अध्यायः 174

कुन्त्या रोदनकारणप्रश्ने ब्राह्मणेन बकवृत्तान्तकथनम् ॥ 1 ॥ कुन्त्युवाच 001
कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः । 001a
विदित्वाप्यपकर्षेयं शक्यं चेदपकर्षितुम् ॥ 001c
ब्राह्मण उवाच 002
उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने । 002a
न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥ 002c
'तथापि तत्त्वमाख्यास्ये दुःखस्यैतस्य सम्भवम् । 003a
शक्यं वा यदि वाऽशक्यं शृणु भद्रे यथातथम् ॥ 003c
समीपे नगरस्यास्य बको वसति राक्षसः । 004a
इतो गव्यूतिमात्रेऽस्ति यमुनागह्वरे गुहा ॥ 004c
तस्यां घोरः स वसति जिघांसुः पुरुषादकः । 005a
बकाभिधानो दुष्टात्मा राक्षसानां कुलाधमः ॥ 005c
ईशो जनपदस्यास्य पुरस्य च महाबलः । 006a
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः ॥ 006c
प्रबलः कामरूपी च राक्षसस्तु महाबलः । 007a
तेनोपसृष्टा नगरी वर्षमद्य त्रयोदशम् ॥ 007c
तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् । 008a
पुरुषादेन रौद्रेण भक्ष्यमाणा दुरात्मना ॥ 008c
अनाथा नगरी नाथं त्रातारं नाधिगच्छति । 009a
गुहायां च वसंस्तत्र बाधते सततं जनम् ॥ 009c
स्त्रियो बालांश्च वृद्धांश्च यूनश्चापि दुरात्मवान् । 010a
अत्र मन्त्रैश्च होमैश्च भोजनैश्च स राक्षसः ॥ 010c
ईडितो द्विजमुख्यैश्च पूजितश्च दुरात्मवान् । 011a
यदा च सकलानेवं प्रसूदयति राक्षसः ॥ 011c
अथैनं ब्राह्मणाः सर्वे समये समयोजयन् । 012a
मा स्म कामाद्वधी रक्षो दास्यामस्ते सदा वयम्॥ 012c
पर्यायेण यथाकाममिह मांसोदनं प्रभो । 013a
अन्नं मांससमायुक्तं तिलचूर्णसमन्वितम् ॥ 013c
सर्पिषा च समायुक्तं व्यञ्जनैश्च समन्वितम् । 014a
सूपांस्त्रीन्सतिलान्पिण्डाल्ँलाजापूपसुरासवान् ॥ 014c
शृताशृतान्पानकुम्भान्स्थूलमांसं शृताशृतम् । 015a
वनमाहिषवाराहभाल्लूकं च शृताशृतम् ॥ 015c
सर्पिःकुम्भांश्च विविधान्दधिकुम्भांस्तथा बहून् । 016a
सद्यःसिद्धसमायुक्तं तिलचूर्णैः समाकुलम् ॥ 016c
कुलाच्च पुरुषं चैकं बलीवर्दौ च कालकौ । 017a
प्राप्स्यसि त्वमसङ्क्रुद्धो रक्षोभागं प्रकल्पितम् ॥ 017c
तिष्ठेह समयेऽस्माकमित्ययाचन्त तं द्विजाः । 018a
बाढमित्येव तद्रक्षस्तद्वचः प्रत्यगृह्णत ॥ 018c
परचक्राटवीकेभ्यो रक्षणं स करोति च । 019a
तस्मिन्भागे सुनिर्दिष्टे स्थितः स समये बली ॥ 019c
एकैकं चैव पुरुषं सम्प्रयच्छन्ति वेतनम् । 020a
स वारो बहुभिर्वर्षैर्भवत्यसुकरो नरैः ॥ 020c
तद्विमोक्षाय ये केचिद्यतन्ते पुरुषाः क्वचित् । 021a
सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ॥' 021c
वेत्रकीयगृहे राजा नायं नयमिहास्थितः । 022a
उपायं तं न कुरुते यत्नादपि स मन्दधीः । 022c
अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥ 022e
एतदर्हा वचं नूनं वसामो दुर्बलस्य ये । 023a
विषये नित्यवास्तव्याः कुराजानमुपाश्रिताः ॥ 023c
ब्राह्मणाः कस्य वक्तव्याः कस्य वाच्छन्दचारिणः । 024a
गुणैरेते हि वत्स्यन्ति कामगाः पक्षिणो यथा ॥ 024c
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । 025a
'राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम् । 025c
वयस्य सञ्चयेनास्य ज्ञातीन्पुत्रांश्च तारयेत् ॥ 025e
विपीरतं मया चेदं त्रयं सर्वमुपार्जितम् । 026a
तदिमामापदं प्राप्य भृशं तप्यामहे वयम् ॥ 026c
सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः । 027a
भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ॥ 027c
न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्वचित् । 028a
सुहृज्जनं प्रदातुं च न शक्ष्यामि कदाचन ॥ 028c
गतिं चान्यां न पश्यामि तस्मान्मोक्षाय रक्षसः । 029a
सोऽहं दुःखार्णवे मग्नो महत्यसुकरे भृशम् ॥ 029c
सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् । 030a
ततो नः सहितान्क्षुद्रः सर्वानेवोपभोक्ष्यति ॥ 030c
'दुःखमूलमिदं भद्रे मयोक्तं प्रश्नतोऽनघे ॥' ॥ 031ac

इति श्रीमन्महाभारते आदिप्रवणि बकवधपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः ॥ 174 ॥

1-174-22 वेत्रकीयगृहे स्थानविशेषे । इतोऽदूरे राजास्त्ययमिह नगरे नयं न आस्थितः । अस्य नगरस्यावेक्षां न करोतीत्यर्थः । स्वयं राक्षसं हन्तुमशक्तत्वात् । नायं नायमिहास्थित इति खपुस्तकपाठः । नायं नायं बलिं पुनः पुनः प्रापय्येत्यर्थः । उपायमप्यन्यद्वारा न कुरुते यतो मन्दधीः ॥ 1-174-23 एतदर्हाः एतस्य दुःखस्य योग्याः ॥ चतुःसप्तत्यधिकशततमोऽध्यायः ॥ 174 ॥