अध्यायः 156
दुर्योधनादेशात् पुरोचनेन वारणावते जतुगृहनिर्माणम् ॥ 1 ॥
वैशम्पायन उवाच 001
धृतराष्ट्रप्रयुक्तेषु पाण्डुपुत्रेषु भारत । 001a
दुर्योधनः परं हर्षमगच्छत्स दुरात्मवान् ॥ 001c
'ततः सुबलपुत्रश्च कर्णदुर्योधनावपि । 002a
दहने सह पुत्रायाः कुन्त्या मतिमकुर्वत । 002c
मन्त्रयित्वा स तैः सार्धं दुरात्मा धृतराष्ट्रजः ॥' 002e
स पुरोचनमेकान्तमानीय भरतर्षभ । 003a
गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ॥ 003c
ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा । 004a
यथैव भविता तात तथा त्वं द्रष्टुमर्हसि ॥ 004c
न हि मे कश्चिदन्योऽस्ति विश्वासिकतरस्त्वया । 005a
सहायो येन सन्धाय मन्त्रयेयं यथा त्वया ॥ 005c
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर । 006a
निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ॥ 006c
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् । 007a
उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥ 007c
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना । 008a
वारणावतमद्यैव यथा यासि तया कुरु ॥ 008c
तत्र गत्वा चतुःशालं गृहं परमसंवृतम् । 009a
नगरोपान्तमाश्रित्य कारयेथा महाधनम् ॥ 009c
शणसर्जरसादीनि यानि द्रव्याणि कानिचित् । 010a
आग्नेयान्युत सन्तीह तानि तत्र प्रदापय ॥ 010c
'बल्वजेन च सम्मिश्रं मधूच्छिष्टेन चैव हि । 011a
'सर्पिस्तैलवसाभिश्च लाक्षया चाप्यनल्पया । 011c
मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापय ॥ 011e
शणं तैलं घृतं चैव जतु दारूणि चैव हि । 012a
तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥ 012c
'लाक्षाशममधूच्छिष्टवेष्टितानि मृदापि च । 013a
लेपयित्वा गुरूण्याशु दारुयन्त्राणि दापय ॥' 013c
यथा च तन्न पश्येरन्परीक्षन्तोऽपि पाण्डवाः । 014a
आग्नेयमिति तत्कार्यमपि चान्येऽपि मानवाः ॥ 014c
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् । 015a
वासयेथाः पाण्डवेयान्कुन्तीं च ससुहृज्जनाम् ॥ 015c
आसनानि च दिव्यानि यानानि शयनानि न । 016a
निघातव्यानि पाण्डूनां यथा तुष्येच्च मे पिता ॥ 016c
यथा च तन्न जानन्ति नगरे वारणावते । 017a
'यथा रमेरन्विस्रब्धा नगरे वारणावते ।' 017c
तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ॥ 017e
ज्ञात्वा च तान्सुविश्वस्ताञ्शयानानकुतोभयान् । 018a
अग्निस्त्वया ततो देयो द्वारतस्तस्य वेश्मनः ॥ 018c
दग्धानेवं स्वके गेहे दाहिताः पाण्डवा इति । 019a
न गर्हयेयुरस्मान्वै पाण्डवार्थाय कर्हिचित् ॥ 019c
स तथेति प्रतिज्ञाय कौरवाय पुरोचनः । 020a
प्रायाद्रासभयुक्तेन स्यन्दनेनाशुगामिना ॥ 020c
स गत्वा त्वरितं राजन्दुर्योधनमते स्थितः । 021a
यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ॥ 021c
'तेषां तु पाण्डवेयानां गृहं रौद्रमकल्पयत् ॥' ॥ 022ac
इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि षट्पञ्चाशदधिकशततमोऽध्यायः ॥ 156 ॥
1-156-6 उद्धर उन्मूलय ॥ 1-156-10 आग्नेयान्यग्निसन्दीपकानि ॥ षट्पञ्चाशदधिकशततमोऽध्यायः ॥ 156 ॥