अध्यायः 179
(अथ चैत्ररथपर्व ॥ 11 ॥)
ब्राह्मणगृहे प्रतिश्रयार्थमागतस्य कस्यचिद्ब्राह्मणस्य मुखात् पाण्डवानां द्रौपदीस्वयंवरश्रवणम् ॥ 1 ॥ पाण्डवकृतधृष्टद्युन्नद्रौपदीसम्भवप्रश्नस्य ब्राह्मणेनोत्तरकथनम् ॥ 2 ॥
जनमेजय उवाच 001
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् । 001a
अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥ 001c
वैशम्पायन उवाच 002
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् । 002a
अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥ 002c
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः । 003a
प्रतिश्रयार्थी तद्वेश्म ब्राह्मणस्याजगाम ह ॥ 003c
स म्यक् पूजयित्वा तं विप्रं विप्रर्षभस्तदा । 004a
ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रतः ॥ 004c
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः । 005a
उपासाञ्चक्रिरे विप्रं कथयन्तं कथाः शुभाः ॥ 005c
कथयामास देशांश्च तीर्थानि सरितस्तथा । 006a
राज्ञश्च विविधाश्चर्यान्देशांश्चैव पुराणि च ॥ 006c
स तत्राकथयद्विप्रः कथान्ते जनमेजय । 007a
पञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥ 007c
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः । 008a
अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥ 008c
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः । 009a
विस्तरेणैव पप्रच्छुः कथां ते पुरुषर्षभाः ॥ 009c
पाण्डवा ऊचुः 010
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् । 010a
वेदीमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः ॥ 010c
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत । 011a
'धृष्टद्युम्नो महेष्वासः कथं द्रोणस्य मृत्युदः ।' 011c
कथं विप्र सखायौ तौ भिन्नौ कस्य कृतेन वा ॥ 011e
वैशम्पायन उवाच 012
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः । 012a
कथयामास तत्सर्वं द्रौपदीसम्भवं तदा ॥ 012c
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि ऊनाशीत्यधिकशततमोऽध्यायः ॥ 179 ॥
1-179-7 याज्ञसेन्याः द्रौपद्याः ॥ 7 ॥ ऊनाशीत्यधिकशततमोऽध्यायः ॥ 179 ॥