अध्यायः 161
पाण्डवानां विदुरप्रेषितदूतदर्शितनौकया गङ्गोत्तरणम् ॥ 1 ॥
वैशम्पायन उवाच 001
एतस्मिन्नेव काले तु यथासम्प्रत्ययं कविः । 001a
विदुरः प्रेषयामास तद्वनं पुरुषं शुचिम् ॥ 001c
'आत्मनः पाण्डवानां च विश्वास्यं ज्ञातपूर्वकम् । 002a
गङ्गासन्तरणार्थाय ज्ञाताभिज्ञानवाचिकम् ॥' 002c
स गत्वा तु यथोद्देशं पाण्डवान्ददृशे वने । 003a
जनन्या सह कौरव्याननयज्जाह्नवीतटम् ॥ 003c
विदितं तन्महाबुद्धेर्विदुरस्य महात्मनः । 004a
ततस्तस्यापि चारेण चेष्टितं पापचेतसः ॥ 004c
ततः प्रवासितो विद्वान्विदुरेण नरस्तदा । 005a
पार्थानां दर्शयामास मनोमारुतगामिनीम् ॥ 005c
सर्ववातसहां नावं यन्त्रयुक्तां पताकिनीम् । 006a
शिवे भागीरथीतीरे नरैर्विस्रम्भिभिः कृताम् ॥ 006c
ततः पुनरथोवाच ज्ञापकं पूर्वचोदितम् । 007a
युधिष्ठिर निबोधेयं सञ्ज्ञार्थं वचनं कवेः ॥ 007c
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः । 008a
न हन्तीत्येवमात्मानं यो रक्षति स जीवति । 008c
'बोद्धव्यमिति यत्प्राह विदुरस्तदिदं तथा ॥' 008e
तेन मां प्रेषितं विद्धि विश्वस्तं सञ्ज्ञयाऽनया । 009a
भूयश्चैवाह मां क्षत्ता विदुरः सर्वतोऽर्थवित् । 009c
'अधिक्षिपन्धार्तराष्ट्रं सभ्रातृकमुदारधीः ॥' 009e
कर्णं दुर्योधनं चैव भ्रातृभिः सहितं रणे । 010a
शकुनिं चैव कौन्तेय विजेताऽसि न संशयः ॥ 010c
'वैशम्पायन उवाच 011
पाण्डवाश्चापि गत्वाथ गङ्गायास्तीरमुत्तमम् । 011a
निषादाधिपतिं वीरं दाशं परमधार्मिकम् ॥ 011c
दीपिकाभिः कृतालोकं मार्गमाणं च पाण्डवान् । 012a
ददृशुः पाण्डवेयास्ते नाविकं त्वरयाऽन्वितम् ॥ 012c
निषादस्तत्र कौन्तेयानभिज्ञानं न्यवेदयत् । 013a
विदुरस्य महाबुद्धेर्म्लेच्छभाषादि यत्तदा ॥ 013c
नाविक उवाच 014
विदुरेणास्मि सन्दिष्टो दत्त्वा बहु धनं महत् । 014a
गङ्गातीरे निविष्टस्त्वं पाण्डवांस्तारयेति ह ॥ 014c
सोऽहं चतुर्दशीमद्य गङ्गाया अविदूरतः । 015a
चारेरन्वेषयाम्यस्मिन्वने मृगगणान्विते ॥ 015c
प्रभवन्तोऽथ भद्रं वो नावमारुह्य गम्यताम् । 016a
युक्तारित्रपताकां च निश्छिद्रां मन्दिरोपमाम् ॥' 016c
इयं वारिपथे युक्ता नौरप्सु सुखगामिनी । 017a
मोचयिष्यति वः सर्वानस्माद्देशान्न संशयः ॥ 017c
वैशम्पायन उवाच 018
अथ तान्व्यथितान्दृष्ट्वा सह मात्रा नरोत्तमान् । 018a
नावमारोप्य गङ्गायां प्रस्थितानब्रवीत्पुनः ॥ 018c
विदुरो मूर्ध्न्युपाघ्राय परिष्वज्य वचो मुहुः । 019a
अरिष्टं गच्छताव्यग्राः पन्थानमिति चाब्रवीत् ॥ 019c
इत्युक्त्वा स तु तान्वीरान्पुमान्विदुरचोदितः । 020a
तारयामास राजेन्द्र गङ्गां नावा नरर्षभान् ॥ 020c
तारयित्वा ततो गङ्गां पारं प्राप्तांश्च सर्वशः । 021a
जयाशिषः प्रयुज्याथ यथागतमगाद्धि सः ॥ 021c
पाण्डवाश्च महात्मानः प्रतिसन्दिश्य वै कवेः । 022a
गङ्गामुत्तीर्य वेगेन जग्मुर्गूढमलक्षिताः ॥ 022c
'ततस्ते तत्र तीर्त्वा तु गङ्गामुत्तुङ्गवीचिकाम् । 023a
जवेन प्रययुर्वीरा दक्षिणां दिशमास्थिताः ॥ 023c
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः । 024a
वनाद्वनान्तरं राजन्गहनं प्रतिपेदिरे ॥ 024c
श्रान्तास्ततः पिपासार्ताः क्षुधिता भयकातराः । 025a
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥ 025c
इतः कष्टतरं किं नु यद्वयं गहने वने । 026a
दिशश्च न प्रजानीमो गन्तुं चैतेन शक्नुमः । 026c
तं च पापं न जानीमो दग्धो वाथ पुरोचनः ॥ 026e
कथं नु विप्रमुच्येम भयादस्मादलक्षिताः । 027a
शीघ्रमस्मानुपादाय तथैव व्रज भारत ॥ 027c
त्वं हि नो बलवानेको यथा सततगस्तथा । 028a
इत्युक्तो धर्मराजेन भीमसेनो महाबलः । 028c
आदाय कुन्तीं भ्रातॄंश्च जगामाशु स पावनिः' ॥ ॥ 028e
इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि एकषष्ट्यधिकशततमोऽध्यायः ॥ 161 ॥