन पीडितः ॥ 034c
दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना । 035a
अप्रगल्भां प्रगल्भस्तां तदोवाच मनोहराम् ॥ 035c
काऽसि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि । 036a
कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते ॥ 036c
त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता । 037a
विभूषणमिवैतेषां भूषणानामभीप्सितम् ॥ 037c
न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम् । 038a
न च भोगवतीं मन्ये न गन्धर्वीं न मानुषीम् ॥ 038c
या हि दृष्टा मया काश्चिच्छ्रुता वाऽपि वराङ्गनाः । 039a
न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि ॥ 039c
दृष्ट्वैव चारुवदने चन्द्रात्कान्ततरं तव । 040a
वदनं पद्मपत्राक्षं मां मथ्नातीव मन्मथः ॥ 040c
एवं तां स महीपालो बभाषे न तु सा तदा । 041a
कामार्तं निर्जनेऽरण्ये प्रत्यबाषथ किञ्चन ॥ 041c
ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा । 042a
सौदामिनीव चाभ्रेषु तत्रैवान्तरधीयत ॥ 042c
तामन्वेष्टुं स नृपतिः परिचक्राम सर्वतः । 043a
वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा ॥ 043c
अपश्यमानः स तु तां बहु तत्र विलप्य च । 044a
निश्चेष्टः पार्थिवश्रेष्ठो मुहूर्तं स व्यतिष्ठत ॥ ॥ 044c

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि सप्ताशीत्यधिकशततमोऽध्यायः ॥ 187 ॥

1-187-1 यत् यस्मात् तत् तस्मात् । तापत्यार्थं तापत्यशब्दार्थम् ॥ सप्ताशीत्यधिकशततमोऽध्यायः ॥ 187 ॥