अध्यायः 158

पाण्डवानां वारणावतप्रवेशः ॥ 1 ॥ वैशम्पायन उवाच 001
ततः सर्वाः प्रकृतयो नगराद्वारणावतात् । 001a
सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ॥ 001c
श्रुत्वाऽगतान्पाण्डुपुत्रान्नानायानैः सहस्रशः । 002a
अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ॥ 002c
ते समासाद्य कौन्तेयान्वारणावतका जनाः । 003a
कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ॥ 003c
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः । 004a
विबभौ देवसङ्काशो वज्रपाणिरिवामरैः ॥ 004c
सत्कृताश्चैव पौरैस्ते पौरान्सत्कृत्य चानघ । 005a
अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् ॥ 005c
ते प्रविश्य पुरीं वीरास्तूर्णं जग्मुरथो गृहान् । 006a
ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥ 006c
नगराधिकृतानां च गृहाणि रथिनां वराः । 007a
उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहाण्यपि ॥ 007c
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभ । 008a
जग्मुरावसथं पश्चात्पुरोचनपुरःसराः ॥ 008c
तेभ्यो भक्ष्याणि पानानि शयनानि शुभानि च । 009a
आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥ 009c
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः । 010a
उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ॥ 010c
दशरात्रोषितानां तु तत्र तेषां पुरोचनः । 011a
निवेदयामास गृहं शिवाख्यमशिवं तदा ॥ 011c
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः । 012a
पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ॥ 012c
तच्चागारमभिप्रेक्ष्य सर्वधर्मभृतां वरः । 013a
उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ॥ 013c
जिघ्राणोऽस्य वसागन्धं सर्पिर्जतुविमिश्रितम् । 014a
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप ॥ 014c
शणसर्जरसं व्यक्तमानीय गृहकर्मणि । 015a
मुञ्जबल्वजवंशादिद्रव्यं सर्वं घृतोक्षितम् ॥ 015c
'तृणबल्वजकार्पासवंशदारुकटान्यपि । 016a
आग्नेयान्यत्र क्षिप्तानि परितो वेश्मनस्तथा ॥' 016c
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि । 017a
विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ॥ 017c
तथा हि वर्तते मन्दः सुयोधनवशे स्थितः । 018a
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तथा ॥ 018c
आपदं तेन मां पार्थ स सम्बोधितवान्पुरा । 019a
ते वयं बोधितास्तेन नित्यमस्मद्धितैषिणा ॥ 019c
पित्रा कनीयसा स्नेहाद्बुद्धिमन्तो शिवं गृहम् । 020a
अनार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ॥ 020c
भीमसेन उवाच 021
यदीदं गृहामाग्नेयं विहितं मन्यते भवान् । 021a
तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ॥ 021c
'दर्शयित्वा पृथग्गन्तुं न कार्यं प्रतिभाति मे । 022a
अशुभं वा शुभं वा स्यात्तैर्वसाम सहैव तु ॥ 022c
अद्यप्रभृति चास्मासु गतेषु भयविह्वलः । 023a
रूढमूलो भवेद्राज्ये धार्तराष्ट्रो जनेश्वरः ॥ 023c
तदीयं तु भवेद्राज्यं तदीयाश्च जना इमे । 024a
तस्मात्सहैव वत्स्यामो गलन्यस्तपदा वयम् ॥ 024c
अस्माकं कालमासाद्य राज्यमाच्छिद्य शत्रुतः । 025a
अर्थं पैतृकमस्माकं सुखं भोक्ष्याम शाश्वतम् ॥ 025c
धृतराष्ट्रवचोऽस्माभिः किमर्थमनुपाल्यते । 026a
तेभ्यो भित्त्वाऽन्यथागन्तुं दौर्बल्यं ते कुतो नृप ॥ 026c
आपत्सु रक्षिताऽस्माकं विदुरोऽस्ति महामतिः । 027a
मध्यस्थ एव गाङ्गेयो राज्यभोगपराङ्मुखः ॥ 027c
बाह्लीकप्रमुखा वृद्धा मध्यस्था एव सर्वदा । 028a
अस्मदीयो भवेद्द्रोणः फल्गुनप्रेमसंयुतः ॥ 028c
तस्मात्सहैव वस्तव्यं न गन्तव्यं कथं नृप । 029a
अथवास्मासु ते कुर्युः किमशक्ताः पराक्रमैः ॥ 029c
क्षुद्राः कपटिनो धूर्ता जाग्रत्सु मनुजेश्वर । 030a
किं न कुर्युः पुरा मह्यं किं न दत्तं महाविषम् ॥ 030c
आशीविषैर्महाघोरैः सर्पैस्तैः किं न दंशितः । 031a
प्रमाणकोट्यां सङ्गृह्य निद्रापरवशे मयि ॥ 031c
सर्पैर्दृष्टिविषैर्घोरैर्गङ्गायां शूलसन्ततौ । 032a
किं तैर्न पातितो भूप तदा किं मृतवानहम् ॥ 032c
आपत्सु तासु घोरासु दुष्प्रयुक्तासु पापिभिः । 033a
अस्मानरक्षद्यो देवो जगद्यस्य वशे स्थितम् ॥ 033c
चराचरात्मकं सोऽद्य यातः कुत्र नृपोत्तम । 034a
यावत्सोढव्यमस्माभिस्तावत्सोढास्मि यत्नतः ॥ 034c
यदा न शक्ष्यतेऽस्माभिस्तदा पश्याम नो हितम् । 035a
किं द्रष्टव्यमिहास्माभिर्विगृह्य तरसा बलात् ॥ 035c
सान्त्ववादेन दानेन भेदेनापि यतामहे । 036a
अर्धराज्यस्य सम्प्राप्त्यै ततो दण्डः प्रशस्यते ॥ 036c
तस्मात्सहैव वस्तव्यं तन्मनोर्पितशल्यवत् । 037a
दर्शयित्वा पृथक् क्वापि न गन्तव्यं सुभीतवत् ॥' 037c
युधिष्ठिर उवाच 038
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये । 038a
अप्रमत्तैर्विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ॥ 038c
यदि विन्देत चाकारमस्माकं स पुरोचनः । 039a
क्षिप्रकारी ततो भूत्वा प्रसह्यापि दहेत्ततः ॥ 039c
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः । 040a
तथा हि वर्तते मन्दः सुयोधनवशे स्थितः ॥ 040c
अपि चायं प्रदग्धेषु भीष्मोऽस्मासु पितामहः । 041a
कोपं कुर्यात्किमर्थं वा कौरवान्कोपयीत सः ॥ 041c
अथवापीह दग्धेषु भीष्मोऽस्माकं पितामहः । 042a
धर्म इत्येव कुप्येरन्ये चान्ये कुरुपुङ्गवाः ॥ 042c
'उपपन्नं तु दग्धेषु कुलवंशानुकीर्तिताः । 043a
कुप्येरन्यदि धर्मज्ञास्तथान्ये कुरुपुङ्गवाः ॥' 043c
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेमहि । 044a
स्पशैर्नो घातयेत्सर्वान्राज्यलुब्धः सुयोधनः ॥ 044c
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः । 045a
हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ॥ 045c
तदस्माभिरिमं पापं तं च पापं सुयोधनम् । 046a
वञ्चयद्भिर्निवस्तव्यं छन्नं वीर क्वचित्क्वचित् ॥ 046c
ते वयं मृगयाशीलाश्चराम वसुधामिमाम् । 047a
तथा नो विदिता मार्गा भविष्यन्ति पलायतां ॥ 047c
भौमं च बिलमद्यैव करवाम सुसंवृतम् । 048a
गूढोद्गतान्न नस्तत्र हुताशः सम्प्रधक्ष्यति ॥ 048c
द्रवतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः । 049a
पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ॥ ॥ 049c

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ 158 ॥

1-158-22 दर्शयित्वा विरोधमिति शेषः ॥ 1-158-29 न गन्तव्यं हास्तिनपुरमिति शेषः ॥ 1-158-40 उपक्रोशाद्गर्हातः ॥ 1-158-41 अयं भीष्म इति सम्बन्धः ॥ 1-158-42 दग्धेष्वस्मास्वग्निदेषु कोपोऽधर्म इत्येव कारणं कृत्वा भीष्मोऽन्ये च कुप्येरन् ॥ 1-158-44 दाहस्य दाहात् । स्पशैश्चारैः ॥ 1-158-49 अत्र बिले ॥ अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ 158 ॥