अध्यायः 172
ब्राह्मणंं प्रति तत्पत्नीवाक्यम् ॥ 1 ॥
ब्राह्मण्युवाच 001
न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् । 001a
न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते ॥ 001c
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः । 002a
अवश्यभाविन्यर्थे वै सन्तापो नेह विद्यते ॥ 002c
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते । 003a
व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र च ॥ 003c
एतद्धि परमं नार्याः कार्यं लोके सनातनम् । 004a
प्राणानपि परित्यज्य यद्भर्तुर्हितमाचरेत् ॥ 004c
तच्च तत्र कृतं कर्म तवापीदं सुखावहम् । 005a
भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ॥ 005c
एष चैव गुरुर्धर्मो यं प्रवक्ष्याम्यहं तव । 006a
अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते ॥ 006c
यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि । 007a
कन्या चैका कुमारश्च कृताहमनृणा त्वया ॥ 007c
समर्थः पोषणे चासि सुतयो रक्षणे तथा । 008a
न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे ॥ 008c
मम हि त्वद्विहीनायाः सर्वप्राणधनेश्वर । 009a
कथं स्यातां सुतौ बालौ भरेयं च कथं त्वहम् ॥ 009c
कथं हि विधवाऽनाथा बालपुत्रा विना त्वया । 010a
मिथुनं जीवयिष्यामि स्थिता साधुगते पथि ॥ 010c
अहं कृतावलेपैश्च प्रार्थ्यमानामिमां सुताम् । 011a
अयुक्तैस्तव सम्बन्धे कथं शक्ष्यामि रक्षितुम् ॥ 011c
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः । 012a
प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम् ॥ 012c
साऽहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः । 013a
स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ॥ 013c
'स्त्रीजन्म गर्हितं नाथ लोके दुष्टजनाकुले । 014a
मातापित्रोर्वशे कन्या प्रौढा भर्तृवशे तथा ॥ 014c
अभावे चानयोः पुत्रे स्वतन्त्रा स्त्री विगर्हिता ॥ 015ac
अनाथत्वं स्त्रियो द्वारं दुष्टानां विवृतं हि तत् । 016a
वस्त्रखण्डं घृताक्तं हि यथा सङ्कृष्यते श्वभिः ॥' 016c
कथं तव कुलस्यैकमिमं बालमनागसम् । 017a
पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ॥ 017c
कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्सितान् । 018a
अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ॥ 018c
इमामपि च ते बालामनाथां परिभूय माम् । 019a
अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ॥ 019c
तां चेदहं न दित्सेयं सद्गुणैरुपबृंहिताम् । 020a
प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ॥ 020c
सम्प्रेक्षमाणा पुत्रीं ते नानुरूपमिवात्मनः । 021a
अनर्हवशमापन्नामिमां चापि सुतां तव ॥ 021c
अवज्ञाता च लोकेषु तथात्मानमजानती । 022a
अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः ॥ 022c
तौ च हीनौ मया बालौ त्वया चैव तथात्मजौ । 023a
विनश्येतां न सन्देहो मत्स्याविव जलक्षये ॥ 023c
त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् । 024a
त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ॥ 024c
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः । 025a
ननु ब्रह्मन्सपुत्राणामिति धर्मविदो विदुः ॥ 025c
'अनिष्टमिह पुत्राणां विषये परिवर्तितुम् । 026a
हरिद्राञ्जनपुष्पादिसौमङ्गल्ययुता सती ॥ 026c
मरणं याति या भर्तुस्तद्दत्तजलपायिनी । 027a
भर्तृपादार्पितमनाः सा याति गिरिजापदम् ॥ 027c
गिराजायाः सखी भूत्वा मोदते नगकन्यया । 028a
मितं ददाति हि पिता मितं माता मितं सुतः ॥ 028c
अमितस्य हि दातारं का पतिं नाभिनन्दति । 029a
आश्रमाश्चाग्निसंस्कारा जपहोमव्रतानि च ॥ 029c
स्त्रीणां नैते विधातव्या विना पतिमनिन्दितम् । 030a
क्षमा शौचमनाहारमेतावद्विहितं स्त्रियाः ॥' 030c
परित्यक्तः सुतश्चायं दुहितेयं तथा मया । 031a
बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ॥ 031c
यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा । 032a
विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः ॥ 032c
तदिदं यच्चिकीर्षामि धर्मं परमसम्मतम् । 033a
इष्टं चैव हितं चैव तव चैव कुलस्य च ॥ 033c
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः । 034a
आपद्धर्मप्रमोक्षाय भार्या चापि सतां मतम् ॥ 034c
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि । 035a
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ 035c
दृष्टादृष्टफलार्थं हि भार्या पुत्रो धनं गृहम् । 036a
सर्वमेतद्विधातव्यं बुधानामेष निश्चयः ॥ 036c
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः । 037a
'उभयोः कोधिको विद्वन्नात्मा चैवाधिकः कुलात् ॥ 037c
आत्मनो विद्यमानत्वाद्भुवनानि चतुर्दश । 038a
विद्यन्ते द्विजशार्दूल आत्मा रक्ष्यस्ततस्त्वया ॥ 038c
आत्मन्यविद्यमाने चेदस्य नास्तीह किञ्चन । 039a
एतज्जगदिदं सर्वमात्मना न समं किल ॥' 039c
स कुरुष्व मया कार्यं तारयात्मानमात्मना । 040a
अनुजानीहि मामार्य सुतौ मे परिपालय ॥ 040c
अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये । 041a
धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि ॥ 041c
निःसंशयं वधः पुंसां स्त्रीणां संशयितो वधः । 042a
अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि ॥ 042c
भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया । 043a
'त्वच्छुश्रूषणसम्भूता कीर्तिश्चाप्यतुला मम ।' 043c
त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितं ॥ 043e
जातपुत्रा च वृद्धा च प्रियकामा च ते सदा । 044a
समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः ॥ 044c
उत्सृज्यापि हि मामार्य प्राप्स्यस्यन्यामपि स्त्रियम् । 045a
ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव ॥ 045c
न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् । 046a
स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ॥ 046c
एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् । 047a
आत्मानं तारयाद्याशु कुलं चेमौ च दारकौ ॥ 047c
वैशम्पायन उवाच 048
एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत । 048a
मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ॥ 048c
'मैवं वद त्वं कल्याणि तिष्ठ चेह सुमध्यमे । 049a
न तु भार्यां त्यजेत्प्राज्ञः पुत्रान्वापि कदाचन ॥ 049c
विशेषतः स्त्रियं रक्षेत्पुरुषो बुद्धिमानिह । 050a
त्यक्त्वा तु पुरुषो जीवेन्न हातव्यानिमान्सदा । 050c
न वेत्ति कामं धर्मं च अर्थं मोक्षं च तत्त्वतः ॥' ॥ 050e
इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः ॥ 172 ॥
1-172-1 वैद्यस्य विद्यावनः ॥ 1-172-25 परा व्युष्टिर्महद्भाग्यम् ॥ 1-172-43 त्वत् त्वत्तः प्रसूतिः सन्ततिः । अजीवितम् मरणम्॥ द्विसप्तत्यधिकशततमोऽध्यायः ॥ 172 ॥