अध्यायः 162

पौरैः प्रातर्जतुगृहसमीपमागत्य पुरोचनसहितानां पाण्डवानां दाहं निश्चित्य धृतराष्ट्राय दूतमुखेन पाण्डवृत्तान्तनिवेदनम् ॥ 1 ॥ तच्छ्रवणेन ज्ञातिभिः सह धृतराष्ट्रेण कुन्त्यादीनाम् उदकदानम् ॥ 2 ॥ भीष्मविदुरयोः संवादः ॥ 3 ॥ वैशम्पायन उवाच 001
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः । 001a
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥ 001c
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः । 002a
जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ॥ 002c
नूनं दुर्योधनेनेदं विहितं पापकर्मणा । 003a
पाण्डवानां विनाशायेत्येवं ते चुक्रुशुर्जनाः ॥ 003c
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः । 004a
दग्धवान्पाण्डुदायादान्न ह्येतत्प्रतिषिद्धवान् ॥ 004c
नूनं शान्तनवोऽपीह न धर्ममनुवर्तते । 005a
द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥ 005c
'नावेक्षन्ते ह तं धर्मं धर्मात्मानोऽप्यहो विधेः । 006a
श्रुतवन्तोऽपि विद्वांसो धनवद्वशगा अहो ॥ 006c
साधूननाथान्धर्मिष्ठात्सत्यव्रतपरायणान् । 007a
नावेक्षन्ते महान्तोऽपि दैवं तेषां परायणम् ॥ 007c
ते वयं धृतराष्ट्राय प्रेषयामो दुरात्मने । 008a
संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ॥ 008c
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् । 009a
निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ॥ 009c
इतः पश्यत कुन्तीयं दग्धा शेते तपस्विनी । 010a
पुत्रैः सहैव वार्ष्णेयी हन्तेत्याहुः स्म नागराः ॥ 010c
खनकेन तु तेनैव वेश्म शोधयता बिलम् । 011a
पांसुभिः पिहितं तच्च पुरुषैस्तैर्न लक्षितम् ॥ 011c
ततस्ते प्रेषयामासुर्धृतराष्ट्राय नागराः । 012a
पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ॥ 012c
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् । 013a
विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥ 013c
अन्तर्हृष्टमनाश्चासौ बहिर्दुःखसमन्वितः । 014a
अन्तःशीतो बहिश्चोष्णो ग्रीष्मेऽगाधह्वदोयथा ॥ 014c
धृतराष्ट्र उवाच 015
अद्य पाण्डुर्मृतो राजा मम भ्राता महायशाः । 015a
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥ 015c
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् । 016a
सत्कारयन्तु तान्वीरान्कुन्तीं राजसुतां च ताम् ॥ 016c
ये च तत्र मृतास्तेषां सुहृदः सन्ति तानपि । 017a
कारयन्तु च कुल्यानि शुभ्राणि च बृहन्ति च ॥ 017c
मम दग्धा महात्मानः कुलवंशविवर्धनाः ॥ 018a
एवं गते मया शक्यं यद्यत्कारयितुं हितम् । 018c
पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ॥ 018e
'वैशम्पायन उवाच 019
समेताश्च ततः सर्वे भीष्मेण सह कौरवाः । 019a
धृतराष्ट्रः सपुत्रश्च गङ्गामभिमुखा ययुः ॥ 019c
एकवस्त्रा निरानन्दा निराभरणवेष्टनः । 020a
उदकं कर्तुकामा वै पाण्डवानां महात्मनाम् ॥' 020c
एवं गत्वा ततश्चक्रे ज्ञातिभिः परिवारितः । 021a
उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ॥ 021c
रुरुदुः सहिताः सर्वे भृशं शोकपरायणाः । 022a
हा युधिष्ठिर कौरव्य हा भीम इति चापरे ॥ 022c
हा फल्गुनेति चाप्यन्ये हा यमाविति चापरे । 023a
कुन्तीमार्ताश्च शोचन्त उदकं चक्रिरे जनाः ॥ 023c
अन्ये पौरजनाश्चैवमन्वशोचन्त पाण्डवान् । 024a
विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ॥ 024c
विदुरो धृतराष्ट्रस्य जानन्सर्वं मनोगतम् । 025a
तेनायं विधिना सृष्टः कुटिलः कपटाशयः ॥ 025c
इत्येवं चिन्तयन्राजन्विदुरो विदुषां वरः । 026a
लोकानां दर्शयन्दुःखं दुःखितैः सह बान्धवैः ॥ 026c
मनसाऽचिन्तयत्पार्थान्कियद्दूरं गता इति । 027a
सहिताः पाण्डवाः पुत्रा इति चिन्तापरोऽभवत् ॥ 027c
ततः प्रव्यथितो भीष्मः पाण्डुराजसुतान्मृतान् । 028a
सह मात्रेति तच्छ्रुत्वा विललाप रुरोद च ॥ 028c
भीष्म उवाच 029
हा युधिष्ठिर हा भीम हा धनञ्जय हा यमौ । 029a
हा पृथे सह पुत्रैस्त्वमेकरात्रेण स्वर्गता ॥ 029c
मात्रा सह कुमारास्ते सर्वे तत्रैव संस्थिताः । 030a
न हि तौ नोत्सहेयातां भीमसेनधनञ्जयौ ॥ 030c
तरसा वेगितात्मानौ निर्भेत्तुमपि मन्दरम् । 031a
परासुत्वं न पश्यामि पृथायाः सह पाण्डवैः ॥ 031c
सर्वथा विकृतं तत्तु यदि ते निधनं गताः । 032a
धर्मराजः स निर्दिष्टो ननु विप्रैर्युधिष्ठिरः ॥ 032c
पृथिव्यां च रथिश्रेष्ठो भविता स धनञ्जयः । 033a
सत्यव्रतो धर्मदत्तः सत्यवाक्छुभलक्षणः ॥ 033c
कथं कालवशं प्राप्तः पाण्डवेयो युधिष्ठिरः । 034a
आत्मानमुपमां कृत्वा परेषां वर्तते तु यः ॥ 034c
मात्रा सहैव कौरव्यः कथं कालवशं गतः । 035a
पालितः सुचिरं कालं फलकाले यथा द्रुमः ॥ 035c
भग्नः स्याद्वायुवेगेन तथा राजा युधिष्ठिरः । 036a
यौवराज्येऽभिषिक्तेन पितुर्येनाहृतं यशः ॥ 036c
आत्मनश्च पितुश्चैव सत्यधर्मप्रवृत्तिभिः । 037a
यच्च सा वनवासेन तन्माता दुःखभागिनी ॥ 037c
कालेन सह सम्मग्नो धिक्कृतान्तमनर्थकम् । 038a
यच्च सा वनवासेन तन्माता दुःखभागिनी ॥ 038c
पुत्रगृध्नुतया कुन्ती न भर्तारं मृतात्वनु । 039a
अल्पकालं कुले जाता भर्तुः प्रीतिमवाप या ॥ 039c
दग्धाऽद्य सह पुत्रैः सा असम्पूर्णमनोरथा । 040a
मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे ॥ 040c
एतच्च चिन्तयानस्य व्यथितं बहुधा मनः । 041a
अवधूय च मे देहं हृदयेन विदीर्यते ॥ 041c
पीनस्कन्धश्चारुबाहुर्मेरुकूटसमो युवा । 042a
मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे ॥ 042c
अतित्यागी च योधी च क्षिप्रहस्तो दृढायुधः । 043a
प्रपत्तिमाल्ँलब्धलक्षो रथयानविशारदः ॥ 043c
दूरपाती त्वसम्भ्रान्तो महावीर्यो महास्त्रवान् । 044a
अदीनात्मा नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ 044c
येन प्राच्याश्च सौवीरा दाक्षिणात्याश्च निर्जिताः । 045a
ख्यापितं येन शूरेण त्रिषु लोकेषु पौरुषम् ॥ 045c
यस्मिञ्जाते विशोकाऽभूत्कुन्ती पाण्डुश्च वीर्यवान् । 046a
पुरन्दरसमो जिष्णुः कथं कालवशं गतः ॥ 046c
कथं तावृषभष्कन्धौ सिंहविक्रान्तगामिनौ । 047a
मर्त्यधर्ममनुप्राप्तौ यमावरिनिवर्हणौ ॥ 047c
वत्सा गताः क्व मां वृद्धं विहाय भृशमातुरम् । 048a
हा स्नुषे मम वार्ष्णेयि निधाय हृदि मे शुचम् ॥ 048c
वारणावतयात्रायां के स्युर्वै शकुनाः पथि । 049a
एवमल्पायुषो लोके भविष्यन्ति पृथासुताः ॥ 049c
संशप्ता इति कैर्यूयं वत्सान्दर्शय मे पृथे । 050a
ममैव नाथा मन्नाथा मम नेत्राणि पाण्डवाः ॥ 050c
हा पाण्डवा मे हे वत्सा हा सिंहशिशवो मम । 051a
मातङ्गा हा ममोत्तुङ्गा हा ममानन्दवर्धनाः ॥ 051c
मम हीनस्य युष्माभिः सर्वलोकास्तमोवृताः । 052a
कदा द्रष्टाऽस्मि कौन्तेयांस्तरुणादित्यवर्चसः ॥ 052c
अदृष्ट्वा वो महाबाहून्पुत्रवन्मम नन्दनाः । 053a
क्व गतिर्मे क्व गच्छामि कुतो द्रक्ष्यामि मे शिशून् ॥ 053c
हा युधिष्ठिर हा भीम हा हा फल्गुन हा यमौ । 054a
मा गच्छत निवर्तध्वं मयि कोपं विमुञ्चत ॥ 054c
वैशम्पायन उवाच 055
श्रुत्वा तत्क्रन्दितं तस्य तिलोदं च प्रसिञ्चतः । 055a
देशं कालं समाज्ञाय विदुरः प्रत्यभाषत ॥ 055c
मा शोचीस्त्वं नरव्याघ्र जहि शोकं महाधृते । 056a
न तेषां विद्यते मृत्युः प्राप्तकालं कृतं मया ॥ 056c
एतच्च तेभ्य उदकं विप्रसिञ्च न भारत । 057a
क्षत्तेदमब्रवीद्भीष्मं कौरवाणामशृण्वताम् ॥ 057c
क्षत्तारमुपसङ्गम्य बाष्पोत्पीडकलस्वरः । 058a
मन्दम्मन्दमुवाचेदं विदुरं सङ्गमे नृप ॥ 058c
भीष्म उवाच 059
कथं ते तात जीवन्ति पाण्डोः पुत्रा महाबलाः । 059a
कथमस्मत्कृते पक्षः पाण्डोर्न हि निपातितः ॥ 059c
कथं मत्प्रमुखाः सर्वे प्रमुक्ता महतो भयात् । 060a
जननी गरुडेनेव कुरवस्ते समुद्धृताः ॥ 060c
वैशम्पायन उवाच 061
एवमुक्तस्तु कौरव्य कौरवाणामशृण्वताम् । 061a
आचचक्षे स धर्मात्मा भीष्मायाद्भुतकर्मणे ॥ 061c
विदुर उवाच 062
धृतराष्ट्रस्य शकुने राज्ञो दुर्योधनस्य च । 062a
विनाशे पाण्डुपुत्राणां कृतो मतिविनिश्चयः ॥ 062c
तत्राहमपि च ज्ञात्वा तस्य पापस्य निश्चयम् । 063a
तं जिघांसुरहं चापि तेषामनुमते स्थितः ॥ 063c
ततो जतुगृहं गत्वा दहनेऽस्मिन्नियोजिते । 064a
पृथायाश्च सपुत्राया धार्तराष्ट्रस्य शासनात् ॥ 064c
ततः खनकमाहूय सुरङ्गं वै बिलं तदा । 065a
सुगूढं कारयित्वा ते कुन्त्या पाण्डुसुतास्तदा ॥ 065c
निष्क्रामिता मया पूर्वं मा स्म शोके मनः कृथाः । 066a
ततस्तु नावमारोप्य सहपुत्रां पृथामहम् ॥ 066c
दत्त्वाऽभयं सपुत्रायै कुन्त्यै गृहमदाहयम् । 067a
तस्मात्ते मा स्म भूद्दुःखं मुक्ताः पापात्तु पाण्डवाः ॥ 067c
निर्गताः पाण्डवा राजन्मात्रा सह परन्तपाः । 068a
अग्निहादान्महाघोरान्मया तस्मादुपायतः ॥ 068c
मा स्म शोकमिमं कार्षीर्जीवन्त्येव च पाण्डवाः । 069a
प्रच्छन्ना विचिरिष्यन्ति यावत्कालस्य पर्ययः ॥ 069c
तस्मिन्युधिष्ठिरं काले द्रक्ष्यन्ति भुवि मानवाः । 070a
विमलं कृष्णपक्षान्ते जगच्चन्द्रमिवोदितम् ॥ 070c
न तस्य नाशं पश्यामि यस्य भ्राता धनञ्जयः । 071a
भीमसेनश्च दुर्धर्षौ माद्रीपुत्रौ च तौ यमौ ॥ 071c
वैशम्पायन उवाच 072
ततः संहृष्टसर्वाङ्गो भीष्मो विदुरमब्रवीत् । 072a
दिष्ट्यादिष्ट्येति संहृष्टः पूजयानो महामतिम् ॥ 072c
भीष्म उवाच 073
युक्तं चैवानुरूपं च कृतं तात शुभं त्वया । 073a
वयं विमोक्षिता दुःखात्पाण्डुपक्षो न नाशितः ॥ 073c
वैशम्पायन उवाच 074
एवमुक्त्वा विवेशाथ पुरं जनशताकुलम् । 075a
कुरुभिः सहितो राजन्नागरैश्च पितामहः ॥ 075c
अथाम्बिकेयः सामात्यः सकर्णः सहसौबलः । 076a
सात्मजः पार्थनाशस्य स्मरंस्तथ्यं जर्ष च ॥ 076c
भीष्मश्च राजन्दुर्धर्षो विदुरश्च महामतिः । 077a
जहृषाते स्मरन्तौ तौ जातुषाग्नेर्विमोचनम् ॥ 077c
सत्यशीलगुणाचारै रागैर्जानपदोद्भवैः । 078a
द्रोणादयश्च धर्मैस्तु तेषां तान्मोचितान्विदुः ॥ 078c
शौर्यलावण्यमाहात्म्यै रूपैः प्राणबलैरपि । 079a
स्वस्थान्पार्थानमन्यन्त पौरजानपदास्तथा ॥ 079c
अन्ये जनाः प्राकृताश्च स्त्रियश्च बहुलास्तदा । 080a
शङ्कमाना वदन्ति स्म दग्धा जीवन्ति वा न वा ॥ 080c
इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः ॥ 162 ॥ 1-162-17 कुल्यानि अस्थीनि कारयन्तु संस्कारयन्तु । कुल्यानि चैत्यानीत्यन्ये ॥ 1-162-25 विदुरस्त्वन्यथा चक्र इति घ. पाठः ॥ द्विषष्ट्यधिकशततमोऽध्यायः ॥ 162 ॥