अध्यायः 165

पाण्डवान्प्रति प्रेषितया हिडिम्बया विलम्बिते हिडिम्बस्य तत्रागमनम् ॥ 1 ॥ भीमहिडिम्बयोर्युद्धम् ॥ 2 ॥ कुन्त्यादीनां प्रबोधः ॥ 3 ॥ वैशम्पायन उवाच 001
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः । 001a
अवतीर्य द्रुमात्तस्मादाजगामाशु पाण्डवान् ॥ 001c
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाननः । 002a
मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रो भयानकः ॥ 002c
तलं तलेन संहत्य बाहू विक्षिप्य चासकृत् । 003a
उद्वृत्तनेत्रः सङ्क्रुद्धो दन्तान्दन्तेषु निष्कुषन् ॥ 003c
कोऽद्य मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः । 004a
न बिभेति हिडिम्बी च प्रेषिता किमनागता ॥ 004c
वैशम्पायन उवाच 005
तमापतन्तं दृष्ट्वै तथा विकृतदर्शनम् । 005a
हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ॥ 005c
आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः । 006a
साऽहं त्वां भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ॥ 006c
अहं कामगमा वीर रक्षोबलसमन्विता । 007a
आरुहेमां मम श्रोणिं नेष्यामि त्वां विहायसा ॥ 007c
प्रबोधयैतान्संसुप्तान्मातरं च परन्तप । 008a
सर्वानेव गमिष्याभि गृहीत्वा वो विहायसा ॥ 008c
भीम उवाच 009
मा भैस्त्वं पृथुसुश्रोणि नैष कश्चिन्मयि स्थिते । 009a
अहमेनं हनिष्यामि पश्यन्त्यास्ते सुमध्यमे ॥ 009c
नायं प्रतिबलो भीरु राक्षसापसदो मम । 010a
सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ॥ 010c
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ । 011a
ऊरू परिघसङ्काशौ संहतं चाप्युरो महत् ॥ 011c
विक्रमं मे यथेन्द्रस्य साऽद्य द्रक्ष्यसि शोभने । 012a
माऽवमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥ 012c
हिडिम्बोवाच 013
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् । 013a
दृष्टप्रभावस्तु मया मानुषेष्वेव राक्षसः ॥ 013c
वैशम्पायन उवाच 014
तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत । 014a
वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ॥ 014c
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः । 015a
स्रग्दामपूरितशिखां समग्रेन्दुनिभाननाम् ॥ 015c
सुभ्रूनासाक्षिकेशान्तां सुकुमारनखत्वचम् । 016a
सर्वाभरणसंयुक्तां सुसूक्ष्माम्बरधारिणीम् ॥ 016c
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् । 017a
पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ॥ 017c
सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम । 018a
उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥ 018c
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः । 019a
न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ॥ 019c
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि । 020a
पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ॥ 020c
यानिमानाश्रिताऽकार्षीर्विप्रियं समुहन्मम । 021a
एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ॥ 021c
वैशम्पायन उवाच 022
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः । 022a
वधायाभिपपातैनान्दन्तैर्दन्तानुपस्पृशन् ॥ 022c
गर्जन्तमेवं विजने भीमसेनोऽभिवीक्ष्य तम् । 023a
रक्षन्प्रबोधं भ्रातॄणां मातुश्च परवीरहा ॥ 023c
तमापतान्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः । 024a
भर्त्सयामास तेजस्वी तिष्ठतिष्ठेति चाब्रवीत् ॥ 024c
वैशम्पायन उवाच 025
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव । 025a
भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ॥ 025c
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः । 026a
मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥ 026c
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि । 027a
विशेषतोऽनपकृते परेणापकृते सति ॥ 027c
न हीयं स्ववशा बाला कामयत्यद्य मामिह । 028a
चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ॥ 028c
भगिनी तव दुर्वृत्त रक्षसां वै यशोहर । 029a
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च ॥ 029c
कामयत्यद्य मां भीरुस्तव नैषापराध्यति । 030a
अनङ्गेन कृते दोषे नेमां गर्हितुमर्हसि ॥ 030c
मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि । 031a
सङ्गच्छस्व मया सार्धमेकेनैको नराशन ॥ 031c
अहमेको गमिष्यामि त्वामद्य यमसादनम् । 032a
अद्य मद्बलनिष्पिष्टं शिरो राक्षस दीर्यताम् । 032c
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ॥ 032e
अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा । 033a
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥ 033c
क्षणेनाद्य करिष्येऽहमिदं वनमराक्षसम् । 034a
पुरा यद्दूषितं नित्यं त्वया भक्षयता नरान् ॥ 034c
अद्य त्वां भगिनी रक्षः कृष्यमाणं मयाऽसकृत् । 035a
द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥ 035c
निराबाधास्त्वयि हते मया राक्षसपांसन । 036a
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥ 036c
हिडिम्ब उवाच 037
गर्जितेन वृथा किं ते कत्थितेन च मानुष । 037a
कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ॥ 037c
बलिनं मन्यसे यच्चाप्यात्मानं सपराक्रमम् । 038a
ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥ 038c
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् । 039a
एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥ 039c
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि । 040a
हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥ 040c
वैशम्पायन उवाच 041
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः । 041a
अभ्यद्रवत सङ्क्रुद्धो भीमसेनमरिन्दमम् ॥ 041c
तस्याभिद्रवतस्तूर्णं भीमो भीमपराक्रमः । 042a
वेगेन प्रहितं बाहुं निजग्राह हसन्निव ॥ 042c
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह । 043a
तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥ 043c
ततः स राक्षसः क्रुद्धः पाण्डवेन बलार्दितः । 044a
भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥ 044c
पुनर्भीमो बलादेनं विचकर्ष महाबलः । 045a
मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति ॥ 045c
'हस्ते गृहीत्वा तद्रक्षो दूरमन्यत्र नीतवान् । 046a
पृच्छे गृहीत्वा तुण्डेन गरुडः पन्नगं यथा ॥' 046c
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा । 047a
हिडिम्बो भीमसेनश्च विक्रमं चक्रतुः परम् ॥ 047c
बभञ्जतुस्तदा वृक्षाल्ँलताश्चाकर्षतुस्तदा । 048a
मत्ताविव चं संरब्धौ वारणौ षष्टिहायनौ ॥ 048c
'पादपानुद्धरन्तौ तावूरुवेगेन वेगितौ । 049a
स्फोटयन्तौ लताजालान्यूरुभ्यां गृह्य सर्वशः ॥ 049c
वित्रासयन्तौ तौ शब्दैः सर्वतो मृगपक्षिणः । 050a
बलेन बलिनौ मत्तावन्योन्यवधकाङ्क्षिणौ ॥ 050c
भीमराक्षसयोर्युद्धं तदाऽवर्तत दारुणम् । 051a
पुरा देवासुरे युद्धे वृत्रवासवयोरिव ॥ 051c
भङूक्त्वा वृक्षान्महाशाखांस्ताडयामासतुः क्रुधा । 052a
सालतालतमालाम्रवटार्जुनविभीतकान् ॥ 052c
न्यग्रोधप्लक्षखर्जूरपनसानश्मकण्टकान् । 053a
एतानन्यान्महावृक्षानुत्खाय तरसाऽखिलान् ॥ 053c
उत्क्षिप्यान्योन्यरोषेण ताडयामासतू रणे । 054a
यदाऽभवद्वनं सर्वं निर्वृक्षं वृक्षसङ्कुलम् ॥ 054c
तदा शिलाश्च कुञ्जांश्च वृक्षान्कण्टकिनस्तथा । 055a
ततस्तौ गिरिशृङ्गाणि पर्वतांश्चाभ्रलेलिहान् ॥ 055c
शैलांश्च गण्डपाषाणानुत्खायादाय वैरिणौ । 056a
चिक्षेपतुरुपर्याजावन्योन्यं विजयेषिणौ ॥ 056c
तद्वनं परितः पञ्चयोजनं निर्महीरुहम् । 057a
निर्लतागुल्मपाषाणं निर्मृगं चक्रतुर्भृशम् ॥ 057c
तयोर्युद्धेन राजेन्द्र तद्वनं भीमरक्षसोः । 058a
मुहूर्तेनाभवत्कूमर्पृष्ठवच्छ्लक्ष्णमव्ययम् ॥ 058c
ऊरुबाहुपरिक्लेशात्कर्षन्तावितरेतरम् । 059a
उत्कर्षन्तौ विकर्षन्तौ प्रकर्षन्तौ परस्परम् ॥ 059c
तौ स्वनेन विना राजन्गर्जन्तौ च परस्परम् । 060a
पाषाणसङ्घट्टनिभैः प्रहारैरभिजघ्नतुः ॥ 060c
अन्योन्यं च समालिङ्ग्य विकर्षन्तौ परस्परम् । 061a
बाहुयुद्धमभूद्धोरं बलिवासवयोरिव । 061c
युद्धसंरम्भनिर्गच्छत्फूत्काररवनिस्वनम् ॥' 061e
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः । 062a
सह मात्रा च ददृशुर्हिडिम्बामग्रतःस्थिताम् ॥ ॥ 062c

इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ 165 ॥

1-165-2 मेघसङ्घातवर्ष्मा अतिकृष्णशरीरः ॥ 1-165-32 गमिष्यामि गमयिष्यामि ॥ 1-165-54 निर्वृक्षं अकण्टकवृक्षरहितम् ॥ पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ 165 ॥