अध्यायः 170

वने चरतां पाण्डवानां व्यासेन सान्त्वनम् एकचक्रानगर्यां ब्राह्मणगृहे स्थापनं च ॥ 1 ॥ 'वैशम्पायन उवाच 001
ततस्ते पाण्डवाः सर्वे शालिहोत्राश्रमे तदा । 001a
पूजितास्तेन वन्येन तमामन्त्र्य महामुनिम् ॥ 001c
जटाः कृत्वाऽऽत्मनः सर्वे वल्कलाजिनवाससः । 002a
कुन्त्या सह महात्मानो बिभ्रतस्तापसं वपुः ॥ 002c
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः । 003a
नीतिशास्त्रं च धर्मज्ञा न्यायज्ञानं च पाण्डवाः ॥ 003c
शालिहोत्रप्रसादेन लब्ध्वा प्रीतिमवाप्य च । 004a
'ते वनेन वनं गत्वा घ्नन्तो मृगगणान्बहून् । 004c
अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ॥ 004e
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च । 005a
रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ॥ 005c
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः । 006a
'क्वचिच्छ्रान्ताश्च कान्तारे क्वचित्तिष्ठन्ति हर्षिताः' ॥ 006c
क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः । 007a
पथि द्वैपायनं सर्वे ददृशुः स्वपितामहम् ॥ 007c
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा । 008a
तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः ॥ 008c
व्यास उवाच 009
तदाश्रमान्निर्गमनं मया ज्ञातं नरर्षभाः । 009a
घटोत्कचस्य चोत्पत्तिं ज्ञात्वा प्रीतिरवर्धत ॥ 009c
इदं नगरमभ्याशे रमणीयं निरामयम् । 010a
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥ 010c
वैशम्पायन उवाच 011
एवं स तान्समाश्वास्य व्यासः पार्थानरिन्दमान् । 011a
एकचक्रामभिगतां कुन्तीमाश्वासयत्प्रभुः ॥ 011c
श्रीव्यास उवाच 012
कुर्यान्न केवलं धर्मं दुष्कृतं च तथा नरः । 012a
सुकृतं दुष्कृतं लोके न कर्ता नास्ति कश्चन ॥ 012c
अवश्यं लभते कर्ता फलं वै पुण्यपापयोः । 013a
दुष्कृतस्य फलेनैव प्राप्तं व्यसनमुत्तमम् ॥ 013c
तस्मान्माधवि मानार्हे मा च शोके मनः कृथाः । 014ac
वैशम्पायन उवाच 015
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने ॥ 015a
जगाम भगवान्व्यासो यताकाममृषिः प्रभुः ॥ ॥ 015c

इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि सप्तत्यधिकशततमोऽध्यायः ॥ 170 ॥ ॥ समाप्तं हिडिम्बवधपर्व ॥