अध्यायः 163
तृषार्तान् मातरं भ्रान्तॄश्च न्यग्रोधमूले स्थापयित्वा जलानयनाय भीमस्य गमनम् ॥ 1 ॥ जलमानीयागतस्य भूमौ सुप्तान्मात्रादीन्पश्यतो भीमस्य प्रलापः ॥ 2 ॥
वैशम्पायन उवाच 001
तेन विक्रममाणेन ऊरुवेगसमीरितम् । 001a
वनं सवृक्षविटपं व्याघूर्णितमिवाभवत् ॥ 001c
जङ्घावातो ववौ चास्य शुचिशुक्रागमे यथा । 002a
आवर्जितलतावृक्षं मार्गं चक्रे महाबलः ॥ 002c
स मृद्गन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् । 003a
अवरुज्य ययौ गुल्मान्पथस्तस्य समीपजान् ॥ 003c
स रोषित इव क्रुद्धो वने भञ्जन्महाद्रुमान् । 004a
त्रिप्रस्रुतमदः शुष्मी षष्टिवर्षो मतङ्गराट् ॥ 004c
गच्छतस्तस्य वेगेन तार्क्ष्यमारुतरंहसः । 005a
भीमस्य पाण्डुपुत्राणां मूर्च्छेव समजायत ॥ 005c
असकृच्चापि सन्तीर्य दूरपारं भुजप्लवैः । 006a
पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ॥ 006c
कृच्छ्रेण मातरं चैव सुकुमारीं यशस्विनीम् । 007a
अवहत्स तु पृष्ठेन रोधःसु विषमेषु च ॥ 007c
अगमच्च वनोद्देशमल्पमूलफलोदकम् । 008a
क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभ ॥ 008c
घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः । 009a
अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ॥ 009c
शीर्णपर्णफलै राजन्बहुगुल्मक्षुपद्रुमैः । 010a
भग्नावभुग्नभूयिष्ठैर्नानाद्रुमसमाकुलैः ॥ 010c
ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः । 011a
नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ॥ 011c
न्यविशन्त हि ते सर्वे निरास्वादे महावने ।' 012a
रात्र्यामेव गतास्तूर्णं चतुर्विंशतियोजनम् ।' 012c
ततस्तृषा परिक्लान्ता कुन्ती वचनमब्रवीत् ॥ 012e
माता सती पाण्डवानां पञ्चानां मध्यतः स्थिता । 013a
तृष्णया हि परीताऽहमनाथेव महावने ॥ 013c
'इतः परं तु शक्ताहं गन्तुं च न पदात्पदम् । 014a
शयिष्ये वृक्षमूलेऽत्र धार्तराष्ट्रा हरन्तु माम् ॥ 014c
शृणु भीम वचो मह्यं तव बाहुबलात्पुरः । 015a
स्थातुं न शक्ताः कौरव्याः किं बिभेषि पृथासुत ॥ 015c
अन्यो रथो न मेऽस्तीह भीमसेनादृते भुवि । 016a
धार्तराष्ट्राद्वृथा भीरुर्न मां स्वप्तुमिहेच्छसि ॥ 016c
वैशम्पायन उवाच 017
भीमपृष्ठस्थिता चेत्थं दूयमानेन चेतसा । 017a
निश्यध्वनि रुदन्ती सा निद्रावशमुपागता ॥' 017c
तच्छ्रुत्वा भीमसेनस्य मातृस्नेहात्प्रजल्पितम् । 018a
कारुण्येन मनस्तप्तं गमनायोपचक्रमे ॥ 018c
ततो भीमो वनं घोरं प्रविश्य विजनं महत् । 019a
न्यग्रोधं विपुलच्छायं रमणीयं ददर्श ह ॥ 019c
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः । 020a
पानीयं मृगयामीह तावद्विश्रम्यतामिह ॥ 020c
एते रुवन्ति मधुरं सारसा जलचारिणः । 021a
ध्रुवमत्र जलस्थानं महच्चेति मतिर्मम ॥ 021c
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत । 022a
जगाम तत्र यत्र स्म सारसा जलचारिणः ॥ 022c
'अपश्यत्पद्मिनीखण्डमण्डितं स सरोवरम् । 023a
'स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ ॥ 023c
तेषामर्थे च जग्राह भ्रातॄणां भ्रातृवत्सलः । 024a
उत्तरीयेण पानीयमानयामास भारत ॥ 024c
'पङ्कजानामनेकैश्च पत्रैर्बध्वा पृथक्पृथक् । 025a
'गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति । 025c
शोकदुःखपरीतात्मा निशश्वासोरगो यथा ॥ 025e
स सुप्तां मातरं 'भ्रातॄन्निद्राविद्रावितौजसः । 026a
महारौद्रे वने घोरे वृक्षमूले सुशीतले ॥ 026c
विक्षिप्तकरपादांश्च दीर्घोच्छ्वासान्महाबलान् । 027a
ऊर्ध्ववक्त्रान्महाकायान्पञ्चेन्द्रानिव भूपते ॥ 027c
अज्ञातवृक्षनित्यस्थप्रेतराक्षससाध्वसान् । 028a
दृष्ट्वा वै भृशशोकार्तो बिललापानिलात्मजः ॥' 028c
भृशं शोकपरीत्मा विललाप वृकोदरः ॥ 029ac
अतः कष्टतरं किं नु द्रष्टव्यं हि भविष्यति । 030a
यत्पश्यामि महीसुप्तान्भ्रातॄनद्य सुमन्दभाक् ॥ 030c
शयनेषु परार्ध्येषु ये पुरा वारणावते । 031a
नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ॥ 031c
स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः । 032a
कुन्तिराजसुतां कुन्तीं सर्वलक्षणपूजिताम् ॥ 032c
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः । 033a
तथैव चास्मज्जननीं पुण्डरीकोदरप्रभाम् ॥ 033c
सुकुमारतरामेनां महार्हशयनोचिताम् । 034a
शयानां पश्यताऽद्येह पृथिव्यामतथोचिताम् ॥ 034c
धर्मादिन्द्राच्च वाताच्च सुषुवे या सुतानिमान् । 035a
सेयं भूमौ परिश्रान्ता शेषे प्रासादशायिनी ॥ 035c
किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् । 036a
योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ॥ 036c
त्रिषु लोकेषु यो राज्यं धर्मनित्योऽर्हते नृपः । 037a
सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ॥ 037c
अयं नीलाम्बुदश्यामो नरेष्वप्रतिमोऽर्जुनः । 038a
शेते प्राकृतवद्भूमौ ततो दुःखतरं नु किम् ॥ 038c
अश्विनाविव देवानां याविमौ रूपसम्पदा । 039a
तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ॥ 039c
ज्ञातयो यस्य नै स्युर्विषमाः कुलपांसनाः । 040a
स जीवेत सुखं लोके ग्रामद्रुम इवैकजः ॥ 040c
एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः । 041a
चैत्यो भवति निर्ज्ञातिरध्वनीनैश्च पूजितः ॥ 041c
येषां च बहवः शूरा ज्ञातयो धर्ममाश्रिताः । 042a
ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ॥ 042c
बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः । 043a
जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ॥ 043c
वयं तु धृतराष्ट्रेण दुष्पुत्रेण दुरात्मना । 044a
'राज्यलुब्धेन मूर्खेण दुर्मन्त्रिसहितेन वै ॥ 044c
दुष्टेनाधर्मशीलेन स्वार्थनिष्ठैकबुद्धिना । 045a
'विवासिता न दग्धाश्च क्षत्तुर्बुद्धिपराक्रमात् ॥ 045c
तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः । 046a
कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ॥ 046c
सकामो भव दुर्बुद्धे धार्तराष्ट्राल्पदर्शन । 047a
नूनं देवाः प्रसन्नास्ते नानुज्ञां मे युधिष्ठिरः ॥ 047c
प्रयच्छति वधे तुभ्यं तेन जीवसि दुर्मते । 048a
नन्वद्य ससुतामात्यं सकर्णानुजसौबलम् ॥ 048c
गत्वा क्रोधसमाविष्टः प्रेषयिष्ये यमक्षयम् । 049a
किं नु शक्यं मया कर्तुं यत्तेन क्रुध्यते नृपः ॥ 049c
धर्मात्मा पाण्डवश्रेष्ठः पापाचार युधिष्ठिरः । 050a
एवमुक्त्वा महाबाहुः क्रोधसन्दीप्तमानसः ॥ 050c
करं करेण निष्पिष्य निःश्वसन्दीनमानसः । 051a
पुनर्दीनमना भूत्वा शान्तार्चिरिव पावकः ॥ 051c
भ्रातॄन्महीतले सुप्तानवैक्षत वृकोदरः । 052a
विश्वस्तानिव संविष्टान्पृथग्जनसमानिव ॥ 052c
नातिदूरेण नगरं वनादस्माद्धि लक्षये । 053a
जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहंस्वयम् ॥ 053c
प्राश्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः । 054a
इति भीमो व्यवस्यैव जजागार स्वयं तदा ॥ ॥ 054c
इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि त्रिषष्ट्यधिकशततमोऽध्यायः ॥ 163 ॥ ॥ समाप्तं जतुर्गृहपर्व ॥
1-163-2 शुचिशुक्रागमे ज्येष्ठाषाढयोः समये । आवर्जिताः समीकृता लता वृक्षाश्च यस्मिन् ॥ 1-163-3 अवरुज्य भङ्क्त्वा ॥ 1-163-4 रोषितो रोषं प्रापितः । त्रिषु गण्डकर्णमूलगुह्यदेशेषु प्रस्रुतो मदो यस्य सः । शुष्मी तेजस्वी ॥ 1-163-9 अनार्तवैरनृतुभवैरुत्पातरूपैरित्यर्थः ॥ 1-163-12 तृषा तृष्णया ॥ 1-163-30 सुसमन्दभागतिमन्दभाग्यः ॥ 1-163-40 एकज एक एव जातोऽसहायः ॥ 1-163-43 बान्धवानां नन्दनाः सुखदाः ॥ 1-163-48 तुभ्यं तव ॥ त्रिषष्ट्यधिकशततमोऽध्यायः ॥ 163 ॥