अध्यायः 152
युधिष्ठिरः साम्राज्येऽभिषेक्तव्य इति पौरवार्तां श्रुत्वा व्यथितस्य दुर्योधनस्य पित्रा सह संवादः ॥ 1 ॥
वैशम्पायन उवाच 001
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । 001a
दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मनाः ॥ 001c
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः । 002a
अनेकैरभ्युपायैस्ते जिघांसन्ति स्म पाण्डवान् ॥ 002c
पाण्डवा अपि तत्सर्वं प्रतिचक्रुर्यथाबलम् । 003a
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥ 003c
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा । 004a
कथयाञ्चक्रिरे तेषां गुणान्संसत्सु भारत ॥ 004c
राज्यप्राप्तिं च सम्प्राप्तं ज्येष्ठं पाण्डुसुतं तदा । 005a
कथयन्ति स्म सम्भूय चत्वरेषु सभासु च ॥ 005c
प्रज्ञाश्चक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः । 006a
राज्यं न प्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ॥ 006c
तथा शान्तनवो भीष्मः सत्यसन्धो महाव्रतः । 007a
प्रत्याख्याय पुरा राज्यं न स जातु ग्रहीष्यति ॥ 007c
ते वयं पाण्डवज्येष्ठं तरुणं वृद्धशीलिनम् । 008a
अभिषिञ्चाम साध्वद्य सत्यकारुण्यवेदिनम् ॥ 008c
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् । 009a
सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ॥ 009c
वैशम्पायन उवाच 010
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि जल्पताम् । 010a
युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ॥ 010c
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे । 011a
ईर्ष्यया चापि सन्तप्तो धृतराष्ट्रमुपागमत् ॥ 011c
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः । 012a
पौरानुरागसन्तप्तः पश्चादिदमभाषत ॥ 012c
श्रुता मे जल्पतां तात पौराणामशिवा गिरः । 013a
त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ॥ 013c
मतमेतच्च भीष्मस्य न स राज्यं बुभुक्षति । 014a
अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ॥ 014c
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा । 015a
त्वमन्धगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ॥ 015c
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः । 016a
तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्यापि चापरः ॥ 016c
ते वयं राजवंशेन हीनाः सह सुतैरपि । 017a
अवज्ञाता भविष्यामो लोकस्य जगतीपते ॥ 017c
सततं निरयं प्राप्ताः परपिण्डोपजीविनः । 018a
न भवेम यथा राजंस्तथा नीतिर्विधीयताम् ॥ 018c
यदि त्वं हि पुरा राजन्निदं राज्यमवाप्तवान् । 019a
ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ॥ 019c
वैशम्पायन उवाच 020
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् । 020a
मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत् ॥ 020c
धर्मनित्यस्तथा पाण्डुः सुप्रीतो मयि कौरवः । 021a
सर्वेषु ज्ञातिषु तथा मदीयेषु विशेषतः ॥ 021c
नात्र किञ्चन जानाति भोजनादि चिकीर्षितम् । 022a
निवेदयति तत्सर्वं मयि धर्मभृतां वरः ॥ 022c
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरः सदा । 023a
गुणावाल्ँलोकविख्यातो नगरे च प्रतिष्ठितः ॥ 023c
स कथं शक्यतेऽस्माभिरपाक्रष्टुं नरर्षभः । 024a
राज्यमेष हि नः प्राप्तः ससहयो विशेषतः ॥ 024c
भृता हि पाण्डुनाऽमात्या बलं च सततं मतम् । 025a
धृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ॥ 025c
ते तथा संस्तुतास्तात विषये पाण्डुना नराः । 026a
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ॥ 026c
नैते विषयमिच्छेयुर्धर्मत्यागे विशेषतः । 027a
ते वयं कौरवेन्द्राणामेतेषां च महात्मनाम् ॥ 027c
कथं न वाच्यतां तात गच्छेम जगतस्तथा ॥ 028a
दुर्योधन उवाच 029
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः । 029a
यतः पुत्रस्ततो द्रोणो भविता नात्र संशयः ॥ 029c
कृपः शारद्वतश्चैव यत एव वयं ततः । 030a
भागिनेयं ततो द्रौणिं न त्यक्ष्यति कथञ्चन ॥ 030c
क्षत्ता तु बन्धुरस्माकं प्रच्छन्नस्तु ततः परैः । 031a
न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् ॥ 031c
सुविस्रब्धान्पाण्डुसुतान्सह मात्रा विवासय । 032a
वारणावतमद्यैव नात्र दोषो भविष्यति ॥ 032c
विनिद्राकरणं घोरं हृदि शल्यमिवार्पितम् । 033a
शोकपावकमुद्धूतं कर्मणानेन नाशय ॥ 033c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः ॥ 152 ॥