अध्यायः 168
हिडिम्बया सह पाण्डवानां शालिहोत्रसरोगमनम् ॥ 1 ॥ शालिहोत्रेण तेषामातिथ्यकरणम् ॥ 2 ॥ समयकरणपूर्वकं भीमेन हिडिम्ब्याः परिग्रहः ॥ 3 ॥ रमणीयेषु प्रदेशेषु भीमेन सह क्रीडित्वा सायाह्ने शालिहोत्राश्रमं प्रति हिडिम्ब्या निवर्तनम् ॥ 4 ॥ तत्र व्यासागमनम् ॥ 5 ॥ व्यासेन कुन्त्या आश्वासनम् ॥ 6 ॥ व्यासस्य प्रतिनिवर्तनम् ॥ 7 ॥
वैशम्पायन उवाच 001
युधिष्ठिरवचः श्रुत्वा कुन्तीमङ्गेऽधिरोप्य सा । 001a
भीमार्जुनान्तरगता यमाभ्यां च पुरस्कृता ॥ 001c
तिर्यग्युधिष्ठिरे याति हिडिम्बा भीमगामिनी । 002a
शालिहोत्रसरो रम्यमाससाद जलार्थिनी ॥ 002c
वनस्पतितलं गत्वा परिमृज्य गृहं यथा । 003a
पाण्डवानां च वासं सा कृत्वा पर्णमयं तथा ॥ 003c
आत्मनश्च तथा कुन्त्या एकोद्देशे चकार सा । 004a
पाण्डवास्तु ततः स्नात्वा शुद्धाः सन्ध्यामुपास्य च ॥ 004c
तृषिताः क्षुत्पिपासार्ता जलमात्रेण वर्तयन् । 005a
शालिहोत्रस्ततो ज्ञात्वा क्षुधार्तान्पाण्डवांस्तदा ॥ 005c
मनसा चिन्तयामास पानीयं भोजनं महत् । 006a
ततस्ते पाण्डवाः सर्वे विश्रान्ताः पृथया सह ॥ 006c
यथा जतुगृहे वृत्तं राक्षसेन कृतं च यत् । 007a
कृत्वा कथा बहुविधाः कथान्ते पाण्डुनन्दनम् ॥ 007c
कुन्ती राजसुता वाक्यं भीमसेनमथाब्रवीत् । 008a
यथा पाण्डुस्तथा मान्यस्तव ज्येष्ठो युधिष्ठिरः ॥ 008c
अहं धर्मविदाऽनेन मान्या गुरुतरा तव । 009a
तस्मात्पाण्डुहितार्थं मे युवराज हितं कुरु ॥ 009c
निकृता धार्तराष्ट्रेण पापेनाकृतबुद्धिना । 010a
दुष्कृतस्य प्रतीकारं न पश्यामि वृकोदर ॥ 010c
तस्मात्कतिपयाहेन योगक्षेमं भविष्यति । 011a
क्षेमं दुर्गमिमं वासं वत्स्याम हि यथा वयम् ॥ 011c
इदमन्यन्महदुःखं धर्मकृच्छ्रं वृकोदर । 012a
दृष्ट्वैव त्वां महाप्राज्ञ अनङ्गाभिप्रचोदिता ॥ 012c
युधिष्ठिरं च मां चैव वरयामास धर्मतः । 013a
धर्मार्थं देहि पुत्रं त्वं स नः श्रेयः करिष्यति ॥ 013c
प्रतिवाक्यं तु नेच्छामि आवयोर्वचनं कुरु । 014a
वैशम्पायन उवाच 014
तथेति तत्प्रतिज्ञाय भीमसेनोऽब्रवीदिदम् ॥ 014c
शासनं ते करिष्यामि वेदशासनमित्यपि । 015a
समक्षं भ्रातृमध्ये तु तां चोवाच स राक्षसीम् ॥ 015c
शृणु राक्षसि सत्येन समयं ते वदाम्यहम् । 016a
'यावत्कालेन भवति पुत्रस्योत्पादनं शुभे ॥ 016c
तावत्कालं चरिष्यामि त्वया सह सुमध्यमे । 017a
'विशेषतो मत्सकाशे मा प्रकाशय नीचताम् ॥ 017c
उत्तमस्त्रीगुणोपेता भजेथा वरवर्णिनि । 018a
वैशम्पायन उवाच 018
सा तथेति प्रतिज्ञाय हिडिम्बा राक्षसी तथा ॥ 018c
गताऽहनि निवेशेषु भोज्यं राजार्हमानयत् । 019a
सा कदाचिद्विहारार्थं हिडिम्बा कामरूपिणी ॥ 019c
भीमसेनमुपादाय ऊर्ध्वमाचक्रमं तदा । 020a
शैलशृङ्गेषु रम्येषु देवतायतनेषु च ॥ 020c
मृगपक्षिविघुष्टेषु रमणीयेषु सर्वेषु । 021a
कृत्वा सा परमं रूपं सर्वाभरणभूषिता ॥ 021c
सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् । 022a
तथैव वनदुर्गेषु पर्वतद्रुमसानुषु ॥ 022c
सरस्सु रमणीयेषु पद्मोत्पलवनेषु च । 023a
नदीद्वीपप्रदेशेषु वैडूर्यसिकतेषु च ॥ 023c
देवारण्येषु पुण्येषु तथा पर्वतसानुषु । 024a
सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥ 024c
सागरस्य प्रदेशेषु मणिहेमयुतेषु च । 025a
गुह्यकानां निवासेषु कुलपर्वतसानुषु ॥ 025c
सर्वर्तुफलवृक्षेषु मानसेषु वनेषु च । 026a
बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥ 026c
'यथा सुमोदते स्वर्गे सुकृत्यप्सरसा सह । 027a
सुतरां परमप्रीतस्तथा रेमे महाद्युतिः ॥ 027c
शुभं हि जघनं तस्याः सवर्णमणिमेखलम् । 028a
न ततर्प तदा मृद्नन्भीमसेनो मुहुर्मुहुः ॥' 028c
रमयन्ती ततो भीमं तत्रतत्र मनोजवा । 029a
सा रेमे तेन संहर्षात्तृप्यन्ती च मुहुर्मुहुः ॥ 029c
अहस्सु रमयन्ती सा निशाकालेषु पाण्डवम् । 030a
आनीय वै स्वके गेहे दर्शयामास मातरम् ॥ 030c
भ्रातृभिः सहितो नित्यं स्वपते पाण्डवस्तथा । 031a
कुन्त्याः परिचरन्ती सा तस्याः पार्श्वे वसन्निशां ॥ 031c
कामांश्च मुखवासादीनानयिष्यति भोजनम् । 032a
तस्यां रात्र्यां व्यतीतायामाजगाम महाव्रतः ॥ 032c
पाराशर्यो महाप्राज्ञो दिव्यदर्शी महातपाः । 033a
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं शुभम् । 033c
तस्थुः प्राञ्जलयः सर्वे सस्नुषा चैव माधवी ॥ 033e
श्रीव्यास उवाच 034
मयेदं मनसा पूर्वं विदितं भरतर्षभाः । 034a
यथा स्थितैरधर्मेण धार्तराष्ट्रौर्विवासिताः ॥ 034c
तद्विदित्वाऽस्मि सम्प्राप्तश्चिकीर्षन्वै परं हितम् । 035a
न विषादो हि वः कार्यः सर्वमेतत्सुखाय वः ॥ 035c
सुहृद्वियोजनं कर्म पुराकृतमरिन्दमाः । 036a
तस्य सिद्धिरियं प्राप्ता मा शोचत परन्तपाः ॥ 036c
समाप्ते दुष्कृते चैव यूयं ते वै न संशयः । 037a
स्वराष्ट्रे विहरिष्यन्तो भविष्यथ सबान्धवाः ॥ 037c
दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः । 038a
तस्मादभ्यधिकः स्नेहो युष्मासु मम सम्प्रति ॥ 038c
स्नेहपूर्वं चिकीर्षामि हितं यत्तन्निबोधत । 039a
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥ 039c
एतद्वै शालिहोत्रस्य तपसा निर्मितं सरः । 040a
रमणीयमिदं तोयं क्षुत्पिपासाश्रमापहम् ॥ 040c
कार्यार्थिनस्तु षण्मासान्विहरध्वं यथासुखम् ॥ 041ac
वैशम्पायन उवाच 042
एवं स तान्समाश्वास्य व्यासः पार्थानरिन्दमान् । 042a
स्नेहाच्च सम्परिष्वज्य कुन्तीमाश्वासयत्प्रभुः ॥ 042c
स्नुषे मा रोद मा रोदेत्येवं व्यासोऽब्रवीद्वचः । 043a
जीवपुत्रे सुतस्तेऽयं धर्मनित्यो युधिष्ठिरः ॥ 043c
पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् । 044a
धर्मेण जित्वा पृथिवीमखिलां धर्मकृद्वशी ॥ 044c
स्थापयित्वा वशे सर्वां सपर्वतवनां शुभाम् । 045a
भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयम् ॥ 045c
पुत्रास्तव च माद्र्याश्च पञ्चैते लोकविश्रुताः । 046a
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥ 046c
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् । 047a
राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥ 047c
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च । 048a
पितृपैतामहं राज्यमहारिष्यन्ति ते सुताः ॥ 048c
स्नुषा कमलपत्राक्षी नाम्ना कमलपालिका । 049a
वशवर्तिनी तु भीमस्य पुत्रमेषा जनिष्यति ॥ 049c
तेन पुत्रेण कृच्छ्रेषु भविष्यथ च तारिताः । 050a
इह मासं प्रतीक्षध्वमागमिष्याम्यहं पुनः ॥ 050c
देशकालौ विदित्वैवं यास्यध्वं परमां मुदम् ॥ 051ac
वैशम्पायन उवाच 052
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो जनाधिप । 052a
जगाम भगवान्व्यासो यथागतमृषिः प्रभुः ॥ ॥ 052c
इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः ॥ 168 ॥
1-168-38 दीनतो बालत इति द्वयं भावप्रधानम् ॥ अष्टषष्ट्युत्तरशततमोऽध्यायः ॥ 168 ॥