अध्यायः 153
धृतराष्ट्रादीनां कणिकेन दुर्नीत्युपदेशः ॥ 1 ॥ जम्बुकोपाख्यानम् ॥ 2 ॥
वैशम्पायन उवाच 001
श्रुत्वा पाण्डुसुतान्वीरान्बलोद्रिक्तान्महौजसः । 001a
धृतराष्ट्रो महीपालश्चिन्तामगमदातुरः ॥ 001c
तत आहूय मन्त्रज्ञं राजशास्त्रार्थवित्तमम् । 002a
कणिकं मन्त्रिणां श्रेष्ठं धृतराष्ट्रोऽब्रवीद्वचः ॥ 002c
उत्सक्ताः पाण्डवा नित्यं तेभ्योऽसूये द्विजोत्तम । 003a
तत्र मे निश्चिततमं सन्धिविग्रहकारणम् । 003c
कणिक त्वं ममाचक्ष्व करिष्ये वचनं तव ॥ 003e
वैशम्पायन उवाच 004
'दुर्योधनोऽथ शकुनिः कर्णदुःशासनावपि । 004a
कणिकं ह्युपसङ्गृह्य मन्त्रिणं सौबलस्य च ॥ 004c
पप्रच्छुर्भरतश्रेष्ठ पाण्डवान्प्रति नैकधा । 005a
प्रबुद्धाः पाण्डवा नित्यं सर्वे तेभ्यस्त्रसामहे ॥ 005c
अनूनं सर्वपक्षाणां यद्भवेत्क्षेमकारकम् । 006a
भारद्वाज तदाचक्ष्व करिष्यामः कथं वयम् ॥ 006c
वैशम्पायन उवाच 007
स प्रसन्नमनास्तेन परिपृष्टो द्विजोत्तमः । 007a
उवाच वचनं तीक्ष्णं राजशास्त्रार्थदर्शनम् ॥ 007c
कणिक उवाच 008
शृणु राजन्निदं तत्र प्रोच्यमानं मयानघ । 008a
न मेऽभ्यसूया कर्तव्या श्रुत्वैतत्कुरुसत्तम ॥ 008c
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः । 009a
अच्छिद्रश्छिद्रदर्शी स्यात्परेषां विवरानुगः ॥ 009c
नित्यमुद्यतदण्डाद्धि भृशमुद्विजते जनः । 010a
तस्मात्सर्वाणि कार्याणि दण्डेनैव विधारयेत् ॥ 010c
नास्य च्छिद्रं परः पश्येच्छिद्रेण परमन्वियात् । 011a
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ 011c
'नित्यं च ब्राह्मणाः पूज्या नृपेण हितमिच्छता । 012a
सृष्टो नृपो हि विप्राणां पालने दुष्टनिग्रहे ॥ 012c
उभाभ्यां वर्धते धर्मो धर्मवृद्ध्या जितावुभौ । 013a
लोकश्चायं परश्चैव ततो धर्मं समाचरेत् ॥ 013c
कृतापराधं पुरुषं दृष्ट्वा यः क्षमते नृपः । 014a
तेनावमानमाप्नोति पापं चेह परत्र च ॥ 014c
यो विभूतिमवाप्योच्चै राज्ञो विकुरुतेऽधमः । 015a
तमानयित्वा हत्वा च दद्याद्धीनाय तद्धनम् ॥ 015c
नो चेद्धुरि नियुक्ता ये स्थास्यन्ति वशमात्मनः । 016a
राजा नियुञ्ज्यात्पुरुषानाप्तान्धर्मार्थकोविदान् ॥ 016c
ये नियुक्तास्तथा केचिद्राष्ट्रं वा यदि वा पुरम् । 017a
ग्रामं जनपदं वापि बाधेयुर्यदि वा न वा ॥ 017c
परीक्षणार्थं विसृजेदानतांश्छन्नरूपिणः । 018a
परीक्ष्य पापकं जह्याद्धनमादाय सर्वशः ॥ 018c
नासम्यक्कृत्यकारी स्यादुपक्रम्य कदाचन । 019a
कण्टको ह्यपि दुश्छिन्न आस्रावं जनयेच्चिरम् ॥ 019c
वधमेव प्रशंसन्ति शत्रूणामपकारिणाम् । 020a
सुविदीर्णं सुविक्रान्तं सुयुद्धं सुपलायितम् ॥ 020c
आपद्यापदि काले च कुर्वीत न विचारयेत् । 021a
नावज्ञेयो रिपुस्तात दुर्बलोऽपि कथं चन ॥ 021c
अल्पोऽप्यग्निर्वनं कृत्स्नं दहत्याश्रयसंश्रयात् । 022a
अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत् ॥ 022c
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् । 023a
सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुं वशे स्थितं ॥ 023c
दया न तस्मिन्कर्तव्या शरणागत इत्युत । 024a
निरुद्विग्नो हि भवति न हताज्जायते भयम् ॥ 024c
हन्यादमित्रं दानेन तथा पूर्वापकारिणम् । 025a
हन्यात्त्रीन्पञ्च सप्तेति परपक्षस्य सर्वशः ॥ 025c
मूलमेवादितश्छिन्द्यात्परपक्षस्य नित्यशः । 026a
ततः सहायांस्तत्पक्षान्सर्वांश्च तदनन्तरम् ॥ 026c
छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः । 027a
कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ ॥ 027c
एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः । 028a
राजन्नित्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ॥ 028c
अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः । 029a
लोकान्विश्वासयित्वैव ततो लुम्पेद्यथा वृकः ॥ 029c
अङ्कुशं शौचमित्याहुरर्थानामुपधारणे । 030a
आनाम्य फलितां शाखां पक्वं पक्वं प्रशातयेत् ॥ 030c
फलार्थोऽयं समारम्भो लोके पुंसां विपश्चिताम् । 031a
वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः ॥ 031c
ततः प्रत्यागते काले भिन्द्याद्घटमिवाश्मनि । 032a
अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन् ॥ 032c
कृपा न तस्मिन्कर्तव्या हन्यादेवापकारिणम् । 033a
हन्यादमित्रं सान्त्वेन तथा दानेन वा पुनः ॥ 033c
तथैव भेददण्डाभ्यां सर्वोपायैः प्रशातयेत् । 034a
धृतराष्ट्र उवाच 034
कथं सान्त्वेन दानेन भेदैर्दण्डेन वा पुनः ॥ 034c
अमित्रः शक्यते हन्तुं तन्मे ब्रूहि यथायथम् । 035a
कणिक उवाच 035
शृणु राजन्यथा वृत्तं वने निवसतः पुरा ॥ 035c
जम्बुकस्य महाराज नीतिशास्त्रार्थदर्शिनः । 036a
अथ कश्चित्कृतप्रज्ञः शृगालः स्वार्थपण्डितः ॥ 036c
सखिभिर्न्यवसत्सार्धं व्याघ्राखुवृकबभ्रुभिः । 037a
तेऽपश्यन्विपिने तस्मिन्बलिनं मृगयूथपम् ॥ 037c
अशक्ता ग्रहणे तस्य ततो मन्त्रममन्त्रयन् । 038a
जम्बुक उवाच 038
असकृद्यतितो ह्येष हन्तुं व्याघ्र वने त्वया ॥ 038c
युवा वै जवसम्पन्नो बुद्धिशाली न शक्यते । 039a
मूषिकोऽस्य शयानस्य चरणौ भक्षयत्वयम् ॥ 039c
अथैनं भक्षितैः पादैर्व्याघ्रो गृह्णातु वै ततः । 040a
ततो वै भक्षयिष्यामः सर्वे मुदितमानसाः ॥ 040c
जम्बुकस्य तु तद्वाक्यं तथा चक्रः समाहिताः । 041a
मूषिकाभक्षितैः पादैर्मृगं व्याघ्रोऽवधीत्तदा ॥ 041c
दृष्ट्वैवाचेष्टमानं तु भूमौ मृगकलेवरम् । 042a
स्नात्वाऽऽगच्छत भद्रं वो रक्षामीत्याह जम्बुकः ॥ 042c
शृगालवचनात्तेऽपि गताः सर्वे नदीं ततः । 043a
स चिन्तापरमो भूत्वा तस्थौ तत्रैव जम्बुकः ॥ 043c
अथाजगाम पूर्वं तु स्नात्वा व्याघ्रो महाबलः । 044a
ददर्श जम्बुकं चैव चिन्ताकुलितमानसम् ॥ 044c
व्याघ्र उवाच 045
किं शोचसि महाप्राज्ञ त्वं नो बुद्धिमतां वरः । 045a
अशित्वा पिशितान्यद्य विहरिष्यामहे वयम् ॥ 045c
जम्बुक उवाच 046
शृणु मे त्वं महाबाहो यद्वाक्यं मूषिकोऽब्रवीत् । 046a
धिग्बलं मृगराजस्य मयाद्यायं मृगो हतः ॥ 046c
मद्बाहुबलमाश्रित्य तृप्तिमद्य गमिष्यति । 047a
तस्यैवं गर्जितं श्रुत्वा ततो भक्ष्यं न रोचये ॥ 047c
व्याघ्र उवाच 048
ब्रवीति यदि स ह्येवं काले ह्यस्मि प्रबोधितः । 048a
स्वबाहुबलमाश्रित्य हनिष्येऽहं वनेचरान् ॥ 048c
खादिष्ये तत्र मांसानि इत्युक्त्वा प्रस्थितो वनम् । 049a
एतस्मिन्नेव काले तु मूषिकोऽप्याजगाम ह ॥ 049c
तमागतमभिप्रेक्ष्य शृगालोऽप्यब्रवीद्वचः । 050a
शृणु मूषिक भद्रं ते नकुलो यदिहाब्रवीत् ॥ 050c
मृगमांसं न खादेयं गरमेतन्न रोचते । 051a
मूषिकं भक्षयिष्यामि तद्भवाननुमन्यताम् ॥ 051c
तच्छ्रुत्वा मूषिको वाक्यं सन्त्रस्तः प्रगतो बिलम् । 052a
ततः स्नात्वा स वै तत्र आजगाम वृको नपृ ॥ 052c
तमागतमिदं वाक्यमब्रवीज्जम्बुकस्तदा । 053a
मृगराजो हि सङ्क्रुद्धो न ते साधु भविष्यति ॥ 053c
सकलत्रस्त्विहायाति कुरुष्व यदनन्तरम् । 054a
एवं सञ्चोदितस्तेन जम्बुकेन तदा वृकः ॥ 054c
ततोऽवलुम्पनं कृत्वा प्रयातः पिशिताशनः । 055a
एतस्मिन्नेव काले तु नकुलोऽप्याजगाम ह ॥ 055c
तमुवाच महाराज नकुलं जम्बुको वने । 056a
स्वबाहुबलमाश्रित्य निर्जितास्तेऽन्यतो गताः ॥ 056c
मम दत्त्वा नियुद्धं त्वं भुङ्क्ष्व मांसं यथेप्सितम् । 057a
नकुल उवाच 057
मृगराजो वृकश्चैव बुद्धिमानपि मूषिकः ॥ 057c
निर्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान् । 058a
न त्वयाप्युत्सहे योद्धुमित्युक्त्वा सोऽप्युपागमत् ॥ 058c
कणिक उवाच 059
एवं तेषु प्रयातेषु जम्बुको हृष्टमानसः । 059a
खादति स्म तदा मांसमेकः सन्मन्त्रनिश्चयात् । 059c
एवं समाचरन्नित्यं सुखमेधेत भूपतिः ॥ 059e
भयेन भेदयेद्भीरुं शूरमञ्जलिकर्मणा । 060a
लुब्धमर्थप्रदानेन समं न्यूनं तथौजसा ॥ 060c
एवं ते कथितं राजन् शृणु चाप्यपरं तथा ॥ 061a
पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः । 062a
रिपुस्थानेषु वर्तन्तो हन्तव्या भूतिमिच्छता ॥ 062c
शपथेनाप्यरिं हन्यादर्थदानेन वा पुनः । 063a
विषेण मायया वापि नोपेक्षेत कथञ्चन । 063c
उभौ चेत्संशयोपेतौ श्रद्धावांस्तत्र वर्धते ॥ 063e
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । 064a
उत्पथं प्रतिपन्नस्य न्याय्यं भवति शासनम् ॥ 064c
क्रुद्धोऽप्यक्रुद्धरूपः स्यात्स्मितपूर्वाभिभाषिता । 065a
'न चैनं क्रोधसन्दीप्तं विद्यात्कश्चित्कथञ्चन । 065c
न चाप्यन्यमपध्वंसेत्कदाचित्कोपसंयुतः ॥ 065e
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत । 066a
प्रहृत्य च प्रियं ब्रूयाच्छोचन्निव रुदन्निव ॥ 066c
आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः । 067a
अथ तं प्रहरेत्काले तथा विचलितं पथि ॥ 067c
अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः । 068a
स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः ॥ 068c
यः स्यादनुप्राप्तवधस्तस्यागारं प्रदीपयेत् । 069a
अधनान्नास्तिकांश्चोरान्विषकर्मसु योजयेत् ॥ 069c
प्रत्युत्थानासनाद्येन सम्प्रदानेन केनचित् । 070a
अतिविश्रब्धघाती स्यात्तीक्ष्णन्दष्ट्रो निमग्नकः ॥ 070c
अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः । 071a
अशङ्क्याद्भयमुत्पन्नमपि मूलं निकृन्तति ॥ 071c
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । 072a
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ 072c
चारः सुविहितः कार्य आत्मनश्च परस्य वा । 073a
पाषण्डांस्तापसादींश्च परराष्ट्रेषु योजयेत् ॥ 073c
उद्यानेषु विहारेषु देवतायतनेषु च । 074a
पानागारेषु रथ्यासु सर्वतीर्थेषु चाप्यथ ॥ 074c
चत्वरेषु च कूपेषु पर्वतेषु वनेषु च । 075a
समवायेषु सर्वेषु सरित्सु च विचारयेत् ॥ 075c
वाचा भृशं विनीतः स्याद्धृदयेन तथा क्षुरः । 076a
स्मितपूर्वाभिभाषी स्यात्सृष्टो रौद्रस्य कर्मणः ॥ 076c
अञ्जलिः शपथः सान्त्वं शिरसा पादवन्दनम् । 077a
आशाकरणमित्येवं कर्तव्यं भूतिमिच्छता ॥ 077c
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः । 078a
आमः स्यात्पक्वसङ्काशो नच जीर्येत कर्हिचित् ॥ 078c
त्रिवर्गे त्रिविधा पीडा ह्यनुबन्धास्तथैव च । 079a
अनुबन्धाः शुभा ज्ञेयाः पीडास्तु परिवर्जयेत् ॥ 079c
धर्मं विचरतः पीडा सापि द्वाभ्यां नियच्छति । 080a
अर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिनः ॥ 080c
अगर्वितात्मा युक्तश्च सान्त्वयुक्तोऽनसूयिता । 081a
अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सह ॥ 081c
कर्मणा येन केनैव मृदुना दारुणेन च । 082a
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ 082c
न संशयमनारुह्य नरो भद्राणि पश्यति । 083a
संशयं पुनरारुह्य यदि जीवति पश्यति ॥ 083c
यस्य बुद्धिः परिभवेत्तमतीतेन सान्त्वयेत् । 084a
अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम् ॥ 084c
योऽरिणा सह सन्धाय शयीत कृतकृत्यवत् । 085a
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ॥ 085c
मन्त्रसंवरणे यत्नः सदा कार्योऽनसूयता । 086a
आकारमभिरक्षेत चारेणाप्यनुपालितः ॥ 086c
'न रात्रौ मन्त्रयेद्विद्वान्न च कैश्चिदुपासितः । 087a
प्रासादाग्रे शिलाग्रे वा विशाले विजनेपि वा ॥ 087c
समन्तात्तत्र पश्यद्भिः सहाप्तैरेव मन्त्रयेत् । 088a
नैव संवेशयेत्तत्र मन्त्रवेश्मनि शारिकाम् ॥ 088c
शुकान्वा शारिका वापि बालमूर्खजडानपि । 089a
प्रविष्टानपि निर्वास्य मन्त्रयेद्धार्मिकैर्द्विजैः ॥ 089c
नीतिज्ञैर्न्यायशास्त्रज्ञैरितिहासे सुनिष्ठितैः । 090a
रक्षां मन्त्रस्य निश्छिद्रां मन्त्रान्ते निश्चयेत्स्वयम् ॥ 090c
वीरोपवर्णितात्तस्माद्धर्मार्थाभ्यामथात्मना । 091a
एकेन वाथ विप्रेण ज्ञातबुद्धिर्विनिश्चयेत् ॥ 091c
तृतीयेन न चान्येन व्रजेन्निश्चयमात्मवान् । 092a
षट्कर्णश्छिद्यते मन्त्र इति नीतिषु पठ्यते ॥ 092c
निःसृतो नाशयेत्मन्त्रो हस्तप्राप्तामपि श्रियम् । 093a
स्वमतं च परेषां च विचार्य च पुनःपुनः । 093c
गुणवद्वाक्यमादद्यान्नैव तृप्येद्विचक्षणः ॥ 093e
नाच्छित्वा परमर्माणि नाकृत्वा कर्म दारुणम् । 094a
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥ 094c
कर्शितं व्याधितं क्लिन्नमपानीयमघासकम् । 095a
परिविश्वस्तमन्दं च प्रहर्तव्यमरेर्बलम् ॥ 095c
नार्थिकोऽर्थिनमभ्येति कृतार्थे नास्ति सङ्गतम् । 096a
तस्मात्सर्वाणि साध्यानि सावशेषाणि कारयेत् ॥ 096c
सङ्ग्रहे विग्रहे चैव यत्नः कार्योऽनसूयता । 097a
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता ॥ 097c
नास्य कृत्यानि बुध्येरन्मित्राणि रिपवस्तथा । 098a
आरब्धान्येव पश्येरन्सुपर्यवसितान्यपि ॥ 098c
भीतवत्संविधातव्यं यावद्भयमनागतम् । 099a
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥ 099c
दैवेनोपहतं शत्रुमनुगृह्णाति यो नरः । 100a
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ 100c
अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम् । 101a
न तु बुद्धिक्षयात्किञ्चिदतिक्रामेत्प्रयोजनम् ॥ 101c
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता । 102a
विभज्य देशकालौ च दैवं धर्मादयस्त्रयः । 102c
नैःश्रेयसौ तु तौ ज्ञेयौ देशकालाविति स्थितिः ॥ 102e
तालवत्कुरुते मूलं बालः शत्रुरुपेक्षितः । 103a
गहनेऽग्निरिवोत्सृष्टः क्षिप्रं सञ्जायते महान् ॥ 103c
अग्निस्तोकमिवात्मानं सन्धुक्षयति यो नरः । 104a
स वर्धमानो ग्रसते महान्तमपि सञ्चयम् ॥ 104c
'आदावेव ददानीति प्रियं ब्रूयान्निरर्थकम् ॥ 105a
आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत् । 106a
विघ्नं निमित्ततो ब्रूयान्निमित्तं वाऽपि हेतुतः ॥ 106c
क्षुरो भूत्वा हरेत्प्राणान्निशितः कालसाधनः । 107a
प्रतिच्छन्नो लोमहारी द्विषतां परिकर्तनः ॥ 107c
पाण्डवेषु यथान्यायमन्येषु च कुरूद्वह । 108a
वर्तमानो न मज्जेस्त्वं तथा कृत्यं समाचर ॥ 108c
सर्वकल्याणसम्पन्नो विशिष्ट इति निश्चयः । 109a
तस्मात्त्वं पाण्डुपुत्रेभ्यो रक्षात्मानं नराधिप ॥ 109c
भ्रातृव्या बलवन्तस्ते पाण्डुपुत्रा नराधिप । 110a
पश्चात्तापो यथा न स्यात्तथा नीतिर्विधीयताम् ॥ 110c
वैशम्पायन उवाच 111
एवमुक्त्वा सम्प्रतस्थे कणिकः स्वगृहं ततः । 111a
धृतराष्ट्रोऽपि कौरव्यः शोकार्तः समपद्यत ॥ ॥ 111c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥ ॥ समाप्तं च सम्भवपर्वम् ॥
1-153-13 उभाभ्यां ब्राह्मणरक्षणदुष्टनिग्रहाभ्याम् । जितौ सम्पादितौ भवेतामिति शेषः ॥ 1-153-15 हीनाय दरिद्राय ॥ 1-153-20 उपसंहरति वधमिति । कथं वधः कर्तव्य इत्याह सुविदीर्णमिति । सुविक्रान्तमपि शत्रुं । काले आपद्यापन्नमालभ्य सुविदीर्णं विनष्टं कुर्वीत । तथा सुयुद्धमपि शत्रुमापदि काले सुपलायितं कुर्वीत ॥ 1-153-22 आश्रयसंश्रयात् आश्रयबलात् ॥ 1-153-23 तृणमयं तृणवन्निष्प्रयोजनम् । क्षात्रं धर्मं त्यक्त्वा शत्रुगृहे भिक्षाभुगपि स्यादित्यर्थः । मृगशायिकां मृगहन्तुः शय्याम् । यथा व्याधो मृगान्विश्वासयितुं मृषा निद्राति विश्वस्तेषु च तेषु प्रहरत्येवं स हन्तुमेवाकारं गोपयतीत्यर्थः । उपायैः वशे स्थितं शत्रुमिति सम्बन्धः ॥ 1-153-25 त्रीन् ऐश्वर्यमन्त्रोत्साहान् । तथा पञ्च अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चम इत्युक्तान् । दण्डोत्र सैन्यं । सप्त स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्बलानि चेत्युक्तानि ॥ 1-153-30 शौचमग्न्याधानादि । अत्र दृष्टान्तः आनाम्येति आनामयित्वा ॥ 1-153-37 बभ्रुर्नकुलः । मृगयूथपं महान्तं हरिणम् ॥ 1-153-41 मूषिकेण आ ईषद्भक्षितैः ॥ 1-153-46 मृगराजस्य व्याघ्रस्य ॥ 1-153-51 गरं मूषिकदष्टत्वाद्विषभूतम् ॥ 1-153-55 अवलुम्पनं गात्रसङ्कोचनम् ॥ 1-153-63 संशयोपेतौ संशयविषयौ । श्रद्धावान् मदुक्तादरवान् । श्रद्दधानस्तु बध्यत इति ङ. पाठः ॥ 1-153-65 अपध्वंसेत् कुत्सयेत् ॥ 1-153-69 अनुप्राप्तवधः शीघ्रं हन्तुमिष्टः अधना दरिद्राः नास्तिकाः परलोकश्रद्धारहिताः ॥ 1-153-70 निमग्नकः नम्रशिराः तीक्ष्णदंष्ट्रः व्याघ्र इव । तीक्ष्णदंष्ट्र इवोरग इति क.ङ. पाठः ॥ 1-153-73 सुविहितः सम्यक् परीक्षितः ॥ 1-153-76 सृष्टो रौद्राय कर्मण इति क.घ.पाठः ॥ 1-153-79 अनुबन्धः फलम् ॥ 1-153-80 धर्ममत्यन्तं विचरतः पुंसो द्वाभ्यामर्थकामाभ्यां धनव्ययब्रह्मचर्योपक्षिप्ताभ्यां पीडा चित्तवैकल्यं भवति । सापि पुंसः पीडा धर्मं नियच्छति निगृह्णाति । एवमर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिन इति व्याख्येयं ॥ 1-153-83 उद्देश्यसन्देहेपि नीतिरवश्यमनुसरणीयेत्याह । न संशयमिति । असंशयमथारुह्येति क.घ.ट.पाठः ॥ 1-153-84 परिभवेत् शोकेन । तमतीतेन नलरामाद्याख्यानेन । दुर्बुद्धिं । लोभाद्युपहतबुद्धिम् । अनागतेन कालान्तरे तव श्रेयो भविष्यतीत्याशाप्रदर्शनेन । पण्डितं प्रत्युत्पन्नेन वर्तमानेन धनादिना सान्त्वयेत् ॥ 1-153-86 मन्त्रसंवरणं मन्त्रगूहनम् ॥ 1-153-95 अघासकं अनाहारम् ॥ 1-153-96 सङ्गतं सख्यम् ॥ 1-153-98 आरब्धान्यपि सुपर्यवसितानि सम्पन्नान्येव पश्येरन् ॥ 1-153-99 संविधातव्यं
प्रतिकर्तव्यम् ॥ 1-153-102 देशाद्यनुगुण उत्साहोऽपि कर्तव्यो नत्वलसो भवेत् । दैवं प्राक्तनं कर्म । ये धर्मादयस्त्रयस्तांश्च विभज्य तेषां मध्ये नैःश्रेयसौ श्रेयोहेतू इति स्थितिर्निश्चयः ॥ 1-153-103 बालः अल्पोपि । बलवत्कुरुते रूपं बाल्यादिति क.ङ.ट.पाठः ॥ 1-153-104 आत्मानं सधुक्षयति सहायादिना वर्धयति । सञ्चयमिन्धनानां पक्षे शत्रूणाम् ॥ 1-153-106 हेतुतः हेत्वन्तरेण ॥ 1-153-111 तदा सपुत्रो राजा च शोकार्त इति ङ पुस्तकपाठः ॥ त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥ 001a