अध्यायः 169

घटोत्कचोत्पत्तिः ॥ 1 ॥ स्मृतिमात्रादागच्छाव इत्युक्त्वा हिडिम्बाघटोत्कचयोर्गमनम् ॥ 2 ॥ वैशम्पायन उवाच 001
गते भगवति व्यासे पाण्डवा विगतज्वराः । 001a
ऊषुस्तत्र च षण्मासान्वटवृक्षे यथासुखम् ॥ 001c
शाकमूलफलाहारास्तपः कुर्वन्ति पाण्डवाः । 002a
अनुज्ञाता महाराज ततः कमलपालिका ॥ 002c
रमयन्ती सदा भीमं तत्रतत्र मनोजवा । 003a
दिव्याभरणवस्त्रा हि दिव्यस्रगनुलेपना ॥ 003c
एवं भ्रातॄन्सप्त मासान्हिडिम्बाऽवासयद्वने । 004a
पाण्डवान्भीमसेनार्थे राक्षसी कामरूपिणी ॥ 004c
सुखं स विहरन्भीमस्तत्कालं पर्यणामयत् । 005a
ततोऽलभत सा गर्भं राक्षसी कामरूपिणी ॥ 005c
अतृप्ता भीमसेनेन सप्तमासोपसङ्गता । 006a
'प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलात् ॥ 006c
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् । 007a
भीमरूपं सुताम्राक्षं तीक्ष्णदंष्ट्रं महारथम् ॥ 007c
महेष्वासं महावीर्यं महासत्वं महाजवम् । 008a
महाकायं महाकालं महाग्रीवं महाभुजम् ॥ 008c
अमानुषं मानुषजं भीमवेगमरिन्दमम् । 009a
पिशाचकानतीत्यान्यान्बभूवाति स मानुषान् ॥ 009c
बालोऽपि विक्रमं प्राप्तो मानुषेषु विशाम्पते । 010a
सर्वास्त्रेषु वरो वीरः प्रकाममभवद्बली ॥ 010c
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च । 011a
कामरूपधराश्चैव भवन्ति बहुरूपिकाः ॥ 011c
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा । 012a
मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥ 012c
घटोहास्योत्कच इति माता तं प्रत्यभाषत । 013a
अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥ 013c
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः । 014a
तेषां च दयितो नित्यमात्मनित्यो बभूव ह ॥ 014c
घटोत्कचो महाकायः पाण्डवान्पृथया सह । 015a
अभिवाद्य यथान्यायमब्रवीच्च प्रभाष्य तान् ॥ 015c
किं करोम्यहमार्याणां निःशङ्कं वदतानघाः । 016a
तं ब्रुवन्तं भैमसेनिं कुन्ती वचनमब्रवीत् ॥ 016c
त्वं कुरूणां कुले जातः साक्षाद्भीमसमो ह्यसि । 017a
ज्येष्ठः पुत्रोसि पञ्चानां साहाय्यं कुरु पुत्रक ॥ 017c
वैशम्पायन उवाच 018
पृथयाप्येवमुक्तस्तु प्रणम्यैव वचोऽब्रवीत् । 018a
यथा हि रावणो लोके इन्द्रजिच्च महाबलः । 018c
वर्ष्मवीर्यसमो लोके विशिष्टश्चाभवं नृषु ॥ 018e
कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः । 019a
आमन्त्र्य रक्षसां श्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥ 019c
स हि सृष्टो भगवता शक्तिहेतोर्महात्मना । 020a
वर्णस्याप्रतिवीर्यस्य प्रतियोद्धा महारथः ॥ 020c
'भीम उवाच 021
सह वासो मया जीर्णस्त्वया कमलपालिके । 021a
पुनर्द्रक्ष्यसि राज्यस्थानित्यभाषत तां तदा ॥ 021c
हिडिम्बोवाच 022
पदा मां संस्मरेः कान्त रिरंसू रहसि प्रभो । 022a
तदा तव वशं भूय आगन्तास्म्याशु भारत ॥ 022c
इत्युक्त्वा सा जगामाशु भावमासज्य पाण्डवे । 023a
हिडिम्बा समयं स्मृत्वा स्वां गतिं प्रत्यपद्यत ॥ ॥ 023c

इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि ऊनसप्तत्युत्तरशततमोऽध्यायः ॥ 169 ॥

1-169-12 विकचः केशहीनः ॥ 1-169-13 घटोहं घटवद्वितर्क्यम् आस्यं तदुपलक्षितं शिरः यस्य स घटोहास्यः सचासावुत्कचश्च घटोहास्योत्कचः । घटोऽहमुत्कचोऽस्मीति मातरं सोऽभ्यभाषत इति घ.ङ. पाठः ॥ 13 ॥ 1-169-14 आत्मनिलः स्ववशः ॥ ऊनसप्तत्युत्तरशततमोऽध्यायः ॥ 169 ॥