अध्यायः 166
कुन्तीहिडिम्बासंवादः ॥ 1 ॥ हिडिम्बावार्तया भीमं हिडिम्बेन युद्ध्यमानं ज्ञातवतां कुन्त्यादीनां तत्र गमनम् ॥ 2 ॥ हिडिम्बवधः ॥ 3 ॥
वैशम्पायन उवाच 001
प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् । 001a
विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ॥ 001c
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा । 002a
उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः ॥ 002c
कस्य त्वं सुरगर्भाभे कावाऽसि वरवर्णिनि । 003a
केन कार्येण सम्प्राप्ता कुतश्चागमनं तव ॥ 003c
यदि वाऽस्य वनस्य त्वं देवता यदि वाऽप्सराः । 004a
आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ॥ 004c
हिडिम्बोवाच 005
यदेतत्पश्यसि वनं नीलमेघनिभं महत् । 005a
निवासो राक्षसस्यैष हिडिम्बस्य ममैव च ॥ 005c
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि । 006a
भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता ॥ 006c
क्रूरबुद्धेरहं तस्य वचनादागता त्विह । 007a
अद्राक्षं नवहेमाभं तव पुत्रं महाबलम् ॥ 007c
ततोऽहं सर्वभूतानां भावे विचरता शुभे । 008a
चोदिता तव पुत्रार्थं मन्मथेन वशानुगा ॥ 008c
ततो वृतो मया भर्ता तव पुत्रो महाबलः । 009a
अपनेतुं च यतितो न चैव शकितो मया ॥ 009c
चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः । 010a
स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ॥ 010c
स तेन मम कान्तेन तव पुत्रेण धीमता । 011a
बलादितो विनिष्पिष्य व्यपनीतो महात्मना ॥ 011c
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् । 012a
पश्यैवं युधि विक्रान्तावेतौ च नरराक्षसौ ॥ 012c
वैशम्पायन उवाच 013
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः । 013a
अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ॥ 013c
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् । 014a
काङ्क्षमाणौ जयं चैव सिंहाविव बलोत्कटौ ॥ 014c
अथान्योन्यं समाश्लिष्य विकर्षन्तौ पुनःपुनः । 015a
दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥ 015c
वसुधारेणुसंवीतौ वसुधाधरसन्निभौ । 016a
बभ्राजतुर्यथा शैलौ नीहारेणाभिसंवृतौ ॥ 016c
राक्षसेन तदा भीमं क्लिश्यमानं निरीक्ष्य च । 017a
उवाचेदं वचः पार्थः प्रहसञ्छनकैरिव ॥ 017c
भीम माभैर्महाबाहो न त्वां बुध्यामहे वयम् । 018a
समेतं भीमरूपेण रक्षसा श्रमकर्शिताः ॥ 018c
साहाय्येऽस्मि स्थितः पार्थ पातयिष्यामि राक्षसम् । 019a
नकुलः सहदेवश्च मातरं गोपयिष्यतः ॥ 019c
भीम उवाच 020
उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वया । 020a
न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ॥ 020c
'भुजयोरन्तरं प्राप्तो भीमसेनस्य राक्षसः । 021a
अमृत्वा पार्थवीर्येण मृतो मा भूदिति ध्वनिः ॥ 021c
अयमस्मांस्तु नो हन्याज्जातु पार्थ राक्षसः । 022a
जीवन्तं न प्रमोक्ष्यामि मा भैषीर्भरतर्षभ ॥' 022c
अर्जुन उवाच 023
'पूर्वरात्रे प्रयुक्तोऽसि भीम क्रूरेण रक्षसा । 023a
क्षपा व्युष्टा न चेदानीं समाप्तोसीन्महारणः ॥' 023c
किमेनन चिरं भीम जीवता पापरक्षसा । 024a
गन्तव्ये न चिरं स्थातुमिह शक्यमरिन्दम ॥ 024c
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते । 025a
रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्त्युत ॥ 025c
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् । 026a
पुरा विकुरुते मायां भुजयोः सारमर्पय ॥ 026c
'माहात्म्यमात्मनो वेत्थ नराणां हितकाम्यया । 027a
रक्षो जहि यथा शक्रः पुरा वृत्रं महाबलम् ॥ 027c
अथवा मन्यसे भारं त्वमिमं राक्षसं युधि । 028a
आतिष्ठे तव साहाय्यं शीघ्रमेव तु हन्यताम् ॥ 028c
अथवा त्वहमेवैनं हनिष्यामि वृकोदर । 029a
कृतकर्मा परिश्रान्तः साधु तावदुपारम ॥' 029c
वैशम्पायन उवाच 030
अर्जुनेनैवमुक्तस्तु भीमो रोषाज्ज्वलन्निव । 030a
बलमाहारयामास यद्वायोर्जगतः क्षये ॥ 030c
ततस्तस्याम्बुदाभस्य भीमो रोषात्तु रक्षसः । 031a
अत्क्षिप्याभ्रामयद्देहं तूर्णं शतगुणं तदा ॥ 031c
'इति चोवाच सङ्क्रुद्धो भ्रामयन्राक्षसीं तनुम् । 032a
भीमसेनो महाबाहुरभिगर्जन्मुहुर्मुहुः ॥' 032c
भीम उवाच 033
नरमांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः । 033a
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥ 033c
क्षेममद्य करिष्यामि यथा वनमकण्टकम् । 034a
न पुनर्मानुषान्हत्वा भक्षयिष्यसि राक्षस ॥ 034c
वैशम्पायन उवाच 035
इत्युक्त्वा भीमसेनस्तं निष्पिष्य धरणीतले । 035a
बाहुभ्यामवपीड्याशु पशुमारममारयत् ॥ 035c
स मार्यमाणो भीमेन ननाद विपुलं स्वनम् । 036a
पूरयंस्तद्वनं सर्वं जलार्द्रे इव दुन्दुभिः ॥ 036c
बाहुभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः । 037a
'समुद्धाम्य शिरश्चास्य सग्रीवं तदपाहरत् ॥ 037c
ततो भित्त्वा शिरश्चास्य सग्रीवं तदुदाक्षिपत् । 038a
तस्य निष्कर्णनयनं निर्जिह्वं रुधिरोक्षितम् ॥ 038c
प्राविद्धं भीमसेनेन शिरो विदशनं बभौ । 039a
प्रसारितभुजोद्धृष्टो भिन्नमांसत्वगन्तरः ॥ 039c
कबन्धभूतस्तत्रासीद्दनुर्वज्रहतो तथा । 040a
हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः ॥ 040c
हिडिम्बा सा च सम्प्रेक्ष्य निहतं राक्षसं रणे । 041a
अदृश्याश्चैव ये स्वस्स्थाः समेताः सर्षिचारणाः ॥ 041c
पूजयन्ति स्म तं हृष्टाः साधुसाध्विति पाण्डवम् । 042a
भ्रातरश्चापि संहृष्टा युधिष्ठिरपुरोगमाः ॥ 042c
अपूजयन्नरव्याघ्रं भीमसेनमरिन्दमम् । 043a
'अभिपूज्य महात्मानं भीमं भीमपराक्रमम् । 043c
पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ॥ 043e
अदूरे नगरं मन्ये वनादस्मादहं विभो । 044a
शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ॥ 044c
ततः सर्वे तथेत्युक्त्वा मात्रा सह महारथाः । 045a
प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ॥ 045c
इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि षट्षष्ट्यधिकशततमोऽध्यायः ॥ 166 ॥
1-166-8 भावे चित्ते ॥ 1-166-11 व्यपनीतो दूरे नीतः ॥ 1-166-21 इतिध्वनिर्माभूदिति सम्बन्धः ॥ 1-166-24 गन्तव्ये सति चिरं स्थातुं न शक्यम् ॥ 1-166-28 अथवेति द्वयं प्रोत्साहनार्थं ॥ 1-166-33 वृथामरणं स्वर्गाद्यप्रयोजकं मरणम् ॥ षट्षष्ट्यधिकशततमोऽध्यायः ॥ 166 ॥