अध्यायः 185

पाञ्चालनगरं गच्छतां पाण्डवानां मार्गे ब्राह्मणैः सह संवादः ॥ 1 ॥ वैशम्पायन उवाच 001
गते भगवति व्यासे पाण्डवा हृष्टमानसाः । 001a
'ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः ॥ 001c
ब्राह्मणान्गच्छतो पश्यन्पाञ्चालान्सगणान्पथि । 002a
अथ ते ब्राह्मणा ऊचुः पाण्डवान्ब्रह्मचारिणः ॥ 002c
क्व भवन्तो गमिष्यन्ति कुतो वाऽऽगच्छथेति ह । 003a
युधिष्ठिर उवाच 003
प्रयातानेकचक्रायाः सोदर्यान्देवदर्शिनः ॥ 003c
भवन्तो नोऽभिजानन्तु सहितान्ब्रह्मचारिणः । 004a
गच्छतो नस्तु पाञ्चालान्द्रुपदस्य पुरं प्रति ॥ 004c
इच्छामो भवतो ज्ञातुं परं कौतूहलं हि नः ॥ 005ac
ब्राह्मणा ऊचुः 006
एते सार्धं प्रयाताः स्मो वयमप्यत्र गामिनः । 006a
तत्राप्यद्भुतसङ्काश उत्सवो भविता महान् ॥ 006c
ततस्तु यज्ञसेनस्य द्रुपदस्य महात्मनः । 007a
यासावयोनिजा कन्या स्थास्यते सा स्वयंवरे ॥ 007c
दर्शनीयाऽनवद्याङ्गी सुकुमारी यशस्विनी । 008a
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥ 008c
जातो यः पावकाच्छूरः सशरः सशरासनः । 009a
सुसमिद्धान्महाभागः सोमकानां महारथः ॥ 009c
यस्मिन्सञ्जायमाने हि वागुवाचाशरीरिणी । 010a
एष मृत्युश्च शिष्यश्च भारद्वाजस्य जायते ॥ 010c
स्वसा तस्य तु वेद्याश्च जाता तस्मिन्महामखे । 011a
स्त्रीरत्नमसितापाङ्गी श्यामा नीलोत्पलद्युतिः ॥ 011c
तां यज्ञसेनस्य सुतां द्रौपदीं परमां स्त्रियम् । 012a
गच्छामस्तत्र वै द्रष्टुं तं चैवास्याः स्वयंवरम् ॥ 012c
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः । 013a
स्वाध्यायवन्तः शुचयो महात्मानो धृतव्रताः ॥ 013c
तरुणा दर्शनीयाश्च बलवन्तो दुरासदाः । 014a
महारथाः कृतास्त्राश्च समेष्यन्तीह भूमिपाः ॥ 014c
ते तत्र विविधं दानं विजयार्थं नरेश्वराः । 015a
प्रदास्यन्ति धनं गाश्च भक्ष्यभोज्यानि सर्वशः ॥ 015c
प्रतिलप्स्यामहे सर्वं दृष्ट्वा कृष्णां स्वयंवरे । 016a
यं च सा क्षत्रियं रङ्गे कुमारी वरयिष्यति ॥ 016c
तदा वैतालिकाश्चैव नर्तकाः सूतमागधाः । 017a
निबोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥ 017c
एतत्कौतूहलं तत्र दृष्ट्वा वै प्रतिगृह्य च । 018a
सहास्माभिर्महात्मानो मात्रा सह निवत्स्यथ ॥ 018c
दर्शनीयांश्च वः सर्वानेकरूपानवस्थितान् । 019a
समीक्ष्य कृष्मा वरयेत्सङ्गत्यान्यतमं पतिम् ॥ 019c
अयमेकश्च वो भ्राता दर्शनीयो महाभुजः । 020a
नियुध्यमानो विजयेत्सङ्गत्य द्रविणं महत् ॥ 020c
युधिष्ठिर उवाच 021
परमं भो गमिष्यामो द्रष्टुं तत्र स्वयंवरम् । 021a
द्रौपदीं यज्ञसेनस्य कन्यां तस्यास्तथोत्सवम् ॥' ॥ 021c

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः ॥ 185 ॥