अध्यायः 175
कुन्त्या बकं प्रति स्वपुत्रप्रेषणवचनम् ॥ 1 ॥
कुन्त्युवाच 001
न विषादस्त्वया कार्यो भयादस्मात्कथञ्चन । 001a
उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः ॥ 001c
'नैव स्वयं सपुत्रस्य गमनं तत्र रोचये ।' 002a
एकस्तव सुतो बालः कन्या चैका तपस्विनी । 002c
न चैतयोस्तथा पत्न्या गमनं तव रोचये ॥ 002e
मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति । 003a
त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ॥ 003c
ब्राह्मण उवाच 004
नाहमेतत्करिष्यामि जीवितार्थी कथञ्चन । 004a
ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणान्वियोजयन् ॥ 004c
न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते । 005a
यद्ब्राह्मणार्थं विसृजेदात्मानमपि चात्मजम् ॥ 005c
आत्मनस्तु वधः श्रेयो बोद्धव्यमिति रोचते । 006a
ब्रह्मवध्याऽऽत्मवध्या वा श्रेयानात्मवधो मम ॥ 006c
ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते । 007a
बुद्धिपूर्वं कृत्वापि प्रत्यवायो हि विद्यते ॥ 007c
न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे । 008a
परैः कृते वधे पापं न किञ्चिन्मयि विद्यते ॥ 008c
अभिसन्धौ कृते तस्मिन्ब्राह्मणस्य वधे मया । 009a
निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च ॥ 009c
आगतस्य गृहं त्यागस्तथैव शरणार्थिनः । 010a
याचमानस्य च वधो नृशंसो गर्हितो बुधैः ॥ 010c
कुर्यान्न निन्दितं कर्म न नृशंसं कथञ्चन । 011a
इति पूर्वे महात्मान आपद्धर्मविदो विदुः ॥ 011c
श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् । 012a
ब्राह्मणस्य वधं नाहमनुमंस्ये कदाचन ॥ 012c
कुन्त्युवाच 013
ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा । 013a
न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ॥ 013c
न चासौ राक्षसः शक्तो मम पुत्रविनाशने । 014a
वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम ॥ 014c
राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् । 015a
मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः ॥ 015c
समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः । 016a
बलवन्तो महाकाया निहताश्चाप्यनेकशः ॥ 016c
न त्विदं केषुचिद्ब्रह्मान्व्याहर्तव्यं कथञ्चन । 017a
विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् ॥ 017c
गुरुणा चाननुज्ञातो ग्राहयेद्यः सुतो मम । 018a
न स कुर्यात्तथा कार्यं विद्ययेति सतां मतम् ॥ 018c
वैशम्पायन उवाच 019
एवमुक्तस्तु पृथया स विप्रो भार्यया सह । 019a
हृष्टः सम्पूजयामास तद्वाक्यममृतोपमम् ॥ 019c
ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् । 020a
तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ ॥ ॥ 020c
इति श्रीमन्महाभारते आदिपर्वणि पञ्चसप्तत्यधिकशततमोऽध्यायः ॥ 175 ॥
1-175-9 अभिसन्धौ अभिप्राये ॥ 1-175-17 विप्रकुर्युर्बाधेरन् ॥ पञ्चसप्तत्यधिकशततमोऽध्यायः ॥ 175 ॥