अध्यायः 167

हिडिम्बावधे प्रवृत्तस्य भीमस्य युधिष्ठिरकृतं निवारणं ॥ 1 ॥ हिडिम्बया स्वस्य धर्मज्ञत्वस्य भविष्यज्ज्ञत्वस्य च प्रकटनम् ॥ 2 ॥ हिडिम्बाया धर्मिष्ठतां ज्ञात्वा तदङ्गीकरणे भीमं प्रति कुन्त्या आज्ञा ॥ 3 ॥ वैशम्पायन उवाच 001
सा तानेवापतत्तूर्णं भगिनी तस्य रक्षसः । 001a
अब्रुवाणा हिडिम्बा तु राक्षसी पाण्डवान्प्रति ॥ 001c
अभिवाद्य ततः कुन्तीं धर्मराजं च पाण्डवम् । 002a
अभिपूज्य ततः सर्वान्भीमसेनमभाषत ॥ 002c
अहं ते दर्शादेव मन्मथस्य वशं गता । 003a
क्रूरं भ्रातृवचो हित्वा सा त्वामेवानिरुन्धती ॥ 003c
राक्षसे रौद्रसङ्काशे तवापश्यं विचेष्टितम् । 004a
अहं शुश्रूषुरिच्छेयं तव गात्रं निषेवितुम् ॥' 004c
भीमसेन उवाच 005
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् । 005a
हिडिम्बे व्रज पन्थानं त्वमिमं भ्रातृसेवितम् ॥ 005c
युधिष्ठिर उवाच 006
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः । 006a
शरीरगुप्त्यभ्यधिकं धर्मं गोपाय पाण्डव ॥ 006c
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् । 007a
रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥ 007c
वैशम्पायन उवाच 008
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः । 008a
युधिष्ठिरं तु कौन्तेयमिदं वचनमब्रवीत् ॥ 008c
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् । 009a
तदिदं मामनुप्राप्तं भीमसेनकृते शुभे ॥ 009c
सोढं तत्परमं दुःखं मया कालप्रतीक्षया । 010a
सोऽयमभ्यागतः कालो भविता मे सुखोदयः ॥ 010c
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा । 011a
वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥ 011c
वीरेणाऽहं तथाऽनेन त्वया चापि यशस्विनी । 012a
प्रत्याख्याता न जीवामि सत्यमेतद्ब्रवीमि ते ॥ 012c
यदर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि । 013a
मत्वा मूढेति तन्मां त्वं भक्ता वाऽनुगतेति वा ॥ 013c
भर्त्राऽनेन महाभागे संयोजय सुतेन ह । 014a
समुपादाय गच्छेयं यथेष्टं देवरूपिणम् । 014c
पुनश्चैवानयिष्यामि विस्रम्भं कुरु मे शुभे ॥ 014e
'अहं हि समये लप्स्ये प्राग्भ्रातुरपवर्जनात् । 015a
ततः सोऽभ्यपतद्रात्रौ भीमसेनजिघांसया ॥ 015c
यथायथा विक्रमते यथारिमधितिष्ठति । 016a
तथातथा समासाद्य पाण्डवं काममोहिता ॥ 016c
न यातुधान्यहं त्वार्ये न चास्मि रजनीचरी । 017a
ईशा रक्षस्स्वसा ह्यस्मि राज्ञि सालकटङ्कटी ॥ 017c
पुत्रेण तव संयुक्ता युवतिर्देववर्णिनी । 018a
सर्वान्वोऽहमुपस्थास्ये पुरस्कृत्य वृकोदरम् ॥ 018c
अप्रमत्ता प्रमत्तेषु शुश्रूषुरसकृत्त्वहम् । 019a
'वृजिने तारयिष्यामि दासीवच्च नरर्षभाः ॥ 019c
पृष्ठेन वो वहिष्यामि विमानं सुकृतानिव । 020a
यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ॥ 020c
'एवं ब्रुवन्ती ह तथा प्रत्याख्याता क्रियां प्रति । 021a
भूम्यां दुष्कृतिनो लोकान्गमिष्येऽहं न संशयः ॥ 021c
अहं हि मनसा ध्यात्वा सर्वं वेत्स्यामि सर्वदा । 022a
'आपन्निस्तरणे प्राणान्धारयिष्ये न केनचित् ॥ 022c
सर्वमावृत्य कर्तव्यं धर्मं समनुपश्यता । 023a
आपत्सु यो धारयति स वै धर्मविदुत्तमः ॥ 023c
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते । 024a
पुम्यात्प्राणान्धारयति पुण्यं वै प्राणधारणम् ॥ 024c
येन केनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते । 025a
'महतोऽत्र स्त्रियं कामाद्बाधितां त्राहि मामपि ॥ 025c
धर्मार्थकाममोक्षेषु दयां कुर्वन्ति साधवः । 026a
तत्तु धर्ममिति प्राहुर्मुनयो धर्मवत्सलाः ॥ 026c
दिव्यज्ञानेन जानामि व्यतीतानागतानहम् । 027a
तस्माद्वक्ष्यामि वः श्रेय आसन्नं सर उत्तमम् ॥ 027c
अद्यासाद्य सरः स्नात्वा विश्रम्य च वनस्पतौ । 028a
श्वः प्रभाते महद्भूतं प्रादुर्भूतं जगत्पतिम् ॥ 028c
व्यासं कमलपत्राक्षं दृष्ट्वा शोकं विहास्यथ । 029a
धार्तराष्ट्राद्विवासं च दहनं वारणावते ॥ 029c
त्राणं च विदुरात्तुभ्यं विदितं ज्ञानचक्षुषा । 030a
आवासे शालिहोत्रस्य स वो वासं विधास्यति ॥ 030c
वर्षवातातपसहो ह्ययं पुण्यो वनस्पतिः । 031a
पीतमात्रे तु पानीये क्षुत्पिपासे विनश्यतः ॥ 031c
तपसा शालिहोत्रेण सरो वृक्षश्च निर्मितः । 032a
कादम्बाः सारसा हंसाः कुरर्यः कुररैः सह ॥ 032c
रुवन्ति मधुरं गीतं गान्धर्वस्वनमिश्रितम् । 033a
वैशम्पायन उवाच 033
तस्यास्तद्वचनं श्रुत्वा कुन्ती वचनमब्रवीत् ॥ 033c
युधिष्ठिरं महाप्राज्ञं सर्वधर्मविशारदम् । 034a
कुन्त्युवाच 034
त्वं हि धर्मभृतां श्रेष्ठो मयोक्तं शृणु भारत ॥ 034c
राक्षस्येषा हि वाक्येन धर्मं वदति साधु वै । 035a
भावेन दुष्टा भीमं वै किं करिष्यति राक्षसी ॥ 035c
भजतां पाण्डवं वीरमपत्यार्थं यदीच्छसि ।' 036a
युधिष्ठिर उवाच 036
एवमेतद्यथाऽऽत्थ त्वं हिडिम्बे नात्र संशयः ॥ 036c
स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे ।' 037a
नित्यं कृताह्निका स्नाता कृतशौचा सुरूपिणी ॥' 037c
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् । 038a
भीमसेनं भजेथास्त्वमुदिते वै दिवाकरे ॥ 038c
अहस्सु विहरानेन यथाकामं मनोजवा । 039a
अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥ 039c
प्राक्सन्ध्यातो विमोक्तव्यो रक्षितव्यश्च नित्यशः । 040a
एवं रमस्व भीमेन यावद्गर्भस्य वेदनम् ॥ 040c
एष ते समयो भद्रे शुश्रूषा चाप्रमत्तया । 041a
नित्यानुकूलया भूत्वा कर्तव्यं शोभनं त्वया ॥ ॥ 041c

इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः ॥ 167 ॥

1-167-5 भ्रातृसेवितं पन्थानं मृत्युम् ॥ सप्तषष्ट्यधिकशततमोऽध्यायः ॥ 167 ॥