अध्यायः 164

(अथ हिडिम्बवधपर्व ॥ 9 ॥)

हिडिम्बप्रेरितायाः तद्भगिन्या हिडिम्बायाः पाण्डवसमीपगमनम् ॥ 1 ॥ भीमं दृष्ट्वा कामार्ताया हिडिम्बायाः भीमं प्रति वाक्यम् ॥ 2 ॥ भीमहिडिम्बासंवादः ॥ 3 ॥ वैशम्पायन उवाच 001
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः । 001a
अविदूरे वनात्तस्माच्छालवृक्षं समाश्रितः ॥ 001c
क्रूरो मानुषमांसादो महावीर्यपराक्रमः । 002a
प्रावृड्जलधरश्यामः पिङ्गाक्षो दारुणाकृतिः ॥ 002c
दंष्ट्राकरालवदनः करालो भीमदर्शनः । 003a
लम्बस्फिग्लम्बजठरो रक्तश्मश्रुशिरोरुहः ॥ 003c
महावृक्षगलस्कन्धः शङ्ककर्णो विभीषणः । 004a
यदृच्छया तानपश्यत्पाण्डुपुत्रान्महारथान् ॥ 004c
विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः । 005a
पिशितेप्सुः क्षुधार्तश्च जिघ्रन्गन्धं यदृच्छया ॥ 005c
ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् । 006a
जृम्भमाणो महावक्त्रः पुनःपुनरवेक्ष्य च ॥ 006c
हृष्टो मानुषमांसस्य महाकायो महाबलः । 007a
आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ॥ 007c
उपपन्नं चिरस्याद्य भक्ष्यं मम मनःप्रियम् । 008a
जिघ्रतः प्रस्रुता स्नेहाज्जिह्वा पर्येति मे मुखात् ॥ 008c
अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः । 009a
देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ॥ 009c
आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि । 010a
उष्णं नवं प्रपास्यामि फेनलिं रुधिरं बहु ॥ 010c
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः । 011a
मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे ॥ 011c
हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् । 012a
अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ॥ 012c
एषामुत्कृत्य मांसानि मानुषाणां यथेष्टतः । 013a
भक्षयिष्याव सहितौ कुरु पूर्णं वचो मम ॥ 013c
भक्षयित्वा च मांसानि मानुषाणां प्रकामतः । 014a
नृत्याव सहितावावां दत्ततालावनेकशः ॥ 014c
वैशम्पायन उवाच 015
एवमुक्ता हिडिम्बा तु हिडिम्बेन महावने । 015a
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी ॥ 015c
'आप्लुत्याप्लुत्य च तरूनगच्छत्पाण्डवान्प्रति ।' 016a
जगाम तत्र यत्र स्म शेरते पाण्डवा वने ॥ 016c
ददर्श तत्र सा गत्वा पाण्डवान्पृथया सह । 017a
शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ॥ 017c
'उपास्यमानान्भीमेन रूपयौवनशालिनः । 018a
सुकुमारांश्च पार्थान्सा व्यायामेन च कर्शितान् ॥ 018c
दुःखेन सम्प्रयुक्तांश्च सहज्येष्ठान्प्रमाथिनः । 019a
रौद्री सती राजपुत्रं दर्शनीयप्रदर्शनम् ॥' 019c
दृष्ट्वैव भीमसेनं सा सालस्कन्धमिवोद्यतम् । 020a
राक्षसी कामयामास रूपेणाप्रतिमं भुवि ॥ 020c
'अन्तर्गतेन मनसा चिन्तयामास राक्षसी' । 021a
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः ॥ 021c
कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम । 022a
नाहं भ्रातृवचो जातु कुर्यां क्रूरमसाम्प्रतम् ॥ 022c
पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् । 023a
मुहूर्तमिव तृप्तिश्च भवेद्धातुर्ममैव च ॥ 023c
हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः । 024a
'निश्चित्येत्थं हिडिम्बा सा भीमं दृष्ट्वा महाभुजम् ॥ 024c
उत्सृज्य राक्षसं रूपं मानुषं रूपमास्थिता । 025a
'सा कामरूपिणी रूपं कृत्वा मदनमोहिता ॥ 025c
उपतस्थे महात्मानं भीमसेनमनिन्दिता । 026a
'इङ्गिताकारकुशला सोपासर्पच्छनैः शनैः ॥ 026c
विनम्यमानेव लता दिव्याभरणभूषिता । 027a
शनैः शनैश्च तां भीमः समीपमुपसर्पतीम् ॥' 027c
हर्षमाणां तदा पश्यत्तन्वीं पीनपयोधराम् । 028a
चन्द्राननां पद्मनेत्रां नीलकुञ्चितमूर्धजाम् ॥ 028c
कृष्णां सुपाण्डुरैर्दन्तैर्बिम्बोष्ठीं चारुदर्शनाम् । 029a
दृष्ट्वा तां रूपसम्पन्नां भीमो विस्मयमागतः ॥ 029c
उपचारगुणैर्युक्तां ललितैर्हाससम्मितैः । 030a
समीपमुपसम्प्राप्य भीमं साथ वरानना ॥ 030c
वचो वचनवेलायां भीमं प्रोवाच भामिनी ।' 031a
लज्जया नम्यमानेव सर्वाभरणभूषिता ॥ 031c
स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् । 032a
कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ ॥ 032c
क इमे शेरते चेह पुरुषा देवरूपिणः । 033a
केयं वै बृहती श्यामा सुकुमारी तवानघ ॥ 033c
शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा । 034a
नेदं जानीथ गहनं वनं राक्षससेवितम् ॥ 034c
वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ॥ 035ac
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा । 036a
बिभक्षयिषता मांसं युष्माकममरोपमाः ॥ 036c
साऽहं त्वमभिसम्प्रेक्ष्य देवगर्भसमप्रभम् । 037a
नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ॥ 037c
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर । 038a
कामोपहतचित्तां हि भजमानां भजस्व माम् ॥ 038c
त्रास्यामि त्वां महाबाहो राक्षसात्पुरुषादकात् । 039a
वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ॥ 039c
'इच्छामि वीर भद्रं ते मा मे प्राणान्विहासिषः । 040a
त्वया ह्यहं परित्यक्ता न जीवेयमरिन्दम ॥' 040c
अन्तरिक्षचरी ह्यस्मि कामतो विचरामि च । 041a
अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ॥ 041c
भीमसेन उवाच 042
'एष ज्येष्ठो मम भ्राता मान्यः परमको गुरुः । 042a
अनिविष्टो हि तन्नाहं परिविद्यां कथञ्चन ॥' 042c
मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानपि । 043a
परित्यजेत कोन्वद्य प्रभवन्निह राक्षसि ॥ 043c
को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम् । 044a
मातरं च नरो गच्छेत्कामार्त इव मद्विधः ॥ 044c
राक्षस्युवाच 045
'एकं त्वां मोक्षयिष्यामि सह मात्रा परन्तप । 045a
सोदरानुत्सृजैनांस्त्वमारोह जघनं मम ॥ 045c
भीम उवाच 046
नाहं जीवितुमाशंसे भ्रातॄनुत्सृज्य राक्षसि । 046a
यथाश्रद्धं व्रजैका हि विप्रियं मे प्रभाषसे ॥ 046c
राक्षस्युवाच' 047
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय । 047a
मोक्षयिष्याम्यहं कामं राक्षसात्पुरुषादकात् ॥ 047c
भीमसेन उवाच 048
सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि । 048a
न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ॥ 048c
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् । 049a
न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ॥ 049c
गच्छ वा तिष्ठ वा भद्रे यद्वा पीच्छसि तत्कुरु । 050a
तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ॥ ॥ 050c

इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥

1-164-4 यदृच्छया सालवृक्षं समाश्रित इत्यन्वयः ॥ 1-164-10 धमनीं नाडीम् ॥ 1-164-21 श्यामः तरुणः ॥ 1-164-36 बिभक्षयिषता भक्षयितुमिच्छता ॥ चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥