अध्यायः 178

बकवधानन्तरं समागतानां तत्परिवाराणां भीमेन समयकरणम् ॥ 1 ॥ नगरद्वारदेशे बकशरीरं निधाय ब्राह्मणगृहमागत्य भीमेन कुन्त्यादीन्प्रति बकवृत्तान्तकथनम् ॥ 2 ॥ मृतबकदर्शार्थं पौराणां गमनम् ॥ 3 ॥ ब्रह्ममहोत्सवकरणम् ॥ 4 ॥ बकवधेन पौराणां भीमसेवनम् ॥ 5 ॥ वैशम्पायन उवाच । 001
ततः स भग्नपार्श्वाङ्गो नदित्वा भैरवं रवम् । 001a
शैलराजप्रतीकाशो गतासुरभवद्बकः ॥ 001c
तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः । 002a
निष्पपात गृहाद्राजन्सहैव परिचारिभिः ॥ 002c
'बकानुजस्तदा राजन्भीमं शरणमेयिवान् । 003a
ततस्तु निहतं दृष्ट्वा राक्षसेन्द्रं महाबलम् । 003c
राक्षसाः परमत्रस्ता भीमं शऱणमाययुः ॥' 003e
तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः । 004a
सान्त्वयामास बलवान्समये च न्यवेशयत् ॥ 004c
न हिंस्या मानुषा भूयो युष्माभिरिति कर्हिचित् । 005a
हिंसतां हि वधः शीघ्रमेवमेव भवेदिति ॥ 005c
तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत । 006a
एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् ॥ 006c
'सगणस्तु बकभ्राता प्राणमत्पाण्डवं तदा । 007a
'ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत । 007c
नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः ॥ 007e
ततो भीमस्तमादाय गतासुं पुरुषादकम् । 008a
'निष्कर्णनेत्रं निर्जिह्वं निःसञ्ज्ञं कण्ठपीडनात् । 008c
कुर्वन्बहुविधां चेष्टां पुरद्वारमकर्षत ॥ 008e
द्वारदेशे विनिक्षिप्य पुरमागात्स मारुतिः । 009a
स एव राक्षसो नूनं पुनरायाति नः पुरीम् ॥ 009c
सबालवृद्धाः पुरुषा इति भीताः प्रदुद्रुवुः । 010a
ततो भीमो बकं हत्वा गत्वा ब्राह्मणवेश्म तत् ॥ 010c
बलीवर्दौ च शकटं ब्राह्मणाय न्यवेदयत् । 011a
तूष्णीमन्तर्गृहं गच्छेत्यभिधाय द्विजोत्तमम् ॥ 011c
मातृभ्रातृसमक्षं च गत्वा शयनमेव च । 012a
आचचक्षेऽथ तत्सर्वं रात्रौ युद्धमभूद्यथा ॥' 012c
ततो नरा विनिष्क्रान्ता नगरात्कल्यमेव तु । 013a
ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ॥ 013c
तमद्रिकूटसदृशं विनिकीर्णं भयानकम् । 014a
दृष्ट्वा संहृष्टरोमाणो बभूवुस्तत्र नागराः ॥ 014c
एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः पुरे । 015a
ततः सहस्रशो राजन्नरा नगरवासिनः ॥ 015c
तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः । 016a
ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वाऽतिमानुषम् । 016c
दैवतान्यर्चयाञ्चक्रुः प्रार्थितानि पुरा भयात् ॥ 016e
ततः प्रगणयामासुः कस्य वारोऽद्य भोजने । 017a
ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव ते ॥ 017c
एवं पृष्टः स बहुशो रक्षमाणश्च पाण्डवान् । 018a
उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा ॥ 018c
ब्राह्मण उवाच 019
आज्ञापितं मामशने रुदन्तं सह बन्धुभिः । 019a
ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महामनाः ॥ 019c
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च । 020a
अब्रवीद्ब्राह्मणश्रेष्ठो विश्वास्य प्रहसन्निव ॥ 020c
प्रापयिष्याम्यहं तस्मा अन्नमेतद्दुरात्मने । 021a
मन्निमित्तं भयं चापि न कार्यमिति चाब्रवीत् ॥ 021c
स तदन्नमुपादाय गतो बकवनं प्रति । 022a
तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् ॥ 022c
ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः । 023a
वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ॥ 023c
ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति । 024a
तमद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् ॥ 024c
वेत्रकीयगृहे सर्वे परिवार्य वृकोदरम् । 025a
विस्मयादभ्यगच्छन्त भीमं भीमपराक्रमम् ॥ 025c
न वै न सम्भवेत्सर्वं ब्राह्मणेषु महात्मसु । 026a
इति सत्कृत्य तं पौराः परिवव्रुः समन्ततः ॥ 026c
अयं त्राता हि खेदानां पितेव परमार्थतः । 027a
अस्य शुश्रूषवः पादौ परिचर्य उपास्महे ॥ 027c
पशुमद्दधिमनच्चास्य वारं भक्तमुपाहरन् । 028a
तस्मिन्हते ते पुरुषा भीताः समनुबोधनाः ॥ 028c
ततः सम्प्राद्रवन्पार्थाः सह मात्रा परन्तपाः । 029a
आगच्छन्नेकचक्रां ते गाण्डवाः संशितव्रताः ॥ 029c
वैदिकाध्ययने युक्ता जटिला ब्रह्मचारिणः । 030a
अवसंस्ते च तत्रापि ब्राह्मणस्य निवेशने । 030c
मात्रर सहैकचक्रायां दीर्घकालं सहोषिताः ॥ 030e

इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः ॥ 178 ॥ ॥ समाप्तं च बकवधपर्व ॥

1-178-13 कल्यं प्रातःकाले ॥ 1-178-19 आज्ञापितं राजकीयैरिति शेषः । अशने राक्षसस्य भोजनार्थम् ॥ अष्टसप्तत्यधिकशततमोऽध्यायः ॥ 178 ॥