अध्यायः 171
(अथ बकवधपर्व ॥ 10 ॥)
एकचक्रायां भिक्षामटतः पाण्डवान्दृष्ट्वा पौराणां वितर्कः ॥ 1 ॥ कुम्भकाराद्भीमस्य महत्तरपात्रलाभः ॥ 2 ॥ सभार्यस्य तद्गृहस्वामिनो ब्राह्मणस्य क्रन्दितं श्रुतवत्याः कुन्त्याः भीमानुमत्या ब्राह्मणान्तर्गृहप्रवेशः ॥ 3 ॥ ब्राह्मणप्रलापः ॥ 4 ॥
जनमेजय उवाच 001
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । 001a
अत ऊर्ध्वं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥ 001c
वैशम्पायन उवाच 002
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । 002a
ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥ 002c
रमणीयानि पश्यन्तो वनानि विविधानि च । 003a
पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ॥ 003c
चेरुर्भैक्षंं तदा ते तु सर्व एव विशाम्पते । 004a
'युधिष्ठिरं च कुन्तीं च चिन्तयन्त उपासते ॥ 004c
भैक्षं चरन्तस्तु तदा जटिला ब्रह्मचारिणः । 005a
बभूवुर्नागराणां च गुणैः सम्प्रियदर्शनाः ॥ 005c
नागरा ऊचुः 006
दर्शनीया द्विजाः शुभ्रा देवगर्भोपमाः शुभाः । 006a
भैक्षानर्हाश्च राज्यार्हाः सुकुमारास्तपस्विनः ॥ 006c
नैते यथार्थतो विप्राः सुकुमारास्तपस्विनः । 007a
चरन्ति भूमौ प्रच्छन्नाः कस्माच्चित्कारणादिह ॥ 007c
सर्वलक्षणसम्पन्ना भैक्षं नार्हन्ति नित्यशः । 008a
कार्यार्थिनश्चरन्तीति तर्कयन्त इति ब्रुवन् ॥ 008c
बन्धूनामागमान्नित्यमुपचारैस्तु नागराः । 009a
भाजनानि च पूर्णानि भक्ष्यभोज्यैरकारयन् ॥ 009c
मौनव्रतेन संयुक्ता भैक्षं गृह्णन्ति पाण्डवाः । 010a
माता चिरगतान्ज्ञात्वा शोचन्ती पाण्डवान्प्रति ॥ 010c
दुःखाश्रुपूर्णनयना लिखन्त्यास्ते महीतलम् । 011a
भिक्षित्वा द्विजगेहेषु चिन्तयन्तश्च मातरम् ॥ 011c
त्वरमाणा निवर्तन्ते मातृगौरवयन्त्रिताः । 012a
मात्रे निवेदयन्ति स्म कुन्त्यै भैक्षं दिवानिशम् ॥ 012c
सर्वं सम्पूर्णभैक्षान्नं मातृदत्तं पृथक्पृथक् । 013a
विभज्याभुञ्जतेष्टं ते यथाभागं पृथक्पृथक् ॥ 013c
अर्धं स्म भुञ्जते पञ्च सह मात्रा परन्तपाः । 014a
अर्धं सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाबलः ॥ 014c
स नाशितश्च भवति कल्याणान्नभुजिः पुरा । 015a
स वैवर्ण्यं च कार्श्यं च जगामातृप्तिकारितम् ॥ 015c
आज्यबिन्दुर्यथा वह्नौ महति ज्वलिते भवेत् । 016a
तथार्धभागं भीमस्य भिक्षान्नस्य नरोत्तम ॥ 016c
तथैव वसतां तत्र तेषां राजन्महात्मनाम् । 017a
अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥ 017c
भीमोऽपि क्रीडयित्वाथ मिथो ब्राह्मणबन्धुषु । 018a
कुम्भकारेण सम्बन्धाल्लेभे पात्रं महत्तरम् ॥ 018c
कुम्भकारोऽददात्पात्रं महत्कृत्वातिमात्रकम् । 019a
प्रहसन्भीमसेनाय विस्मितस्तस्य कर्मणा ॥ 019c
तस्याद्भुतं कर्म कुर्वन्मृद्भारं महदाददे । 020a
मृद्भारैः शतसाहस्रैः कुम्भकारमतोषयत् ॥ 020c
चक्रे चक्रे च मृद्भाण्डान्सततं भैक्षमाचरन् । 021a
तदादायागतं दृष्ट्वा हसन्ति प्रहसन्ति च ॥ 021c
भक्ष्यभोज्यानि विविधान्यादाय प्रक्षिपन्ति च । 022a
एवमेव सदा भुक्त्वा मात्रे वदति वै रहः । 022c
न चाशितोऽस्मि भवति कल्याणान्नभृतः पुरा ॥' 022e
ततः कदाचिद्भैक्षाय गतास्ते पुरषर्षभाः । 023a
सङ्गत्य भीमसेनस्तु तत्रास्ते पृथया सह ॥ 023c
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने । 024a
भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥ 024c
रोरुयमाणांस्तान्दृष्ट्वा परिदेवयतश्च सा । 025a
कारुण्यात्साधुभावाच्च कुन्ती राजन्न चक्षमे ॥ 025c
मथ्यमानेव दुःखेन हृदयेन पृथा तदा । 026a
उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥ 026c
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने । 027a
अज्ञाता धार्तराष्ट्रस्य सत्कृतां वीतमन्यवः ॥ 027c
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् ॥ 028a
कदा प्रियं करिष्यामि यत्कुर्युरुषिताः सुखम् ॥ 028c
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति । 029a
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥ 029c
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् । 030a
न तत्र यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥ 030c
भीमसेन उवाच 031
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् । 031a
विदित्वा व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥ 031c
वैशम्पायन उवाच 032
एवं तौ कथयन्तौ च भूयः सुश्रुवतुः स्वनम् । 032a
आर्तिजं तस्य विप्रस्य सभार्यस्य विशाम्पते ॥ 032c
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः । 033a
विवेश त्वरिता कुन्ती बद्धवत्सेव सौरभी ॥ 033c
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च । 034a
दुहित्रा चैव सहितं ददर्श विकृताननम् ॥ 034c
ब्राह्मण उवाच 035
धिगिदं जीवितं लोके गतसारमनर्थकम् । 035a
दुःखमूलं पराधीनं भृशमप्रियभागि च ॥ 035c
जीविते परमं दुःखं जीविते परमो ज्वरः । 036a
जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥ 036c
आत्मा ह्येको हि धर्मार्थौ कामं चैव निषेवते । 037a
एतैश्च विप्रयोगोऽपि दुःखं परमनन्तकम् ॥ 037c
आहुः केचित्परं मोक्षं स च नास्ति कथञ्चन । 038a
अर्थप्राप्तौ तु नरकः कृत्स्न एवोपपद्यते ॥ 038c
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् । 039a
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥ 039c
'यावन्तो यस्य संयोगा द्रव्यैरिष्टैर्भवन्त्युत । 040a
तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः ॥ 040c
तदिदं जीवितं प्राप्य अल्पकालं महाभयम् । 041a
त्यागो हि न मया प्राप्तो भार्यया सहितेन च ॥' 041c
न हि योगं प्रपश्यामि येन मुच्येयमापदः । 042a
पुत्रदारेण वा सार्धं प्राद्रवेयमनामयम् ॥ 042c
यतितं वै मया पूर्वं वेत्थ ब्राह्मणि तत्तथा । 043a
क्षेमं यतस्ततो गन्तुं त्वया तु मम न श्रुतम् ॥ 043c
इह जाता विवृद्धाऽस्मि पिता माता ममेति वै । 044a
उक्तवत्यसि दुर्मेधे याच्यमाना मयाऽसकृत् ॥ 044c
स्वर्गतोऽपि पिता वृद्धस्तथा माता चिरं तव । 045a
बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥ 045c
'न भोजनं विरुद्धं स्यान्न स्त्रीदेशो निबन्धनः । 046a
सुदूरमपि तं देशं व्रजेद्गरुडहंसवत् ॥' 046c
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम । 047a
बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम ॥ 047c
अथवा मद्विनाशो यं न हि शक्ष्यामि कञ्चन । 048a
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥ 048c
सहधर्मचरीं दान्तां नित्यं मातृसमां मम । 049a
सखायं विहितां देवैर्नित्यं परमिकां गतिम् ॥ 049c
पित्रा मात्रा च विहितां सदा गार्हस्थ्यभागिनीम् । 050a
वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥ 050c
कुलीनां शीलसम्पन्नामपत्यजननीमपि । 051a
त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् ॥ 051c
परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् । 052a
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् ॥ 052c
बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् । 053a
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना ॥ 053c
यया दौहित्रजाल्ँलोकानाशंसे पितृभिः सह । 054a
स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥ 054c
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः । 055a
कन्यायां केचिदपरे मम तुल्यावुभौ स्मृतौ ॥ 055c
यस्यां लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् । 056a
अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ॥ 056c
'कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम् । 057a
प्रार्थयेयं परां प्रीतिं यस्मिन्स्वर्गफलानि च ॥ 057c
यस्य जातस्य पितरो मुखं दृष्ट्वा दिवं गताः । 058a
अहं मुक्तः पितृऋणाद्यस्य जातस्य तेजसा ॥ 058c
दयितं मे कथं बालमहं त्यक्तुमिहोत्सहे । 059a
तमहं ज्येष्ठपुत्रं मे कुलनिर्हारकं विभुम् ॥ 059c
मम पिण्डोदकनिधिं कथं त्यक्ष्यामि पुत्रकम् । 060a
त्यागोऽयं मम सम्प्राप्तो मम वा मे सुतस्य वा ॥ 060c
तव वा तव पुत्र्या वा अत्र वासस्य तत्फलम् । 061a
न शृणोषि वचो मह्यं तत्फलं भुङ्क्ष्व भामिनि ॥ 061c
अथवाहं न शक्ष्यामि स्वयं मर्तुं सुतं मम । 062a
एकं त्यक्तुं न शक्नोति भवतीं च सुतामपि ॥ 062c
अथ मद्रक्षणार्थं वा न हि शक्ष्यामि कञ्चन । 063a
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥ 063c
आत्मानमपि चोत्सृज्य गते प्रेतवशं मयि ।' 064a
त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ॥ 064c
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः । 065a
आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥ 065c
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् । 066a
अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः । 066c
सर्वैः सह मृतं श्रेयो न च मे जीवितुं क्षमम् ॥ ॥ 066e
इति श्रीमन्महाभारते आदिपर्वणि बकवचपर्वणि एकसप्तत्यधिकशततमोऽध्यायः ॥ 171 ॥
1-171-42 योगमुपायम् ॥ एकसप्तत्यधिकशततमोऽध्यायः ॥ 171 ॥