अध्यायः 160

रात्रौ कुन्त्या अन्नादिना ब्राह्मणपूजनम् ॥ 1 ॥ भीमेन जतुगृहस्यादीपनम् ॥ 2 ॥ तस्य कुन्तीं भ्रातॄंश्चादाय सुरङ्गाद्वारा बहिर्निर्गमनम् ॥ 3 ॥ वैशम्पायन उवाच 001
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् । 001a
विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ॥ 001c
'स तु सञ्चिन्तयामास प्रहृष्टेनान्तरात्मना । 002a
प्राप्तकालमिदं मन्ये पाण्डवानां विनाशने ॥ 002c
तमस्यान्तर्गतं भावं विज्ञाय कुरुपुङ्गवः । 003a
चिन्तयामास मतिमान्धर्मपुत्रो युधिष्ठिरः ॥' 003c
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः । 004a
भीमसेनार्जुनौ चोभौ यमौ प्रोवाच धर्मवित् ॥ 004c
अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः । 005a
वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ॥ 005c
आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् । 006a
षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ॥ 006c
वैशम्पायन उवाच 007
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् । 007a
चक्रे निशि महाराज आजग्मुस्तत्र योषितः ॥ 007c
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत । 008a
जग्मुर्निशिं गृहानेव समनुज्ञाप्य माधवीम् ॥ 008c
'पुरोचनप्रणिहिता पृथां या सेवते सदा । 009a
निषादी दुष्टहृदया नित्यमन्तरचारिणी ॥ 009c
निषादी पञ्चपुत्रा सा तस्मिन्भोज्ये यदृच्छया । 010a
पुराभ्यासकृतस्नेहा सखी कुन्त्याः सुतैः सह ॥ 010c
आनीय मधुमूलानि फलानि विविधानि च । 011a
अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता । 011c
सुपापा पञ्चपुत्रा च सा पृथायाः सखी मता ॥' 011e
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला । 012a
सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने ॥ 012c
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप । 013a
अथ प्रवाते तुमुले निशि सुप्ते जने तदा ॥ 013c
तदुपादीपयद्भीमः शेते यत्र पुरोचनः । 014a
ततो जतुगृहद्वारं दीपयामास पाण्डवः ॥ 014c
समन्ततो ददौ पश्चादग्निं तत्र निवेशने । 015a
'पूर्वमेव गृहं शोध्य भीमसेनो महामतिः ॥ 015c
पाण्डवैः सहितां कुन्तीं प्रावेशयत तद्बिलम् । 016a
दत्त्वाग्निं सहसा भीमो गृहे तत्परितः सुधीः ॥ 016c
गृहस्थं द्रविणं गृह्य निर्जगाम बिलेन सः । 017a
'ज्ञात्वा तु तद्गृहं सर्वमादीप्तं पाण्डुनन्दनाः ॥ 017c
सुरङ्गां विविशुस्तूर्णं मात्रा सार्धमरिन्दमाः । 018a
ततः प्रतापः सुमहाञ्छब्दश्चैव विभावसोः ॥ 018c
प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः । 019a
तदवेक्ष्य गृहं दीप्तमाहुः पौराः कृशाननाः ॥ 019c
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना । 020a
गृहमात्मविनाशाय कारितं दाहितं च तत् ॥ 020c
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसा । 021a
यः शुचीन्पाण्डुदायादान्दाहयामास शत्रुवत् ॥ 021c
दिष्ट्या त्विदानीं पापात्मादग्ध्वा दग्धः पुरोचनः । 022a
अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ॥ 022c
वैशम्पायन उवाच 023
एवं ते विलपन्ति स्म वारणावतका जनाः । 023a
परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ॥ 023c
पाण्डवाश्चापि ते सर्वे सह मात्रा सुदुःखिताः । 024a
बिलेन तेन निर्गत्य जग्मुर्द्रुतमलक्षिताः ॥ 024c
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः । 025a
न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः ॥ 025c
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः । 026a
जगाम भ्रातॄनादाय सर्वान्मातरमेव च ॥ 026c
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् । 027a
पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलः ॥ 027c
उरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् । 028a
स जगामाशु तेजस्वी वातरंहा वृकोदरः ॥ ॥ 028c

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि षष्ट्यधिकशततमोऽध्यायः ॥ 160 ॥

1-160-6 जातुषागारमिति ङ. पाठः ॥ षष्ट्यधिकशततमोऽध्यायः ॥ 160 ॥