अध्यायः 159
खनकेन सुरङ्गकरणम् ॥ 1 ॥
वैशम्पायन उवाच 001
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् । 001a
विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् ॥ 001c
प्रहितो विदुरेणास्मि खनकः कुशलो ह्यहम् । 002a
पाण्डवानां प्रियं कार्यमिति किं करवाणि वः ॥ 002c
प्रच्छन्नं विदुरेणोक्तं प्रियं यन्म्लेच्छभाषया । 003a
त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् ॥ 003c
कृष्णपक्षे चतुर्दश्यां रात्रावस्यां पुरोचनः । 004a
भवनस्य तव द्वारि प्रदास्यति हुताशनम् ॥ 004c
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः । 005a
इति व्यवसितं तस्य धार्तराष्ट्रस्य दुर्मतेः ॥ 005c
वैशम्पायन उवाच 006
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः । 006a
अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै ॥ 006c
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् । 007a
न विद्यते कवेः किञ्चिदविज्ञातं प्रयोजनम् ॥ 007c
यथा तस्य तथा नस्त्वं निर्विशेषा वयं त्वयि । 008a
भवतश्च यथा तस्य पालयास्मान्यथा कविः ॥ 008c
इदं शरणमाग्नेयं मदर्थमिति मे मतिः । 009a
पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ॥ 009c
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः । 010a
अस्मानपि च पापात्मा नित्यकालं प्रबाधते ॥ 010c
स भवान्भोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् । 011a
अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः ॥ 011c
समृद्धमायुधागारमिदं तस्य दुरात्मनः । 012a
वप्रान्तं निष्प्रतीकारमाश्रित्येदं कृतं महत् ॥ 012c
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् । 013a
प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ॥ 013c
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा । 014a
पुरोचनस्याविदितानस्मांस्त्वं प्रतिमोचय ॥ 014c
वैशम्पायन उवाच 015
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः । 015a
परिखामुत्किरन्नाम चकार च महाबिलम् ॥ 015c
चक्रे च वेश्मनस्तस्य मध्ये नातिमहद्बिलम् । 016a
कपाटयुक्तमज्ञातं समं भूम्याश्च भारत ॥ 016c
पुरोचनभयादेव व्यदधात्संवृतं मुखम् । 017a
स तस्य तु गृहद्वारि वसत्यशुभधीः सदा । 017c
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप ॥ 017e
दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् । 018a
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् ॥ 018c
अतुष्टास्तुष्टवद्राजन्नूषुः परमविस्मिताः ॥ 019ac
न चैनानन्वबुध्यन्त नरा नगरवासिनः । 020a
अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् ॥ ॥ 020c
इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि ऊनषष्ट्यधिकशततमोऽध्यायः ॥ 159 ॥
1-159-4 आर्द्रायां च पुरोचनः । भवनस्य निशि द्वारि इति ङ. पाठः ॥ 1-159-7 कवेः सर्वज्ञस्य क्रान्तदर्शिनो वा ॥ 1-159-8 यथा वयं तस्य तथा भवतश्च ॥ 1-159-9 शरणं गृहम् ॥ 1-159-12 वप्रान्तं प्राकारमूलम् । निष्प्रतीकारं बहिर्निर्गमनप्रकारशून्यम् ॥ 1-159-14 अस्मांस्त्वं विप्रवासय इति ङ. पाठः ॥ 1-159-15 परिखा प्राकारपरिधिभूतो गर्तस्ताम् । नाम प्रसिद्धण् । उत्किरन्परिखापरिष्कारव्याजेन बिलान्मृदमुत्किरन् बहिः क्षिपन् महाबिलं सुरङ्गाख्यं चकार ॥ 1-159-16 नातिमहामुखम् इति ङ. पाठः ॥ ऊनषष्ट्यधिकशततमोऽध्यायः ॥ 159 ॥