अध्यायः 180

धृष्टद्युम्नाद्युत्पत्तिकथनार्थं द्रोणद्रुपदयोरुत्पत्तिकथनपूर्वकं द्रुपदवृत्तान्तकथनम् ॥ 1 ॥ ब्राह्मण उवाच 001
गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः । 001a
भरद्वाजो महाप्राज्ञः सततं संशितव्रतः ॥ 001c
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् । 002a
ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ॥ 002c
तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा । 003a
अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे तदा ॥ 003c
तस्यां संसक्तमनसः कौमारब्रह्मचारिणः । 004a
चिरस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥ 004c
ततः समभवद्द्रोणः कुमारस्तस्य धीमतः । 005a
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥ 005c
भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः । 006a
तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥ 006c
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः 007a
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥ 007c
ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् । 008a
द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥ 008c
वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् । 009a
आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम ॥ 009c
राम उवाच 010
शरीरमात्रमेवाद्य मया समवशेषितम् । 010a
अस्त्राणि वा शरीरं वा ब्रह्मन्नेकतमं वृणु ॥ 010c
द्रोण उवाच 011
अस्त्राणि चैव सर्वाणि तेषां संहारमेव च । 011a
प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ॥ 011c
ब्राह्मण उवाच 012
तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः । 012a
प्रतिगृह्य तदा द्रोणः कृतकृत्योऽभवत्तदा ॥ 012c
सम्प्रहृष्टमना द्रोणो रामात्परमसम्मतम् । 013a
ब्रह्मास्त्रं समनुज्ञाप्य नरेष्वभ्यधिकोऽभवत् ॥ 013c
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । 014a
अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ॥ 014c
द्रुपद उवाच 015
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । 015a
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥ 015c
ब्राह्मण उवाच 016
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् । 016a
जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥ 016c
तस्मै पौत्रान्समादाय वसूनि विविधानि च । 017a
प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ॥ 017c
द्रोणः शिष्यांस्ततः पार्थानिदं वचनमब्रवीत् । 018a
समानीय तु ताञ्शिष्यान्द्रुपदस्यासुखाय वै ॥ 018c
आचार्यवेतनं किञ्चिद्धृदि यद्वर्तते मम । 019a
कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः । 019c
सोऽर्जुनप्रमुखैरुक्तस्तथाऽस्त्विति गुरुस्तदा ॥ 019e
यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्चयाः । 020a
ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ॥ 020c
पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः । 021a
तस्मादाकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ॥ 021c
'धार्तराष्ट्राश्च ते भीताः पाञ्चालान्पाण्डवादयः । 022a
धार्तराष्ट्रैश्च सहिताः पुनर्द्रोणेन चोदिताः ॥ 022c
यज्ञसेनेन सङ्गम्य कर्णदुर्योधनादयः । 023a
निर्जिताः सन्न्यवर्तन्त तथा ते क्षत्रियर्षभाः ॥' 023c
ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि । 024a
द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ॥ 024c
'महेन्द्र इव दुर्धर्षो महेन्द्र इव दानवम् । 025a
महेन्द्रपुत्रः पाञ्चालं जितवानर्जुनस्तदा ॥ 025c
तद्दृष्ट्वा तु महावीर्यं फल्गुनस्य महौजसः । 026a
व्यस्मयन्त जनाः सर्वे यज्ञसेनस्य बान्धवाः । 026c
द्रोण उवाच 027
प्रार्थयामि त्वया सख्यं पुनरेव नराधिप । 027a
अराजा किल नो राज्ञः सखा भवितुमर्हति ॥ 027c
अतः प्रयतितं राज्ये यज्ञसेन त्वया सह । 028a
राजाऽसि दक्षिणे कूले भागीरथ्याहमुत्तरे ॥ 028c
ब्राह्मण उवाच 029
एवमुक्तो हि पाञ्चाल्यो भारद्वाजेन धीमता । 029a
उवाचास्त्रविदां श्रेष्ठं द्रोणं ब्राह्मणसत्तमम् ॥ 029c
एवं भवतु भद्रं ते भारद्वाज महामते । 030a
सख्यं तदेव भवतु शश्वद्यदभिमन्यसे ॥ 030c
एवमन्योन्यमुक्त्वा तौ कृत्वा सख्यमनुत्तमम् । 031a
जग्मतुर्द्रोणपाञ्चाल्यौ यथागतमरिन्दमौ ॥ 031c
असत्कारः स तु महान्मुहूर्तमपि तस्य तु । 032a
नापैति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ॥ ॥ 032c

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि अशीत्यधिकशततमोऽध्यायः ॥ 180 ॥

1-180-10 एकतममेकतरम् ॥ 1-180-13 समनुज्ञप्य निशम्य । प्राप्येत्यपि पठन्ति ॥ 1-180-21 छत्रवत्यामहिच्छत्रे ॥ 1-180-28 भागीरथ्याहमिति सन्धिरार्षः ॥ अशीत्यधिकशततमोऽध्यायः ॥ 180 ॥