अध्यायः 154

(अथ जतुगृहपर्व ॥ 8 ॥)

सङ्ग्रहेण जतुगृहदाहकथनम् ॥ 1 ॥ पुनर्विस्तरेण जतुगृहदाहकथनारम्भः ॥ 2 ॥ दुर्योधनधृतराष्ट्रसंवादः ॥ 3 ॥ वैशम्पायन उवाच 001
कणिकस्य मतं श्रुत्वा कार्त्स्न्येन भरतर्षभ । 001a
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः । 001c
दुशासनचतुर्थास्ते मन्त्रयामासुरेकदा ॥ 001e
ते कौरव्यमनुज्ञाप्य धृतराष्ट्रं नराधिपम् । 002a
दहने तु सपुत्रायाः कुन्त्या बुद्धिमकारयन् ॥ 002c
तेषामिङ्गितभावज्ञो विदुरस्तत्त्वदर्शिवान् । 003a
आकारेण च तं मन्त्रं बुबुधे दुष्टचेतसाम् ॥ 003c
ततो विदितवेद्यात्मा पाण्डवानां हिते रतः । 004a
पलायने मतिं चक्रे कुन्त्याः पुत्रैः सहानघः ॥ 004c
ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम् । 005a
ऊर्मिक्षमां दृढां कृत्वा कुन्तीमिदमुवाच ह ॥ 005c
एष जातः कुलस्यास्य कीर्तिवंशप्रणाशनः । 006a
धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम् ॥ 006c
इयं वारिपथे युक्ता तरङ्गपवनक्षमा । 007a
नौर्यया मृत्युपाशात्त्वं सपुत्रा मोक्ष्यसे शुभे ॥ 007c
तच्छ्रुत्वा व्यथिता कुन्ती पुत्रैः सह यशस्विनी । 008a
नावमारुह्य गङ्गायां प्रययौ भरतर्षभ ॥ 008c
ततो विदुरवाक्येन नावं विक्षिप्य पाण्डवाः । 009a
धनं चादाय तैर्दत्तमरिष्टं प्राविशन्वनम् ॥ 009c
निषादी पञ्चपुत्रा तु जातेषु तत्र वेश्मनि । 010a
कारणाभ्यागता दग्धा सह पुत्रैरनागसा ॥ 010c
स च म्लेच्छाधमः पापो दग्धस्तत्र पुरोचनः । 011a
वञ्चिताश्च दुरात्मानो धार्तराष्ट्राः सहानुगाः ॥ 011c
अविज्ञाता महात्मानो जनानामक्षतास्तथा । 012a
जनन्या सह कौन्तेया मुक्ता विदुरमन्त्रिताः ॥ 012c
ततस्तस्मिन्पुरे लोका नगरे वारणावते । 013a
दृष्ट्वा जतुगृहं दग्धमन्वशोचन्त दुःखिताः ॥ 013c
प्रेषयामासू राजानं यथावृत्तं निवेदितुम् । 014a
संवृतस्ते महान्कामः पाण्डवान्दग्धवानसि ॥ 014c
सकामो भव कौरव्य भुङ्क्ष्व राज्यं सपुत्रकः । 015a
तच्छ्रुत्वा धृतराष्ट्रस्तु सहपुत्रेण शोचयन् ॥ 015c
प्रेतकार्याणि च तथा चकार सह बान्धवैः । 016a
पाण्डवानां तथा क्षत्ता भीष्मश्च कुरुसत्तमः ॥ 016c
जनमेजय उवाच 017
पुनर्विस्तरशः श्रोतुमिच्छामि द्विजसत्तम । 017a
दाहं जतुगृहस्यैव पाण्डवानां च मोक्षणम् ॥ 017c
सुनृशंसमिदं कर्म तेषां क्रूरोपसंहितम् । 018a
कीर्तयस्व यथावृत्तं परं कौतूहलं मम ॥ 018c
वैशम्पायन उवाच 019
शृणु विस्तरशो राजन्वदतो मे परन्तप । 019a
दाहं जतुगृहस्यैतत्पाण्डवानां च मोक्षणम् ॥ 019c
वैशम्पायन उवाच 020
ततो दुर्योधनो राजा धृतराष्ट्रमभाषत । 020a
पाण्डवेभ्यो भयं नः स्यात्तान्विवासयतां भवान् । 020c
निपुणेनाभ्युपायेन नगरं वारणावतम् ॥ 020e
धृतराष्ट्रस्तु पुत्रेण श्रुत्वा वचनमीरितम् । 021a
मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत् ॥ 021c
धर्मनित्यः सदा पाण्डुस्तथा धर्मपरायणः । 022a
सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः ॥ 022c
नासौ किञ्चिद्विजानाति भोजनादिचिकीर्षितम् । 023a
निवेदयति नित्यं हि मम राज्यं धृतव्रतः ॥ 023c
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः । 024a
गुणवान्लोकविख्यातः पौरवाणां सुसम्मतः ॥ 024c
स कथं शक्यतेऽस्माभिरपाकर्तुं बलादितः । 025a
पितृपैतामाहाद्राज्यात्ससहायो विशेषतः ॥ 025c
भृता हि पाण्डुनाऽमात्या बलं च सततं भृतम् । 026a
भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ॥ 026c
ते पुरा सत्कृतास्तात पाण्डुना नागरा जनाः । 027a
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ॥ 027c
दुर्योधन उवाच 028
एवमेतन्मया तात भावितं दोषमात्मनि । 028a
दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन पूजिताः ॥ 028c
ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः । 029a
अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते ॥ 029c
स भवान्पाण्डवानाशु विवासयितुमर्हति । 030a
मृदुनैवाभ्युपायेन नगरं वारणावतम् ॥ 030c
यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति । 031a
तदा कुन्ती सहापत्या पुनरेष्यति भारत ॥ 031c
धृतराष्ट्र उवाच 032
दुर्योधन ममाप्येतद्धृदि सम्परिवर्तते । 032a
अभिप्रायस्य पापत्वान्नैवं तु विवृणोम्यहम् ॥ 032c
न च भीष्मो न च द्रोणो न च क्षत्ता न गौतमः । 033a
विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् ॥ 033c
समा हि कौरवेयाणां वयं ते चैव पुत्रक । 034a
नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः ॥ 034c
ते वयं कौरवेयाणामेतेषां च महात्मनाम् । 035a
कथं न वध्यतां तात गच्छाम जगतस्तथा ॥ 035c
दुर्योधन उवाच 036
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः । 036a
यतः पुत्रस्ततो द्रोणो भविता नात्र संशयः ॥ 036c
कृपः शारद्वतश्चैव यत एतौ ततो भवेत् । 037a
द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् ॥ 037c
क्षत्ताऽर्थबद्धस्त्वस्माकं प्रच्छन्नं संयतः परैः । 038a
न चैकः स समर्थोऽस्मान्पाण्डवार्थेऽधिबाधितुम् ॥ 038c
सुविस्रब्धः पाण्डुपुत्रान्सह मात्रा प्रवासय । 039a
वारणावतमद्यैव यथा यान्ति यथा कुरु ॥ 039c
विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम् । 040a
शोकपावकमुद्भूतं कर्मणैतेन नाशय ॥ ॥ 040c

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ 154 ॥

1-154-2 अनुज्ञाप्य पृष्ट्वा ॥ 1-154-3 इङ्गितं चेष्टितं तेन भावं चित्ताभिप्रायं जानातीति इङ्गितभावज्ञः ॥ 1-154-4 विदितवेद्यो ज्ञाततत्त्व आत्मा चित्तं यस्य ॥ 1-154-5 यन्त्रयुक्तां यन्त्रं महत्यपि वाते जलाशये नौकास्तम्भकं लोहलङ्गलमयम् ॥ 1-154-9 अरिष्टं निर्विघ्नम् ॥ 1-154-18 क्रूरेण कणिकेनोपसंहितमुपदिष्टम् ॥ चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ 154 ॥