अध्यायः 183
पाण्डवानां द्रुपदनगरप्रथानम् ॥ 1 ॥
वैशम्पायन उवाच 001
एतच्छ्रुत्वा ततः सर्वे पाण्डवा भरतर्षभ । 001a
मनसा द्रौपदीं जग्मुरनङ्गशरपीडिताः ॥' 001c
ततस्तां रजनीं राजञ्छल्यविद्धा इवाभवन् । 002a
सर्वे चास्वस्थमनसो बभूवुस्ते महाबलाः ॥ 002c
ततः कुन्ती सुतान्दृष्ट्वा सर्वांस्तद्गतचेतसः । 003a
युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी ॥ 003c
चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने । 004a
रममाणाः पुरे रम्ये लब्धभैक्षा महात्मनः ॥ 004c
यानीह रमणीयानि वनान्युपवनानि च । 005a
सर्वाणि तानि दृष्टानि पुनःपुनररिन्दम ॥ 005c
पुनर्दृष्टानि तानीह प्रीणयन्ति न नस्तथा । 006a
भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ॥ 006c
ते वयं साधु पञ्चालान्गच्छाम यदि मन्यसे । 007a
अपूर्वदर्शनं वीर रमणीयं भविष्यति ॥ 007c
सुभिक्षाश्चैव पञ्चालाः श्रूयन्ते शत्रुकर्शन । 008a
यज्ञसेनश्च राजाऽसौ ब्रह्मण्य इति सुश्रुम ॥ 008c
एकत्र चिरवासश्च क्षमो न च मतो मम । 009a
ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे ॥ 009c
युधिष्ठिर उवाच 010
भवत्या यन्मतं कार्यं तदस्माकं परं हितम् । 010a
अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः ॥ 010c
वैशम्पायन उवाच 011
ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा । 011a
उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा ॥ 011c
तत आमन्त्र्य तं विप्रं कुन्ती राजसुतैः सह । 012a
प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः ॥ ॥ 012c
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि त्र्यशीत्यधिकशततमोऽध्यायः ॥ 183 ॥